Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 269
________________ य ३ पंच नव चउरो ४ । दो नव सप्त य ५ चउ दोन्नि नव य ६ दो नव य सत्तेव ७ ॥ ३६ ॥ पण नव चउरो ८ वीसा य दोन्नि ९ छावट्टि १० बारसे ११ को १२ य । सावयभंगाणमिमे सवाणवि हुंति गुणकारा ॥ ३७ ॥ छच्चैव य १ छत्तीसा २ सोल दुगं चैव ३ छ नव दुर्गामिकं ४ | छ सन्त सत्त सत्त य ५ छप्पन्न छसट्ठि चउ छट्ठे ६ ॥ ३८ ॥ छत्तीसा नवनउई सत्तावीसा य ७ सोल छन्नउई । सन्त य सोलस भंगा अट्ठमठाणे वियाणाहि ८ ॥ ३९ ॥ छन्नउई छावन्तरि सन्त दु सुन्नेक्क हुंति नवमम्मि ९ । छाहतरि इगसट्ठी छायाला सुन्न छच्चेव १० ॥ ४० ॥ छप्पन्न सुन्न सत्त य नव सत्तावीस तह य छत्तीसा ११ ॥ छत्तीसा तेवीसा अडहत्तरि छहत्तरीगवीसा १२ ॥ ४१ ॥ दुहितविण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविणं ॥ ४२ ॥ एगविहं दुविहेणं एक्केकविहेण छट्ठओ होइ । उत्तरगुण सत्तमओ अविरयओ अमो होइ ॥ ४३ ॥ पंचण्हमणुवयाणं एक्कगदुगतिगचक्कपणगेहिं । पंचगदसदसपणएक्कगो य संजोय नावा ॥ ४४ ॥ छच्चेव य छत्तीसा सोल दुगं चैव छ नव दुग एकं । छस्सत्त सत्त सत्त पंच वयाण गुणणपयं ॥ ४५ ॥ वयएक्कग संजोगाण हुंति पंचण्ह तीसई भंगा । गुणसंजोग दपि तिन्नि सट्टा सया हुंति ॥ ४६ ॥ तिगसंजोग दसण्हं भंगसया एक्कवीसह सट्टा । चउसंजोगपण चट्ठि सयाण असियाणि ॥ ४७ ॥ सतत्तरी सयाई छहत्तराई तु पंचमे हुंति । उत्तरगुण अविरयमेलियाण जाणाहि सव्वग्गं ॥ ४८ ॥ सोलस चेव सहस्सा अट्ठ सया चेव हुंति अहिया । एसो वय पिंडत्थो दंसणमाई उ पडिमाओ ॥ ४९ ॥ व्रतं-नियमविशेषस्तद्विद्यते येषां ते व्रतिनः श्रावका इत्यर्थः, ते द्विधा - वक्ष्यमाणयुक्त्या द्विप्रकाराः, अथवा अष्टविधाः, अथवा द्वात्रिंशद्भेदाः, अथवा सप्तशतानि पञ्चत्रिंशदधिकानि, अथवा षोडश सहस्रा अष्टौ शतान्यष्टोत्तराणि व्रतिनो भवन्ति । अत्र च त्रतिन इत्युक्ते सामान्येन श्रावका गृह्यन्ते नतु देशविरता एव, अविरतसम्यग्दृष्टीनामपि सम्यक्त्वप्रतिपत्तिलक्षणस्य नियमस्य सद्भावात् ॥ २२ ॥ अथैतानेव भेदान प्रत्येकं व्याचिख्यासुरायं भेदत्रयमाह - 'दुविहे 'त्यादि, द्विविधाः श्रावकाः - विरता अविरताश्च तत्र विरताः - प्रतिपन्नदेशविरतयः अविरताः—अभ्युपेतक्षायिक (कादि) सम्यक्त्वाः सत्यकिश्रेणिक कृष्णादय इव, 'दुविहं तिविहाइणट्ठहा होंति'त्ति द्विविधः - कृतकारितरूपः त्रिवि - धो- मनोवाक्कायभेदेन यत्र स द्विविधत्रिविध एको भङ्गः स आदिर्यस्य द्विविधत्रिविधादेर्भङ्गजालस्य तेन द्विविधत्रिविधादिना भङ्गजालेनाष्टविधाः श्रावका भवन्ति, यद्वक्ष्यति - "दुविहतिविद्देण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चैव तिविद्देणं ॥ १ ॥ एगविहं दुविहेणं एकेकविहेण छट्ठओ होइ । उत्तरगुण सत्तमओ अविरयओ अट्ठमो होइ ॥ २ ॥” अनयोश्च सोपयोगत्वादत्रैव व्याख्या क्रियते - इह व्रतं प्रतिपित्सुः कोऽपि किञ्चित्प्रतिपद्यते, श्रावकत्रतप्रतिपत्तेर्बहुभङ्गत्वात्, तत्र द्विविधं कृतकारितभेदं त्रिविधेन - मनसा वचसा कायेनेति प्रथमो भङ्गः एवं च भावना-स्थूलहिंसादिकं न करोत्यात्मना न कारयत्यन्येन मनसा वचसा कायेन चेति, अस्य चानुमतिरप्रतिषिद्धा, आपत्यादिपरिग्रहसद्भावात्तै हिंसादिकरणे च तस्यानुमतिप्राप्तेः, अन्यथा परिग्रहापरिग्रहयोरविशेषेण प्रत्रजिताप्रव्रजितयोरभेदापत्तेः, यत्पुनर्व्याख्याप्रज्ञम्यादौ त्रिविधं त्रिविधेमेत्यपि प्रत्याख्यानमुक्तमगारिणस्तद्विशेषविषयं विज्ञेयं, तथाहि-यः किल प्रवित्रजिषुरेव पुत्रादिसंततिपालनाय विलम्बमानः प्रतिमाः प्रतिपद्यते यो वा विशेषं स्वयम्भूरमणादिगतं मत्स्यमांसदन्तिदन्तचित्रकचर्मादिकं स्थूलहिंसादि वा कचिदवस्थाविशेषेण प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोति इत्यल्पविषयत्वादत्र न विवक्षितमिति, द्विविधं द्विविधेनेति द्वितीयो भङ्गः, अत्र चोत्तरभङ्गात्रयः, तत्र द्विविधमिति - स्थूलहिंसादिकं न करोति न कारयति, द्विविधेनेति मनसा वचसा १ यद्वा मनसा काये'नेति २ यद्वा वाचा कायेनेति ३, तत्र यदां मनसा वाचा न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव वाचाऽपि हिंसादिकम• जुवमेव कायेनैव दुश्चेष्टितादिना असंशिकवत्करोति, यदा तु मनसा कायेन न करोति न कारयति तदा मनसाऽमिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेवानाभोगाद्वाचैव हन्मि घातयामि चेति ब्रूते, यदा तु वाचा कायेन न करोति न कारयति तदा मनसैवामिसन्धिमघिकृत्य करोति कारयति च, अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्ति, एवं शेषविकल्पा अपि भावनीयाः, द्विविधमेकविधेनेति तृतीयः, अत्राप्युत्तरभङ्गात्रयः, द्विविधं करणं कारणं च एकविधेन मनसा १ यद्वा वचसा २ यद्वा कायेन ३, एकविधं त्रिविधेनेति चतुर्थः, अत्र च द्वौ प्रतिभङ्गौ, एकविधं करणं मनसा वाचा कायेन च, अथवा एकविधं कारणं मनसा वाचा कायेन, एकविधं द्विविधेनेति पञ्चमः, अत्र चोत्तरभेदाः षट्, एकविधं करणं द्विविधेन मनसा वाचा १ यद्वा मनसा कायेन २ यद्वा वाचा कायेन ३, अथवा एकविधं कारणं द्विविधेन मनसा वाचा ४ यद्वा मनसा कायेन ५ यद्वा वाचा कायेन ६, एकविधमेकविधेनेति षष्ठो मूलभङ्गः, अत्राप्युत्तरभङ्गाः षट्, एकविधं करणं एकविधेन मनसा १ यद्वा वाचा २ यद्वा कायेन ३ अथवा एकविधं कारणं एकविधेन मनसा ४ यद्वा वाचा ५ यद्वा कायेनेति ६, तदेवं मूलभङ्गाः षट्, षण्णामपि च मूलभङ्गानामुत्तरभङ्गाः सर्वसङ्ख्ययैकविंशतिः, तथा च वक्ष्यति - " दुविहतिविहा य छचिय तेसिं भेया कमेणिमे होंति । पढमेको दोन्नि तिया दुगेग दो छच इगवीसं ॥ १ ॥ एषाऽपि प्रक्रमादिहैव व्याख्यायते - अनन्तरोक्ता एव 260

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310