Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 271
________________ मिदं मया तदा मानसी अनुमतिरिति, तदेवं सूत्रकृन्निगदितां नवभङ्गी विवृण्वद्भिरस्माभिः प्रसङ्गादेकोनपश्चाशद्भद्यपि प्रद. शिता ॥ २४॥ संप्रति प्रकारांतरेण सूत्रकार एवैनां प्रतिपादयितुमाह-'मणेत्यादि, इह च प्राकृतत्वाद्विभक्तिव्यत्ययोऽवगन्तव्यः, ततः करणस्य कारणस्यानुमतेश्च मनोवाकायलक्षणैः त्रिभिः करणैः सह योगे-संबन्धे सति एकद्विकत्रिकयोगे-प्रत्येकमेकसंयोगद्विकसंयोगत्रिकसंयोगचिन्तया सप्त- सप्तका भवन्ति, तथाहि-स्थूलहिंसादिकं न करोति मनसा १ वाचा २ कायेन च ३ . मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन ६ मनसा वाचा कायेन च ७, एते करणेन सप्त भङ्गाः, एवं कारणेन सप्त, अनुमत्या सप्त, तथा, स्थूलहिंसादिकं न करोति न कारयति च मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन ६ मनसा वाचा कायेन ७, एते करणकारणाभ्यां सप्त भङ्गाः, एवं कारणानुमतिभ्यामपि सप्त, करणानुमतिभ्यां सप्त, करणकारणानुमतिमिरपि सप्त, एवं सप्त सप्तका मीलिता एकोनपञ्चाशद्भवन्ति ॥ २५ ॥ अत्र सूत्रकारः पूर्वोक्ताया एव नवभङ्ग्या उत्तरभङ्गप्रतिपादनपूर्व सप्तचत्वारिंशदुत्तरशतसङ्ख्यान भङ्गकानाह-'पढमे इत्यादि, तिन्नि तियेत्यादिगाथोक्तानां नवभङ्गीप्रतिपादकानामङ्कानामधस्तात्प्रथमे स्थाने एककः स्थाप्यते, ततः क्रमेण त्रयस्त्रिकाः, ततो द्वौ नवको, तत एकत्रिकः, पुनरपि द्वौ नवको, अयमत्र तात्पर्यार्थ:-त्रिविधं त्रिविधेनेत्यत्र प्रथमभङ्गे एक एव विकल्पः, सर्वप्रकारैः प्रत्याख्यातत्वाद्विकल्पान्तराभाव इति भावः, तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु त्रयस्त्रयः पञ्चमषष्ठयोर्नव नव सप्तमे त्रयः अष्टमनवमयोर्नव नवेत्येवं सर्वेऽप्येकोनपञ्चाशत् , एते च त्रिकालविषयत्वात्प्रत्याख्यानस्य कालत्रिकेण-अतीतानागतवर्तमानलक्षणेन गुणिताः सप्तचत्वारिंशं शतं भङ्गानां भवन्ति, त्रिकालविषयता चातीतस्य निन्दया साम्प्रतिकस्य संवरणेन अनागतस्य च प्रत्याख्यानेनेति, यदाह-"अईयं निंदामि पडुप्पन्नं संवरेमि अणागयं च पञ्चक्खामि"त्ति ॥ २६ ॥ साम्प्रतं पञ्चत्रिंशदुत्तरसप्तशतसङ्ख्यान् श्रावकभेदानाह-पंचे'त्यादि, इह नवरिशब्द आनन्तर्यार्थः, 'आनन्तर्ये णवरीति प्राकृतलक्षणवचनात् , आनन्तर्य च पूर्वोक्तापेक्षया, ततोऽयमर्थः-एतदेव सप्तचत्वारिंशं शतं पञ्चस्वप्यणुव्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावात्पञ्चमिरणुव्रतैर्गुणितं सप्त शतानि पञ्चत्रिंशदधिकानि जानीहि-बुध्यस्व श्रावकव्रतग्रहणकाले-श्रावकाणां पश्चाणुव्रतप्रतिपत्तिप्रस्तावे इति ॥ २७॥ एते च भङ्गा यस्यार्थतोऽवगताः स एव प्रत्याख्यानप्रवीण इति दर्शयन्नाह-'सीयाल'मित्यादि, विशुद्धिर्नाम जीवस्य विशुद्धिकारित्वात्प्रत्याख्यानमुच्यते तद्विषयं 'सीयालं'ति सप्तचत्वारिंशदुत्तरभङ्गाना-प्रणप्रकाररूपाणां शतं यस्योपलब्धं-अर्थतः सम्यक्परिज्ञातं भवति स खलु-स एव प्रत्याख्याने-नियमविशेषप्रतिपत्तिरूपे कुशलो-निष्णातः, शेषा-एतद्व्यतिरिक्ताः पुनरकुशला-अनमिज्ञाः । इह च यद्यप्यनन्तरं पञ्चत्रिंशदुत्तराणि सप्त शतान्यभिहितानि वथापि सप्तचत्वारिंशच्छतमूलत्वात्तेषां मुख्यतया सूत्रे सप्तचत्वारिंशच्छतमेवमुक्तमिति ॥ २८ ॥ अथ षड्भङ्गया एवोत्तरभङ्गरूपामेकविंशतिभङ्गीमाह'दुविहे'त्यादि, इयं च प्राग्व्याख्यातेव, इह च द्विविधत्रिविधादिना पूर्वभणितेन भङ्गकनिकुरम्बेन श्रावकाहपञ्चाणुव्रतादिव्रतसंहतिभनकदेवकुलिकाः सूचिताः, ताश्च एकैकव्रतं प्रत्य मिहितया षड्नङ्ग्या तथा एकविंशतिभङ्गया तथा नवभङ्गया तथा एकोनपञ्चाशनझ्या च निष्पद्यन्ते । अथ देवकुलिका इति कः शब्दार्थः ?, उच्यते, एकादिव्रतप्रतिबद्धभङ्गककदम्बकप्रतिपादका अङ्काः पट्टादिषु न्यस्ता देवकुलिकाकारत्वेन प्रतिभासनाद्देवकुलिका इति व्यपदिश्यन्ते, सर्वास्खपि च देवकुलिकासु प्रत्येकं त्रयस्त्रयो राशयो भवन्ति, तद्यथाआदौ गुण्यराशिः मध्ये गुणकारकराशिः अन्ते चागतराशिरिति ॥ २९॥ तत्र प्रथमं तावदेतासामेव देवकुलिकानां षड्नङ्ग्यादिक्रमेण विवक्षितघ्रतभङ्गकसर्वसायारूपानेवंकारकराशीनाह-'एगे'त्यादिगाथाचतुष्कं, एकस्मिन् व्रते-स्थूलप्राणातिपातविरमणादिके ये द्विविधत्रिविधादयः षड्भङ्गाः सूत्रे-आवश्यकनियुक्त्यादौ श्रावकाणां निर्दिष्टा:-कथितास्त एव षड्नङ्गाः सप्तगुणा:-सप्तमिस्ताडिताः षड्युताश्च क्रमेण सर्वभङ्गकसङ्ख्याराशिं जनयन्तीति शेषः, कथं पुनः षड्भङ्गाः सप्तमिर्गुण्यन्ते ? इत्याह-पदवृद्ध्या-मृषावादाचेकैकव्रतक्ष्या, यावन्ति व्रतानि विवक्ष्यन्ते तावतीर्वारा गुण्यन्ते इति तात्पर्य, स्थूलं च न्यायमाश्रित्यैवमुच्यते यावता एकव्रतमङ्गकराशेरषधी व्यवस्थापितत्वाद्विवक्षितव्रतेभ्य एकेन हीना वारा गुण्यन्ते इति, इयमत्र भावना-एकवते तावत् षङ्गङ्गाः, ते च सप्तमिर्गुणिता जाता द्विचत्वारिंशत् तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशत् एषाऽपि सप्तमिर्गुण्यते षट् च क्षिप्यन्ते जातं ३४२ अत्रापि सप्तमिर्गुणिते षटसु प्रक्षिसेषु जातं २४०० पुनः सप्तभिर्गुणिते षट्प्रक्षेपे च जातं १६८०६, एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावद्गन्तव्यं यावदेकादश्यां वेलायामागतं १३८४१२८७२०२, एते चाष्टचत्वारिंशदादयो द्वादशाप्यागतराशय उपर्यधोभावेन व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारां भूमिकामास्तृण्वन्तीति खण्डदेवकुलिकेत्युच्यते, तदेवमुक्ता षङ्गङ्गीप्रतिबद्धा खण्डदेवकुलिका ॥ एकविंशतिभङ्ग्यादिखण्डदेवकुलिका अप्येवमेव भावनीयाः, केवलमेकविंशतिभङ्गीपक्षे एकविंशतिरवधौ व्यवस्थाप्य वारंवारं द्वाविंशत्या गुण्यन्ते एकविंशतिस्तु प्रक्षिप्यते यावदेकादशवेलायां द्वादशवतभङ्गसर्वसङ्यायामागतं १२८५५००२६३१०४९२१५ । नवभङ्गीपक्षेऽप्येवं, नवरमवधौ नव, ते च वारंवारं दशमिर्गुण्यन्ते नव च प्रक्षिप्यन्ते यावदेकादश्यां वारायां सर्वव्रतभङ्गसर्वसङ्ख्यायामागतं ९९९९९९९९९९९९ । एकोनपचाशद्भङ्गीपक्षे पुनरवधावेकोनपञ्चाशत् , सा च वारंवारं पञ्चाशता गुण्यते एकोनपञ्चाशच्च प्रक्षिप्यन्ते यावदेकादश्यां वारायां सर्व. व्रतभङ्गकसङ्ख्यायामागतं २४४१४०६२४९९९९९९९९९९९९ । अक्षरार्थस्तु सुगम एवेति, तथा सप्तचत्वारिंशच्छतभङ्गपक्षेऽप्येवं, नवरं तत्र सप्तचत्वारिंशच्छतमवधी व्यवस्थाप्यते, वारंवारमष्टचत्वारिंशच्छतेन गुण्यते, सप्तचत्वारिंशच्छतं च प्रक्षिप्यते यावदेकादश्यां 262

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310