Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
आहार १ सरीरिं २ दिय ३ पजत्ती ४ आणपाण ४ भास ५ मणे ६ । चत्तारि पंच छप्पिय एगिदियविगलसन्नीणं ॥१७॥ पढमा समयपमाणा सेसा अंतोमुहत्तिया य कमा । समगंपि हुंति नवरं पंचम छट्ठा य अमराणं ॥१८॥ पर्याप्तिर्नाम आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, सा च पुद्गलोपचयादुपजायते, किमुक्तं भवति ?-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथा अन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जातानां यः शक्तिविशेष:-आहारादिपुद्गलखलरसादिरूपतापादनहेतुः यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः शक्तिविशेषः सा पर्याप्तिः, सा च पोढा, तद्यथा-आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रियपर्याप्तिः प्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनःपर्याप्तिश्च, तत्र यया शक्त्या करणभूतया जन्तुर्बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः, यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः, यया तु धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्रयाणां चतुर्णा पञ्चानां वा इन्द्रियाणां प्रायोग्यानि द्रव्याण्युपादाय एकद्विव्यादीन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः, यया पुनरुच्छासयोग्यवर्गणादलिकमादाय उच्छासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा प्राणापानपर्याप्तिः, यया तु भाषाप्रायोग्यदलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः, यया पुनर्मनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः, आह-किं सर्वेषामपि जीवानां सर्वा अप्येताः पर्याप्तयः प्राप्यन्ते ?, नेत्याह-चत्तारी'त्यादि, इह यथास
येन संबन्धः, तद्यथा-आद्याश्चतस्र एवैकेन्द्रियाणां, भाषामनसोस्तेष्वभावात्, विकलशब्देन चात्र मनोविकला गृह्यन्ते, ते च पारिशेप्याद् द्वित्रिचतुरिन्द्रिया असंज्ञिपञ्चेन्द्रियाश्च लभ्यन्ते, तेषामाद्याः पञ्चैव पर्याप्तयो न तु मनःपर्याप्तिः मनसस्तेष्वभावादिति, संज्ञिपवेन्द्रियाणां पुनः षडपि पर्याप्तयः प्राप्यन्ते, मनसोऽपि तेषां सद्भावादिति, एतामिश्च स्वस्खयोग्यपर्याप्तिमिरपर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं समाप्य ततोऽन्तर्मुहूर्तेनायुर्बद्धा तदनन्तरमबाधाकालरूपमन्तर्मुहूर्त जीवित्वैव च म्रियन्ते इति ॥१७॥ अथासां निष्पत्तिकालमानमाह-'पढमे त्यादि, प्रथमा-आहारपर्याप्तिः समयप्रमाणा, शेषाः-शरीरपर्याप्त्यादयः पञ्च पर्याप्तयः क्रमेण प्रत्येकमान्तमौंहूर्तिक्यः, इदमुक्तं भवति-एताः पर्याप्तयः सर्वा अप्युत्पत्तिप्रथमसमये एव यथारखं युगपज्जन्तुना निष्पादयितुमारभ्यन्ते, क्रमेण च निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिः ततः शरीरपर्याप्तिरिन्द्रियपर्याप्तिरित्यादि, आस्वाहारपर्याप्तिश्च प्रथमसमय एव निष्पाद्यते, शेषास्तु पञ्चापि प्रत्येकमन्तर्मुहूर्तेन कालेन, अथ आहारपर्याप्तिः प्रथमसमय एव निष्पद्यते इति कथमवसीयते ?, उच्यते, इह भगवता भार्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रमिदमपाठि-"आहारपज्जत्तीए अपज्जत्तए णं भंते ! किं आहारए अणाहारए?, गोयमा! नो आहारए अणाहारए" इति, तत आहारपर्याप्त्या अपर्याप्तो विग्रहगतावेवोपपद्यते नोपपातक्षेत्रसमागतोऽपि, उपपातक्षेत्रसमागतस्य प्रथमसमय एवाहारकत्वात् , तत एकसामयिकी आहारपर्याप्तिनिवृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽपि आहारपर्याप्त्या अपर्याप्तः स्यात्तत एवं व्याकरणसूत्रं पठेत्-'सिय आहारए सिय अणाहारए' यथा शरीरादिषु पर्याप्तिषु 'सिय आहारए सिय अणाहारए' इति, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्महूर्तप्रमाणः, एतच्च सूत्रे यद्यपि सामान्येनोक्तं तथाप्यौदारिकशरीरिणामेव द्रष्टव्यं, वैक्रियाहारकशरीरिणां त्वाहारेन्द्रियानप्राणभाषामनःपर्याप्तयः पञ्चाप्येकेनैव समयेन समाप्यन्ते, शरीरपर्याप्तिः पुनरन्तर्मुहूर्तेन, उक्तं च-"वेउव्वाहाराणं सरीर अन्नाउ पण इगिगसमया। पिहु पण अंतमुहुत्ता उराल आहार इगसमया ॥१॥" [वैक्रियाहारकयोः शरीरमन्याः पञ्चैकैकसामयिकाः। पृथक् पश्च आन्तर्मुहर्तिका औदारिके आहारपर्याप्तिरेकसामयिकी ॥१॥] अथ देवानां विशेषमाह-'समगंपि हुँति नवरं पंचम छट्ठा य अमराणंति' नवरं-केवलं पञ्चमी-भाषापर्याप्तिः षष्ठी च-मनःपर्याप्तिः एते द्वे अपि पर्याप्ती अमराणां-देवानां समकमपि-युगपदपि भवतः, केनाप्यभिप्रायेण व्याख्याप्रज्ञप्त्यादिषु देवानामनयोः पर्याप्स्योरेकत्वप्रतिपादनात्, तथा च व्याख्याप्रज्ञप्तिटीका-"पंचविहाए पजत्तीए'त्ति पर्याप्ति:-आहारशरीरादीनाममिनिर्वृत्तिः, सा चान्यत्र षोढा उक्ता इह तु पञ्चधा, भाषामनःपर्याप्त्योबहुश्रुतामिमतेन केनापि कारणेन एकत्वविवक्षणादि"ति २३२॥ १७॥१८॥ इदानी 'अणाहारया चउरो'त्ति त्रयस्त्रिंशदुत्तरद्विशततमं द्वारमाह
विग्गहगइमावन्ना केवलिणो समोहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा
जीवा ॥१९॥ विग्रहगतिः-भवात् भवान्तरे विश्रेण्या गमनं तामापन्ना:-प्राप्ताः सर्वेऽपि जीवाः तथा केवलिनः समुद्धता:-कृतसमुद्घाताः तथा अयोगिनः-शैलेश्यवस्थाः तथा सिद्धा:-क्षीणकर्माष्टकाः, सर्वेऽप्येतेऽनाहाराः, एतद्व्यतिरिक्ताः शेषाः सर्वेऽप्याहारकाः, इह परभवं गच्छतां जीवानां गतिव॑िधा-ऋजुगतिविग्रहगतिश्च, तत्र यदा जीवस्य मरणस्थानादुत्पत्तिस्थानं समश्रेण्यां प्राजलमेव भवति तदा जुगतिः, सा चैकसमया, समश्रेणिव्यवस्थितत्वेनोत्पत्तिदेशस्याद्यसमय एत्र प्राप्तेः, नियमादाहारकश्चास्यां, हेयप्रायशरीरमोक्षग्रहणान्तरालाभावेनाहाराव्यवच्छेदात् , यदा तु मरणस्थानादुत्पत्तिस्थानं वक्रं भवति तदा विग्रहगतिः, वक्रश्रेण्या अन्तरालरूपेण विग्रहेणोपलक्षिता गतिर्विग्रहगतिरितिकृत्वा, तत्र विग्रहगत्योत्पन्ना उत्कर्षतस्नीन् समयान यावदनाहारकाः, तथाहि-अस्यां वक्रगती स्थितो जन्तुरेकेन
258

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310