Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 273
________________ एकश्चेत्येते राशयः सर्वेषामपि श्रावकभङ्गानां षट्पट्त्रिंशदादिरूपाणां गुण्यराशीनां यथाक्रमं गुणकारा भवन्ति, सर्वग्रहणं चें ज्ञापयति न यामेव केवलायामेते गुणकाराः किंत्वेकविंशतिभनयादिष्वपि गुणकारकराशीनां सर्वत्राप्येकस्वरूपत्वात् ॥ ३६ ॥ ॥ ३७ ॥ इदानीं द्वादश्या एव देवकुलिकायाः क्रमेण गुण्यराशीनाह - 'छच्चेव ये'त्यादिगाथाचतुष्कं षडेव षट्त्रिंशत् 'सोल दुगं वेव'ति द्वे शते षोडशोत्तरे २१६ 'छन्नव दुगेकं ति एकसहस्रं षण्णवत्यधिके च द्वे शते १२९६ 'छ सत्त सन्त सत्त यति सप्त सहस्राः सप्त शतानि षट्सप्तत्यधिकानि ७७७६ 'छपन्नछछट्टिछचउ' त्ति षट्चत्वारिंशत्सहस्राणि षट् शतानि षट्पञ्चाशदधिकानि ४६६५६ “छट्टे'त्ति आद्यषट्कापेक्षया षष्ठे स्थाने इत्यर्थः 'छत्तीसा नवनउई सत्तावीसा य'त्ति द्वे लक्षे एकोनाशीतिः सहस्रा नव शतानि षट्त्रिंशचेति २७९९३६ 'सोलस छन्नउई सत्त य सोलस भंग'त्ति सोलत्ति - षोडश लक्षाः एकोनाशीतिः सहस्राणि षट् शतानि षोडश भङ्गानष्टमस्थाने विजानीहि - अवबुध्यस्व १६७९६१६ 'छन्नउई छावत्तरि सत्त दुसुन्नेकें'त्ति एका कोटिः सप्तसप्ततिः सहस्राः षट् शतानि षण्णवतिश्च भवन्ति नवमे स्थाने १००७७६९६ 'छाहत्तरि इगसठ्ठी छायाला सुन्न छच्चेव' त्ति षट् कोट्यञ्चतस्रो लक्षाः षट्षष्टिः सहस्राः शतमेकं षट्सप्ततिश्चेति ६०४६६१७६ 'छप्पन्न सुन्न सत्त य नव सत्तावीस तहय छत्तीस 'त्ति षट्त्रिंशकोटयः सप्तविंशतिर्लक्षाः सप्तनवतिः सहस्राः षट्पञ्चाशचेति, ३६२७९७०५६ 'छत्तीसा तेवीसा अट्ठहत्तरी छहत्तरीगवीस 'त्ति द्वे कोटीशते सप्तदश कोटयः सप्तषष्टिर्लक्षाः द्व्यशीतिः सहस्रात्रीणि शतानि षट्त्रिंशदधिकानि २१७६७८२३३६ एतेषां च सशीनामानयनोपायो यथा— आयाः षट् षङ्गिर्गुण्यन्ते जाताः षट्त्रिंशत्, सापि षङ्गिर्गुण्यते जाते द्वे शते षोडशोत्तरे, एवं वारंवारं तावत् निर्गुणनं विधेयं यावद् द्वादशापि गुण्यराशय: संपूर्णाः संपद्यन्ते इति एत एव षड् देवकुलिकाः षटूत्रिंशदादयो द्वादश गुण्यराशयः क्रमशो द्वादशषट्षष्टिप्रभृतिभिर्द्वादशमिर्गुणकारक राशिमिर्गुणिता आगतराशयो भवन्ति, उक्तं च "पढमवए छन्भंगा छहि छहिँ गुणिया य बारसवि ठाणा । संजोगेहि य गुणिया सावयवयभंगया हुंति ॥ १ ॥।” इह च सूत्रकारेणागतराशयो विस्तरभयान्नोक्ताः, वयं तु विनेयानुग्रहाय गाथामिरुपदर्शयाम: - बाहत्तरि १ छाहत्तरि तेवीसा २ सुन्न दु पण सीयाला ३ । वीसा पनरस चउसट्ठि ४ दु नव पणसीइ पनर छ य ५ ॥ १ ॥ चोयालसयं दस एकतीस चउ ६ बार ति नव सयरी य । इग दु दु ७ वीसा नव नव चालीसा एग यासी ८ ॥ २ ॥ वीस इगतीस नव सयरि एग बावीस ९ सोल छस्सत्त । छस्सन्त सुन्न नव नव तिनि य १० दसमंमि ठाणंमि ॥ ३ ॥ बाहत्तरि छायाला छप्पन्न तिपन्न ति चउ ११ छत्तीसा । तेवीसा अडहत्तरि छहतरि एकवीसा य १२ ॥ ४ ॥ गाथाचतुष्टयस्याप्यर्थः प्राग्वदवसेयः, तदेवमुक्ता गुण्यगुणकारकागतराशित्रय प्रदर्शनेन द्वादशी देवकुलिका, एतदनुसारेणाप्रोक्ता अन्या अप्येकादश देवकुलिकाः स्वयमभ्युह्याः, यथा च षङ्गयां द्वादश देवकुलिकाः एवमेकविंशतिनवैकोनपञ्चाशत्सप्तचत्वारिंशशतभङ्ग पक्षे ऽप्यनया दिशा प्रत्येकं द्वादश द्वादश देवकुलिकाः समवसेयाः, सर्वसंख्यया च षष्टिर्देवकुलिका भवन्तीति, सर्वासामप्यासां देवकुलिकानां स् बहुश्रुतसूरिसूत्रितेभ्यः पटेभ्यः प्रतिपत्तव्याः, भावार्थस्तु पुरस्ताद्व्यक्तीकरिष्यते ॥ ३८ ॥ ३९ ॥ ४० ॥ ४१ ॥ अथ 'दुविहं तिविहाइहा होतिति यत्पूर्वमुक्तं तद्विवृण्वन्नाह - 'दुविहे त्यादिगाथाद्वयं एतच प्रागेव व्याख्यातं ॥ ४२ ॥ ४३ ॥ इदानीमष्टोत्तरशताधिरूषोडशसहस्रसंख्यान् श्रावकभेदानमिधित्सुः पश्चाणुत्रतदेवकुलिकाप्रतिपादनाय प्रथममेकादिसंयोगपरिमाणप्रदर्शनपरान् गुणकारकराशीनाह - 'पंचण्ड' मित्यादि, पश्वानामणुव्रतानामेककद्विक त्रिकचतुष्कपञ्चकैश्चिन्त्यमानानां यथासंख्येन पश्च दश दश पश्चैकश्चेत्येवं संबोधा ज्ञातव्याः, अयमर्थः - पश्चानामंणुव्रतानामेककसंयोगाः पञ्च द्विकसंयोगा दश त्रिकसंयोगा अपि दश चतुष्कसंयोगाः पच पञ्चकसंयोगस्त्वेक एवेति, पते च संयोगा 'एगाई एगुत्तरे त्यादिना करणेनाक्षसंचारणया वा समानेतव्याः, भावना तु प्रागेव प्रदर्शिता ॥ ४४ ॥ अथ पञ्चमदेवकुलिकाया गुण्यराशीनाह - 'छच्चेवे' त्यादि, आदौ षडेव ततः षत्रिंशत् 'सोलदुगं चैव'त्ति द्वे शते षोडशोचरे, 'नव दुग एक' मिति द्वादश शतानि षण्णवत्यधिकानि 'छ सत्त सत्त सत्त य'त्ति सप्तसहस्राः सप्त शतानि षट्सप्तत्युत्तराणि, पथ्यानामपि व्रतानामेतद्गुणनस्य - ताडनस्य पदं स्थानं, गुण्यराशयः इत्यर्थः ॥ ४५ ॥ अथ पञ्चमदेवकुलिकाया एवागतराशीनाह'वये 'त्यादिगाथात्रयं, व्रतसंबन्धिनामेककसंयोगानां पञ्चानां त्रिंशद्भङ्गा भवन्ति, द्विकसंयोगानां दशानामपि त्रीणि शतानि षष्ट्यधिकानि भवन्ति, त्रिकसंयोगानां दशानामेकविंशतिर्भङ्गशतानि षष्ट्यधिकानि - षष्ट्यधिकशतोत्तरे द्वे सहस्रे इत्यर्थः, चतुःसंयोगपश्व के पञ्चानां चतुष्कसंयोगानां चतुःषष्टिः शतान्यशीत्युत्तराणि भवन्ति, पञ्चके - पञ्चकसंयोगे पुनः सप्तसप्ततिः शतानि षट्सप्तत्युत्तराणि भङ्गानां भवन्ति । इयमत्र भावना - कश्चित्स्थूलप्राणातिपातविरमणादीनि पथ्याणुत्रतानि प्रतिपद्यते, तत्र किल पश्चैककसंयोगाः, एकैकस्मिंश्च एककसंयोगे द्विविधत्रिविधादयः षट् षङ्गङ्गा भवन्ति, ततः षट् पञ्चभिर्गुण्यन्ते जातात्रिंशत्, एतावन्तः पञ्चानां व्रतानामेककसंयोगे भङ्गाः, तथा एकैकस्मिन् द्विकसंयोगे षट्त्रिंशत् षट्त्रिंशद्भङ्गाः, तथाहि - प्राणातिपातत्रतसंबन्धी द्विविधत्रिविधलक्षणः प्रथमो भङ्गकोऽवस्थितो मृषावादसत्कान् षङ्गङ्गान् लभते, एवं प्राणातिपातव्रतसंबन्धी द्विविधद्विविधलक्षणो द्वितीयोऽपि भङ्गकोऽवस्थितो मृषावादसत्कान् षङ्गङ्गान् लभते, एवं प्राणातिपातत्रतसंबन्धी द्विविधैकविधलक्षणस्तृतीयोऽपि भङ्गकः एकविधत्रिविधलक्षणः चतुर्थोऽपि एकविधद्विविधलक्षणः पञ्चमोऽपि एकविधैकविधलक्षणः षष्ठोऽपि भङ्गकोऽवस्थितः एवं मृषावादसत्कान् षट्षङ्गङ्गान् प्रत्येकं लभते, ततश्च षट् षङ्गिगुणिताः षट्त्रिंशत्, दश चात्र द्विकसंयोगा भवन्तीत्यतः षट्त्रिंशद्दशमिर्गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि, एतावन्तः OCA

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310