Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 275
________________ भङ्गाः, एवमतीतेऽपि नव, भविष्यत्यपि नवेत्येवं सप्तविंशतिः, आह च भाष्यकृत्-"करणतिगेणेकेकं कालतिए तिघणसखियनिसीणं । सवंति जओ गहियं सीयालसयं पुण गिहीणं ॥१॥[किरणत्रिकेणैकैकं (योगं) कालत्रिकेण त्रिघनसङ्ख्यमृषीणां । सर्वमिति यतो गृहीतं सप्तचत्वारिंशं शतं पुनर्गृहिणां ॥ १ ॥ ३४३४३=२७] अत्र न करोमि न कारयामीमादिकमेकैकं योग मन:प्रभतिना करणत्रयेण सह कालत्रिके चारयेत् , ततश्च त्रयाणां यो धनः-सप्तविंशतिलक्षणस्तत्साचैव-भङ्गकसङ्ख्यामाश्रित्य तत्सङ्ख्याप्रमाणमृषीणां-साधूनामवबुध्येतेति शेषः । कस्मादित्याह-यतः सर्वसावद्ययोगं प्रत्याख्यामीति साधुमिः प्रत्याख्यानं गृहीतं, ततखप्रत्याख्यानमङ्गकानामेतत्सङ्ख्याप्रमाणता, असर्वसावद्ययोगप्रत्याख्यायिनां पुनर्गृहिणां प्रत्याख्यानस्य सप्तचत्वारिंशदुत्तरं भङ्गकशतं विज्ञेयमिति २३६ ॥ ५० ॥ अधुना 'अट्ठारस पावठाणगाइ'न्ति सप्तत्रिंशदधिकद्विशततमं द्वारमाह सचं पाणइवायं १ अलिय २ मदत्तं ३ च मेहुणं सवं ४ । सवं परिग्गहं ५ तह राईभत्तं ६ च वोसरिमो॥५१॥ सवं कोहं ७ माणं ८ मायं ९ लोहं १० च राग ११ दोसे १२ य । कलह १३ अब्भक्त्राणं १४ पेसुन्नं १५ परपरीवायं १६ ॥५२॥ मायामोसं १७ मिच्छादसणसलं १८ तहेव वोसरिमो। अंतिमऊसासंमि देहपि जिणाइपचक्खं ॥५३॥ सर्व-सप्रभेदं प्राणातिपातं १ तथा सर्वमलीक-मृषावादं २ तथा सर्वमदत्तं-अदत्तादानं ३ तथा सर्व मैथुनं ४ तथा सर्व परिग्रह ५ तथा सर्व रात्रिभक्तं च-रजनिभोजनं ६ व्युत्सृजामः-परिहरामः, तथा सर्व क्रोधं ७ मानं ८ मायां ९ लोभं च १० रामाद्वेषौ च ११-१२ तथा कलहं १३ अभ्याख्यानं १४ पैशून्यं १५ परपरिवादं १६ मायामृषा १७ मिथ्यात्वदर्शनशल्यं च १८ तथैव-सत्रभेदं व्युत्सृजामः, एतान्यष्टादश पापहेतूनि स्थानकानि पापस्थानकानि, न केवलमेतान्येव, किंतु अन्तिमे उच्छासे, परलोकगमनसमये इत्यर्थः, देहमपि निजं शरीरमिति व्युत्सृजामः, तत्रापि ममत्वमोचनात् जिनादिप्रत्यक्षं-तीर्थकरसिद्वादीनां समक्षमिति, तत्र प्राणातिपातमृषाादादचादानमैथुनपरिपहरात्रिभक्तक्रोधमानमायालोमाः प्रतीताः, तथा राग:-अनमिव्यक्तमायालोमलक्षणस्वभावभेदममिवङ्गमात्र, 'दोसो'त्ति द्वेषणं द्वेषः दूषणं वा दोषः, स कानमिव्यक्तक्रोधमानलक्षणभेदस्वभावोप्रीतिमात्रं, कलहो-राटी अभ्याख्यानं प्रकटमसहोषारोपणं पैशून्य-पिशुनकर्म प्रच्छन्नं सदसदोषाविभौवनं, तथा परेषां परिवादः परपरिवादो-विकत्यनमित्यर्थः, तथा माया चनिकृतिः सृषा च-मृषावादः मायया वा सह मृषा मायामृषा प्राकृतत्वान्मायामोसं मायामुसं वा दोषद्वययोग, इदं च मानमृषादिदोषसंयोगोपलक्षणं, वेशान्तरकरणेन लोकप्रतारणमित्यन्ये, तथा मिथ्यादर्शन-विपर्यस्ता दृष्टिः तदेव तोमरादिशल्यमिव शल्यं दुःखहे. तुत्वान्मिध्यादर्शनशल्यमिति, स्थानाङ्गेच रात्रिभोजनं पापस्थानमध्ये न पठितं किंतु परपरिवादाप्रतोऽरतिरतिः, तस्य चायमर्थ:-अर. विश्व-तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणः रतिश्च-तथाविधानन्दरूपा अरतिरतिरित्येकमेव विवक्षितं, यतः कचन विषये या रतिस्तामेव विषयान्तरापेक्षयाऽरतिं व्यपदिशन्ति, एवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति, तथा रागपदस्थाने पिज्जपदं च पठन्ति, तत्र च प्रियस्य भावः कर्म वा प्रेम, अर्थस्तु रागपदवाच्य एवेति, २३७ ।। ५१ ॥ ५२ ॥ ५३ ॥ इदानीं 'मुणिगुण सत्तावीसं'त्यष्टत्रिंशदधिकद्विशततमं द्वारमाह छच्चय छकायरक्खा पंचिंदियलोहनिग्गहो खंती । भावविसुद्धी पडिलेहणाइकरणे विसुद्धीय ॥५४॥ संजमजोए जुत्तय अकुसलमणवयणकायसंरोहो । सीयाइपीडसहणं मरणंउ(तु)वसग्ग सहणं च ॥ ५५॥ 'षट् व्रतानि-प्राणातिपातविरमणादीनि रजनिभोजनपर्यवसानानि षण्णां कायानां-पृथिव्यादित्रसान्तानां रक्षा-संघट्टपरितापादिपरिहारेण सम्यगनुपालनं पञ्चानामिन्द्रियाणां-श्रोत्रादीनां निग्रहो-नियन्त्रणं, इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः, लोमस्य च निग्रहो -विरागता क्षान्तिः-क्रोधनिग्रहः भावविशुद्धिः-अकलुषान्तरात्मता प्रतिलेखनादिकरणे च विशुद्धिः, शुद्धेनाध्यवसायेन सम्यगुपयुक्ततया प्रत्युपेक्षणादिक्रियाकरणमित्यर्थः, तथा संयमोपष्टम्भको योऽसौ योगो-व्यापारस्तत्र युक्तता-तत्परता अकुशलाना-अप्रशस्तानां मनोवच:कायानां संरोधो-निषेधः, प्रशस्तानामेव तेषां करणमिति तात्पर्य, शीतवातातपादिजनितायाः पीडायाः-वेदनायाः सहन-सम्यग्मर्षणं, 'मरणान्तोपसर्गसहनं च' मरणमन्ते येषां ते मरणान्ता-मरणहेतव इत्यर्थः ते च ते उपसर्गाश्च मरणान्तोपसर्गास्तेषां सहनं-कल्याणमित्रबुद्ध्या सम्यक्तितिक्षणं,एते सप्तविंशतिर्मुनीनां-अनगाराणां गुणा:-चारित्रविशेषा भवन्ति । अन्यत्र पुनरित्थमनगारगुणा उक्ताः-महाब्रतानि पञ्च ५ इन्द्रियनिग्रहाश्च पञ्च १० क्रोधादि विवेकाश्चत्वारः १४ सत्यानि त्रीणि, तत्र-भावसत्यं-शुद्धान्तरात्मता करणसत्ययथोक्तप्रतिलेखनादिक्रियाकरणं योगसत्यं-मनःप्रभृतीनामवितथत्वं १७ क्षमा-अनमिव्यक्तक्रोधमानस्वरूपस्य द्वेषसंज्ञितस्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः, क्रोधमानशब्दाभ्यां तूदयप्राप्तयोस्तयोनिरोधः प्रागमिहित इति न पौनरुक्त्यं १८ विरागताअमिष्वङ्गमात्रस्याभावः, यद्वा मायालोभयोरनुदयो, मायालोभविवेकशब्दाभ्यां तदयप्राप्तयोस्तयोनिरोधः प्रागमिहित इतीहापि न पुनरु 266

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310