SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ द्वाभ्यां त्रिमिचतुर्भिर्वा वचैरुत्पत्तिदेशमायाति, तत्रैकवक्रायां द्वौ समयौ, तयोश्च नियमादाहारकः, तथाहि - आद्यसमये पूर्वशरीरमोक्षः तस्मिंश्च समये तच्छरीरयोग्याः केचित्पुद्गला जीवयोगालोमाहारतः संबन्धमायान्ति, औदारिकवैक्रियाहारकपुद्गलादानं चाहारः, तत आद्यसमये आहारकः, द्वितीये च समये उत्पत्तिदेशे तद्भवयोग्यशरीर पुद्गलादानादाहारकः, द्विवक्रायां गतौ त्रयः समयाः, तत्राये अन्त्ये च प्राग्वदाहारको मध्यमे त्वनाहारकः, त्रिवक्रायां चत्वारः समयाः, ते चैवं-त्रसनाड्या बहिरधस्तनभागादूर्द्धमुपरितनभागादधो वा जायमानो जन्तुर्विदिशो दिशि दिशो वा विदिशि यदोत्पद्यते तदैकेन समयेन विदिशो दिशि याति द्वितीयेन त्रसनाडीं प्रविशति तृतीयेनोपर्यधो वा याति चतुर्थेन बहिरुत्पद्यते, दिशो विदिशि उत्पादे त्वाद्ये समये नसनाडीं प्रविशति द्वितीये उपर्यधो वा याति तृतीये बहिर्गच्छति चतुर्थे विदिश्युत्पद्यते, अत्राद्यन्तयोः प्राग्वदाहारकः मध्यमयोत्वनाहारकः, चतुर्वक्रायां पथ्व समयाः, ते च त्रसनाड्या बहिरेव विदिशो विदिश्युत्पादे प्राग्वद्भावनीयाः, अत्राप्याद्यन्तयोराहारकः त्रिषु त्वनाहारकः, तथा केवलिनः समुद्घातेऽष्टसामयिके तृतीयचतुर्थपभ्वमरूपान् केवलकार्मणयोगयुतांस्त्रीन् समयान्, अयोगिनः शैलेश्यवस्थायां ह्रस्वपञ्चाक्षरोच्चारणमात्रं, सिद्धास्तु सादिमपर्यवसितं कालमनाहारका इति २३३ ॥ १९ ॥ इदानीं 'सत्त भयद्वाणाई'ति चतुस्त्रिंशदुत्तरद्विशततमं द्वारमाह इह १ परलोया २ssयाणा ३ मकम्ह ४ आजीव ५ मरण ६ मसिलोए ७ । सत्त भयट्ठाणाई इमाई सिद्धं भणियाई ॥ २० ॥ भयं-भयमोहनीयप्रकृतिसमुत्थ आत्मपरिणामः तस्य स्थानानि - आश्रया भयस्थानानि, तत्र मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयं, इहाधिकृतभीतिमतो जन्तोर्जातौ यो लोकस्ततो भयमिति व्युत्पत्तेः, तथा परस्मात्-विजातीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं, तथा आदीयते इत्यादानं तदर्थं मम सकाशादयमिदमादास्यतीति यौरादिभ्यो भयं तदादानभयं, तथा अकस्मादेव - बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयं तथा धनधान्यादिहीनोऽहं दुष्काले कथं जीविष्यामीति दुष्कालपतनाद्याकर्णनाद्भयमाजीविकाभयं नैमित्तिकादिना मरिष्यसि त्वमधुनेत्यादिकथिते भयं मरणभयं, अकार्यकरणोन्मुखस्य विवेचनायां जनापवादमुत्प्रेक्ष्य भयमश्लोकभयमिति, इमानि सप्त भयस्थानानि सिद्धांते भणितानि २३४ ॥ २० ॥ इदानीं 'छब्भासाओ अप्पसत्थाओ' त्ति पंचत्रिंशदुत्तरद्विशततमं द्वारमाह हीलिय १ खिंसिय २ फरुसा ३ अलिआ ४ तह गारहत्थिया भासा ५ । छट्ठी पुण उवसंताहिगरणउल्लाससंजणणी ६ ॥ २१ ॥ भाष्यन्ते-प्रोच्यन्ते भाषा-वचनानि ताश्च अप्रशस्ता - गुरुकर्मबन्धहेतुत्वादशोभना हीलितादिभेदतः षड् भवन्ति, तत्र हीलिता सासूयमवगणयन् वाचक ! ज्येष्ठार्येत्यादि जल्पनं १ खिंसिता जन्मकर्माद्युद्घाटनं २ परुषा दुष्टशैक्षेत्यादि कर्कशवचनं ३ अलीका किं दिवा प्रचलयसीत्यादिप्रभे न प्रचलयामीत्यादि भणनं ४ ( प्रन्थानं १५०००) तथा गृहस्थानामियं भाषा गार्हस्थी सा च पुत्र मामक भागिनेयेत्यादिरूपा ५ षष्ठी पुनर्भाषा 'उपशान्ताधिकरणोल्लाससंजननी' उपशान्तस्य - उपशमं नीतस्याधिकरणस्य- कलहस्य य उल्लास : -प्रकामं प्रवर्तनं तस्य संजननी - समुत्पादयित्रीत्यर्थः २३५ ||२१|| इदानीं 'भंगा अणुषयाणं' ति षट्त्रिंशदुत्तरद्विशत्ततमं द्वारमाह दुवा २ अट्ठविहा वा ८ बत्तीसविहा य ३२ सत्तपणतीसा ७३५ । सोलस य सहस्स भवे अट्ठ सयोत्तरा १६८०८ वहणो ॥ २२ ॥ दुविहा विरयाविरया दुविहंतिविहाइणट्ठहा हुंति । वयमेगेगं छविहगुणियं दुगमिलिय बत्तीसं ॥ २३ ॥ तिन्नि तिया तिन्नि दुया तिन्निक्केका यहुंति जोए । ति दु एकं ति दु एवं ति दु एक्कं चैव करणाई ॥ २४ ॥ मणवयकाइयजोगे करणे कारावणे अणुमईए । एक्कगदुगतिगजोगे सत्ता सत्तेव गुणवन्ना ॥ २५ ॥ पढमेको तिन्नि तिया दोन्नि नवा तिनि दो नवा चेव । कालतिगेण य गुणिया सीयालं होइ भंगसयं ॥ २६ ॥ पंचाणुवयगुयिं सीयालसयं तु नवरि जाणाहि । सत्त सया पणतीसा सावयवयगहणकालंमि ॥ २७ ॥ सीयालं भंगसयं जस्स विमुद्धीऍ होइ उवलद्धं । सो खलु पञ्चक्खाणे कुसलो सेसा अकुसला उ ॥ २८ ॥ दुविहतिविहाह छविह तेसिं भेया कमेणिमे हुंति । पढमेको दुन्नि तिया दुगेग दो छक्क इगवीसं ॥ २९ ॥ एगवए छन्भंगा निद्दिट्ठा सावयाण जे सुत्ते । ते चिय पयवुडीए सन्तगुणा छज्जुया कमसो ॥ ३० ॥ इगवीसं खलु भंगा निद्दिट्ठा सावयाण जे सुप्ते । ते श्चिय बावीसगुणा इगवीसं पक्खिवेयन्वा ॥ ३१ ॥ एगवए नव भंगा निद्दिट्ठा सावयाण जे सुत्ते । ते चिय दसगुण कार्ड नव पक्खेवंमि कायद्या ॥ ३२ ॥ इगवन्नं खलु भंगा निद्दिट्ठा सावयाण जे सुत्ते । ते चिय पन्नासगुणा गुणवन्नं पक्खिवेयत्वा ॥ ३३ ॥ एगाई एगुत्तरपत्तेयपयंमि उवरि पक्खेवो । एक्केकहाणिअवसाणसंख्या हुंति संयोगा ॥ ३४ ॥ अहवा पयाणि ठविडं अक्खे घित्तूण चारणं कुज्जा । एक्कगदुगाइजोगा भंगाणं संख कायवा ॥ ३५ ॥ बारस १ छावट्ठीवि य २ बीसहिया दो 259
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy