________________
मिदं मया तदा मानसी अनुमतिरिति, तदेवं सूत्रकृन्निगदितां नवभङ्गी विवृण्वद्भिरस्माभिः प्रसङ्गादेकोनपश्चाशद्भद्यपि प्रद. शिता ॥ २४॥ संप्रति प्रकारांतरेण सूत्रकार एवैनां प्रतिपादयितुमाह-'मणेत्यादि, इह च प्राकृतत्वाद्विभक्तिव्यत्ययोऽवगन्तव्यः, ततः करणस्य कारणस्यानुमतेश्च मनोवाकायलक्षणैः त्रिभिः करणैः सह योगे-संबन्धे सति एकद्विकत्रिकयोगे-प्रत्येकमेकसंयोगद्विकसंयोगत्रिकसंयोगचिन्तया सप्त- सप्तका भवन्ति, तथाहि-स्थूलहिंसादिकं न करोति मनसा १ वाचा २ कायेन च ३ . मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन ६ मनसा वाचा कायेन च ७, एते करणेन सप्त भङ्गाः, एवं कारणेन सप्त, अनुमत्या सप्त, तथा, स्थूलहिंसादिकं न करोति न कारयति च मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन ६ मनसा वाचा कायेन ७, एते करणकारणाभ्यां सप्त भङ्गाः, एवं कारणानुमतिभ्यामपि सप्त, करणानुमतिभ्यां सप्त, करणकारणानुमतिमिरपि सप्त, एवं सप्त सप्तका मीलिता एकोनपञ्चाशद्भवन्ति ॥ २५ ॥ अत्र सूत्रकारः पूर्वोक्ताया एव नवभङ्ग्या उत्तरभङ्गप्रतिपादनपूर्व सप्तचत्वारिंशदुत्तरशतसङ्ख्यान भङ्गकानाह-'पढमे इत्यादि, तिन्नि तियेत्यादिगाथोक्तानां नवभङ्गीप्रतिपादकानामङ्कानामधस्तात्प्रथमे स्थाने एककः स्थाप्यते, ततः क्रमेण त्रयस्त्रिकाः, ततो द्वौ नवको, तत एकत्रिकः, पुनरपि द्वौ नवको, अयमत्र तात्पर्यार्थ:-त्रिविधं त्रिविधेनेत्यत्र प्रथमभङ्गे एक एव विकल्पः, सर्वप्रकारैः प्रत्याख्यातत्वाद्विकल्पान्तराभाव इति भावः, तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु त्रयस्त्रयः पञ्चमषष्ठयोर्नव नव सप्तमे त्रयः अष्टमनवमयोर्नव नवेत्येवं सर्वेऽप्येकोनपञ्चाशत् , एते च त्रिकालविषयत्वात्प्रत्याख्यानस्य कालत्रिकेण-अतीतानागतवर्तमानलक्षणेन गुणिताः सप्तचत्वारिंशं शतं भङ्गानां भवन्ति, त्रिकालविषयता चातीतस्य निन्दया साम्प्रतिकस्य संवरणेन अनागतस्य च प्रत्याख्यानेनेति, यदाह-"अईयं निंदामि पडुप्पन्नं संवरेमि अणागयं च पञ्चक्खामि"त्ति ॥ २६ ॥ साम्प्रतं पञ्चत्रिंशदुत्तरसप्तशतसङ्ख्यान् श्रावकभेदानाह-पंचे'त्यादि, इह नवरिशब्द आनन्तर्यार्थः, 'आनन्तर्ये णवरीति प्राकृतलक्षणवचनात् , आनन्तर्य च पूर्वोक्तापेक्षया, ततोऽयमर्थः-एतदेव सप्तचत्वारिंशं शतं पञ्चस्वप्यणुव्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावात्पञ्चमिरणुव्रतैर्गुणितं सप्त शतानि पञ्चत्रिंशदधिकानि जानीहि-बुध्यस्व श्रावकव्रतग्रहणकाले-श्रावकाणां पश्चाणुव्रतप्रतिपत्तिप्रस्तावे इति ॥ २७॥ एते च भङ्गा यस्यार्थतोऽवगताः स एव प्रत्याख्यानप्रवीण इति दर्शयन्नाह-'सीयाल'मित्यादि, विशुद्धिर्नाम जीवस्य विशुद्धिकारित्वात्प्रत्याख्यानमुच्यते तद्विषयं 'सीयालं'ति सप्तचत्वारिंशदुत्तरभङ्गाना-प्रणप्रकाररूपाणां शतं यस्योपलब्धं-अर्थतः सम्यक्परिज्ञातं भवति स खलु-स एव प्रत्याख्याने-नियमविशेषप्रतिपत्तिरूपे कुशलो-निष्णातः, शेषा-एतद्व्यतिरिक्ताः पुनरकुशला-अनमिज्ञाः । इह च यद्यप्यनन्तरं पञ्चत्रिंशदुत्तराणि सप्त शतान्यभिहितानि वथापि सप्तचत्वारिंशच्छतमूलत्वात्तेषां मुख्यतया सूत्रे सप्तचत्वारिंशच्छतमेवमुक्तमिति ॥ २८ ॥ अथ षड्भङ्गया एवोत्तरभङ्गरूपामेकविंशतिभङ्गीमाह'दुविहे'त्यादि, इयं च प्राग्व्याख्यातेव, इह च द्विविधत्रिविधादिना पूर्वभणितेन भङ्गकनिकुरम्बेन श्रावकाहपञ्चाणुव्रतादिव्रतसंहतिभनकदेवकुलिकाः सूचिताः, ताश्च एकैकव्रतं प्रत्य मिहितया षड्नङ्ग्या तथा एकविंशतिभङ्गया तथा नवभङ्गया तथा एकोनपञ्चाशनझ्या च निष्पद्यन्ते । अथ देवकुलिका इति कः शब्दार्थः ?, उच्यते, एकादिव्रतप्रतिबद्धभङ्गककदम्बकप्रतिपादका अङ्काः पट्टादिषु न्यस्ता देवकुलिकाकारत्वेन प्रतिभासनाद्देवकुलिका इति व्यपदिश्यन्ते, सर्वास्खपि च देवकुलिकासु प्रत्येकं त्रयस्त्रयो राशयो भवन्ति, तद्यथाआदौ गुण्यराशिः मध्ये गुणकारकराशिः अन्ते चागतराशिरिति ॥ २९॥ तत्र प्रथमं तावदेतासामेव देवकुलिकानां षड्नङ्ग्यादिक्रमेण विवक्षितघ्रतभङ्गकसर्वसायारूपानेवंकारकराशीनाह-'एगे'त्यादिगाथाचतुष्कं, एकस्मिन् व्रते-स्थूलप्राणातिपातविरमणादिके ये द्विविधत्रिविधादयः षड्भङ्गाः सूत्रे-आवश्यकनियुक्त्यादौ श्रावकाणां निर्दिष्टा:-कथितास्त एव षड्नङ्गाः सप्तगुणा:-सप्तमिस्ताडिताः षड्युताश्च क्रमेण सर्वभङ्गकसङ्ख्याराशिं जनयन्तीति शेषः, कथं पुनः षड्भङ्गाः सप्तमिर्गुण्यन्ते ? इत्याह-पदवृद्ध्या-मृषावादाचेकैकव्रतक्ष्या, यावन्ति व्रतानि विवक्ष्यन्ते तावतीर्वारा गुण्यन्ते इति तात्पर्य, स्थूलं च न्यायमाश्रित्यैवमुच्यते यावता एकव्रतमङ्गकराशेरषधी व्यवस्थापितत्वाद्विवक्षितव्रतेभ्य एकेन हीना वारा गुण्यन्ते इति, इयमत्र भावना-एकवते तावत् षङ्गङ्गाः, ते च सप्तमिर्गुणिता जाता द्विचत्वारिंशत् तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशत् एषाऽपि सप्तमिर्गुण्यते षट् च क्षिप्यन्ते जातं ३४२ अत्रापि सप्तमिर्गुणिते षटसु प्रक्षिसेषु जातं २४०० पुनः सप्तभिर्गुणिते षट्प्रक्षेपे च जातं १६८०६, एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावद्गन्तव्यं यावदेकादश्यां वेलायामागतं १३८४१२८७२०२, एते चाष्टचत्वारिंशदादयो द्वादशाप्यागतराशय उपर्यधोभावेन व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारां भूमिकामास्तृण्वन्तीति खण्डदेवकुलिकेत्युच्यते, तदेवमुक्ता षङ्गङ्गीप्रतिबद्धा खण्डदेवकुलिका ॥ एकविंशतिभङ्ग्यादिखण्डदेवकुलिका अप्येवमेव भावनीयाः, केवलमेकविंशतिभङ्गीपक्षे एकविंशतिरवधौ व्यवस्थाप्य वारंवारं द्वाविंशत्या गुण्यन्ते एकविंशतिस्तु प्रक्षिप्यते यावदेकादशवेलायां द्वादशवतभङ्गसर्वसङ्यायामागतं १२८५५००२६३१०४९२१५ । नवभङ्गीपक्षेऽप्येवं, नवरमवधौ नव, ते च वारंवारं दशमिर्गुण्यन्ते नव च प्रक्षिप्यन्ते यावदेकादश्यां वारायां सर्वव्रतभङ्गसर्वसङ्ख्यायामागतं ९९९९९९९९९९९९ । एकोनपचाशद्भङ्गीपक्षे पुनरवधावेकोनपञ्चाशत् , सा च वारंवारं पञ्चाशता गुण्यते एकोनपञ्चाशच्च प्रक्षिप्यन्ते यावदेकादश्यां वारायां सर्व. व्रतभङ्गकसङ्ख्यायामागतं २४४१४०६२४९९९९९९९९९९९९ । अक्षरार्थस्तु सुगम एवेति, तथा सप्तचत्वारिंशच्छतभङ्गपक्षेऽप्येवं, नवरं तत्र सप्तचत्वारिंशच्छतमवधी व्यवस्थाप्यते, वारंवारमष्टचत्वारिंशच्छतेन गुण्यते, सप्तचत्वारिंशच्छतं च प्रक्षिप्यते यावदेकादश्यां
262