________________
य ३ पंच नव चउरो ४ । दो नव सप्त य ५ चउ दोन्नि नव य ६ दो नव य सत्तेव ७ ॥ ३६ ॥ पण नव चउरो ८ वीसा य दोन्नि ९ छावट्टि १० बारसे ११ को १२ य । सावयभंगाणमिमे सवाणवि हुंति गुणकारा ॥ ३७ ॥ छच्चैव य १ छत्तीसा २ सोल दुगं चैव ३ छ नव दुर्गामिकं ४ | छ सन्त सत्त सत्त य ५ छप्पन्न छसट्ठि चउ छट्ठे ६ ॥ ३८ ॥ छत्तीसा नवनउई सत्तावीसा य ७ सोल छन्नउई । सन्त य सोलस भंगा अट्ठमठाणे वियाणाहि ८ ॥ ३९ ॥ छन्नउई छावन्तरि सन्त दु सुन्नेक्क हुंति नवमम्मि ९ । छाहतरि इगसट्ठी छायाला सुन्न छच्चेव १० ॥ ४० ॥ छप्पन्न सुन्न सत्त य नव सत्तावीस तह य छत्तीसा ११ ॥ छत्तीसा तेवीसा अडहत्तरि छहत्तरीगवीसा १२ ॥ ४१ ॥ दुहितविण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविणं ॥ ४२ ॥ एगविहं दुविहेणं एक्केकविहेण छट्ठओ होइ । उत्तरगुण सत्तमओ अविरयओ अमो होइ ॥ ४३ ॥ पंचण्हमणुवयाणं एक्कगदुगतिगचक्कपणगेहिं । पंचगदसदसपणएक्कगो य संजोय नावा ॥ ४४ ॥ छच्चेव य छत्तीसा सोल दुगं चैव छ नव दुग एकं । छस्सत्त सत्त सत्त
पंच वयाण गुणणपयं ॥ ४५ ॥ वयएक्कग संजोगाण हुंति पंचण्ह तीसई भंगा । गुणसंजोग दपि तिन्नि सट्टा सया हुंति ॥ ४६ ॥ तिगसंजोग दसण्हं भंगसया एक्कवीसह सट्टा । चउसंजोगपण चट्ठि सयाण असियाणि ॥ ४७ ॥ सतत्तरी सयाई छहत्तराई तु पंचमे हुंति । उत्तरगुण अविरयमेलियाण जाणाहि सव्वग्गं ॥ ४८ ॥ सोलस चेव सहस्सा अट्ठ सया चेव हुंति अहिया । एसो वय पिंडत्थो दंसणमाई उ पडिमाओ ॥ ४९ ॥
व्रतं-नियमविशेषस्तद्विद्यते येषां ते व्रतिनः श्रावका इत्यर्थः, ते द्विधा - वक्ष्यमाणयुक्त्या द्विप्रकाराः, अथवा अष्टविधाः, अथवा द्वात्रिंशद्भेदाः, अथवा सप्तशतानि पञ्चत्रिंशदधिकानि, अथवा षोडश सहस्रा अष्टौ शतान्यष्टोत्तराणि व्रतिनो भवन्ति । अत्र च त्रतिन इत्युक्ते सामान्येन श्रावका गृह्यन्ते नतु देशविरता एव, अविरतसम्यग्दृष्टीनामपि सम्यक्त्वप्रतिपत्तिलक्षणस्य नियमस्य सद्भावात् ॥ २२ ॥ अथैतानेव भेदान प्रत्येकं व्याचिख्यासुरायं भेदत्रयमाह - 'दुविहे 'त्यादि, द्विविधाः श्रावकाः - विरता अविरताश्च तत्र विरताः - प्रतिपन्नदेशविरतयः अविरताः—अभ्युपेतक्षायिक (कादि) सम्यक्त्वाः सत्यकिश्रेणिक कृष्णादय इव, 'दुविहं तिविहाइणट्ठहा होंति'त्ति द्विविधः - कृतकारितरूपः त्रिवि - धो- मनोवाक्कायभेदेन यत्र स द्विविधत्रिविध एको भङ्गः स आदिर्यस्य द्विविधत्रिविधादेर्भङ्गजालस्य तेन द्विविधत्रिविधादिना भङ्गजालेनाष्टविधाः श्रावका भवन्ति, यद्वक्ष्यति - "दुविहतिविद्देण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चैव तिविद्देणं ॥ १ ॥ एगविहं दुविहेणं एकेकविहेण छट्ठओ होइ । उत्तरगुण सत्तमओ अविरयओ अट्ठमो होइ ॥ २ ॥” अनयोश्च सोपयोगत्वादत्रैव व्याख्या क्रियते - इह व्रतं प्रतिपित्सुः कोऽपि किञ्चित्प्रतिपद्यते, श्रावकत्रतप्रतिपत्तेर्बहुभङ्गत्वात्, तत्र द्विविधं कृतकारितभेदं त्रिविधेन - मनसा वचसा कायेनेति प्रथमो भङ्गः एवं च भावना-स्थूलहिंसादिकं न करोत्यात्मना न कारयत्यन्येन मनसा वचसा कायेन चेति, अस्य चानुमतिरप्रतिषिद्धा, आपत्यादिपरिग्रहसद्भावात्तै हिंसादिकरणे च तस्यानुमतिप्राप्तेः, अन्यथा परिग्रहापरिग्रहयोरविशेषेण प्रत्रजिताप्रव्रजितयोरभेदापत्तेः, यत्पुनर्व्याख्याप्रज्ञम्यादौ त्रिविधं त्रिविधेमेत्यपि प्रत्याख्यानमुक्तमगारिणस्तद्विशेषविषयं विज्ञेयं, तथाहि-यः किल प्रवित्रजिषुरेव पुत्रादिसंततिपालनाय विलम्बमानः प्रतिमाः प्रतिपद्यते यो वा विशेषं स्वयम्भूरमणादिगतं मत्स्यमांसदन्तिदन्तचित्रकचर्मादिकं स्थूलहिंसादि वा कचिदवस्थाविशेषेण प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोति इत्यल्पविषयत्वादत्र न विवक्षितमिति, द्विविधं द्विविधेनेति द्वितीयो भङ्गः, अत्र चोत्तरभङ्गात्रयः, तत्र द्विविधमिति - स्थूलहिंसादिकं न करोति न कारयति, द्विविधेनेति मनसा वचसा १ यद्वा मनसा काये'नेति २ यद्वा वाचा कायेनेति ३, तत्र यदां मनसा वाचा न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव वाचाऽपि हिंसादिकम• जुवमेव कायेनैव दुश्चेष्टितादिना असंशिकवत्करोति, यदा तु मनसा कायेन न करोति न कारयति तदा मनसाऽमिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेवानाभोगाद्वाचैव हन्मि घातयामि चेति ब्रूते, यदा तु वाचा कायेन न करोति न कारयति तदा मनसैवामिसन्धिमघिकृत्य करोति कारयति च, अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्ति, एवं शेषविकल्पा अपि भावनीयाः, द्विविधमेकविधेनेति तृतीयः, अत्राप्युत्तरभङ्गात्रयः, द्विविधं करणं कारणं च एकविधेन मनसा १ यद्वा वचसा २ यद्वा कायेन ३, एकविधं त्रिविधेनेति चतुर्थः, अत्र च द्वौ प्रतिभङ्गौ, एकविधं करणं मनसा वाचा कायेन च, अथवा एकविधं कारणं मनसा वाचा कायेन, एकविधं द्विविधेनेति पञ्चमः, अत्र चोत्तरभेदाः षट्, एकविधं करणं द्विविधेन मनसा वाचा १ यद्वा मनसा कायेन २ यद्वा वाचा कायेन ३, अथवा एकविधं कारणं द्विविधेन मनसा वाचा ४ यद्वा मनसा कायेन ५ यद्वा वाचा कायेन ६, एकविधमेकविधेनेति षष्ठो मूलभङ्गः, अत्राप्युत्तरभङ्गाः षट्, एकविधं करणं एकविधेन मनसा १ यद्वा वाचा २ यद्वा कायेन ३ अथवा एकविधं कारणं एकविधेन मनसा ४ यद्वा वाचा ५ यद्वा कायेनेति ६, तदेवं मूलभङ्गाः षट्, षण्णामपि च मूलभङ्गानामुत्तरभङ्गाः सर्वसङ्ख्ययैकविंशतिः, तथा च वक्ष्यति - " दुविहतिविहा य छचिय तेसिं भेया कमेणिमे होंति । पढमेको दोन्नि तिया दुगेग दो छच इगवीसं ॥ १ ॥ एषाऽपि प्रक्रमादिहैव व्याख्यायते - अनन्तरोक्ता एव
260