Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 266
________________ द्वहिनिष्कास्य विष्कम्भबाहल्याभ्यां शरीरप्रमाणं आयामतः सोययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान शातयति, यत उक्तम्-"वेउब्वियसमुग्पायेणं समोहणइ समोहणित्ता संखेजाइं जोयणाई दंड निसिरह निसिरिता अहाबायरे पुग्गले परिसाडेति' ४, तेज़सि विषये भवस्तैजसः, स चासो समुद्घातश्च तेजससमुद्घातः, स च तेजोलेश्याविनिर्गमकालभावी तैजसशरीरनामकर्माश्रयः, तथाहि तेजोनिसर्गलब्धिमान् ऋद्धः साध्वादिः सप्ताष्टौ पदानि अवष्वक्य विष्क म्भबाहल्याभ्यां शरीरमानं आयामतस्तु सङ्ख्येययोजनप्रमाणं जीवप्रदेशदण्डं शरीरादहिः प्रक्षिप्य क्रोधविषयीकृतं मनुष्यादि निर्दहति, तत्र च प्रभूतांस्तैजसशरीरनामकर्मपुद्गलान् शातयति ५, आहारकशरीरे प्रारभ्यमाणे समुद्घात आहारकसमुदुधातः, स चाहारकशरीरनामकर्मविषयः, तथाहि-आहारकशरीरलब्धिमानाहारकशरीरं चिकीर्षुर्विष्कम्भवाहल्याभ्यां देहमान आयामतः सोययोजनप्रमाणं शरीरादहिः खप्रदेशदण्डं निसृज्य यथास्थूलान् प्रभूतानाहारकशरीरनामकर्मपुद्गलान् प्राग्वद्धान शातयतीति ६, एते च षडपि समुद्घाताः प्रत्येकमान्तर्मुहूर्तिकाः, तथा केवलिन्यन्तर्मुहूर्तभाविपरमपदे भवः कैवलिकः स चासो समुद्घातश्च केवलिकसमुद्घातः, स च सदस. द्वेधशुभाशुभनामोचनीचैर्गोत्रकर्माश्रयः, अमुंच सूत्रकारः स्वयमेव पुरस्तात्प्रपञ्चयिष्यतीति । अथैतानेव समुद्घातान् जीवेषु चिंतयति -'सत्त इमे हुति मणुयाणं ति सप्ताप्येते पूर्वोकाः समुद्घाता मनुष्याणां भवन्ति, मनुष्येषु सर्वभावसंभवात् । 'एगेंदी' त्यादि, एकेन्द्रियाणां-पृथिव्यादीनां कैवलिकाहारकसमुद्घातवर्जिता इमे आद्याः पञ्च समुद्घाता भवन्ति, पश्चापि चैते वैक्रियवर्जिताश्चत समुद्घाता विकलेन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणां च भवन्ति, इयं च गाथा प्रज्ञापनापंचसंग्रहजीवसमासादिमिः शालान्तरैः सह विसंवति, तेष्वेकेन्द्रियादीनां तैजससमुद्घातस्य प्रतिषिद्धत्वात् , तथा च चतुर्विशतिदण्डकक्रमेण प्रज्ञापनासूत्रं-"नेरइयाणं भंते ! कह समुग्घाया पन्नत्ता, गोयमा! चत्तारि समुग्धाया पन्नचा, संजहा-वेयणासमुग्याए कसायसमुग्याए मारणंतियसमुग्घाए वेउब्वियसमुग्पाए । असुरकुमाराणं भंते! कइ समुग्घाया पन्नत्ता?, गोयमा! पंच समुपाया पन्नत्ता, तंजहा-वेयणासमुग्घाए तेयसमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्वियसमुग्घाए, एवं जाव थणियकुमाराणं। पुढविकाइयाणं भंते ! कह समुग्घाया पन्नत्ता ?, गोयमा ! तिन्नि समुग्घाया पन्नत्ता, संजहा वेयणासमुग्घाए-कसायसमुग्याए मारणंतियसमुग्याए, एवं जाव चउरिदियाणं, नवरं वाउकाइयाणं चत्तारि समुग्धाया पन्नता, तंजहा-वेयणासमुग्घाए कसायसमुग्धोए मारणंतियसमुग्घाए वेउन्वियसमुग्घाए, पंचिंदियतिरिक्खजोणियाणं जाव वेमाणियाणं भंते! का समुग्पाया पन्नत्ता, गोयमा! पंच समुग्घाया पन्नता, तंजहा-वेयणासमुग्याए कसायसमुग्घाए तेयसमुग्याए मारणंतियसमुग्घाए वेउब्वियसमुग्याए, नवरं मणुस्साणं सत्तविहा समुग्घाया पन्नता, तंजहा-वेयणासमुग्घाए जाव केवलिसमुग्घाए" इति, एतच सुखार्थ किंचिद्व्याख्यायते-नैरपिकाणामाद्याश्चत्वारः समुद्घाताः, तेषां भवप्रत्ययेन तेजोलेश्यालब्ध्याहारकलब्धिकेवलित्वाभावतः शेषसमुद्घातत्रयासंभवात् , असुरकुमारादीनां दशानामपि भवनपतीनां तेजोलब्धेरपि भावादाद्याः पच, पृथिव्यप्तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणामायालयः, तेषां वैक्रियलब्धेरप्यसंभवात् , वायूनामाचाश्चत्वारस्तेषां बादरपर्याप्तानां वैक्रियलब्धिसंभवाद्वैक्रियसमुद्घातस्थापि संभवात्, पञ्चेन्द्रियतिरश्चामाद्याः पञ्च, केषांचित्तेषां वैक्रियतेजोलेश्यालब्धेरपि संभवात् , मनुष्याणां सप्तापि, भ्यन्तरज्योतिकवैमानिकानां त्वाद्याः पञ्चेति ॥ १२ ॥ अथ केवलिसमुद्घातं सूत्रकदेव ब्याचष्टे-केवली'त्यादिगाथाचतुष्कं, केवलिसमुपातः प्रतिपाद्यत इति शेषः, तत्रान्तर्मुहूर्तावशेषायुः केवली कश्चित्कर्मणां समीकरणार्थ समुद्घातं करोति यस्य वेदनीयादिकमायुषः सकाशादधिकतरं भवति, अन्यस्तु न करोत्येव, तं च कुर्वन् प्रथमसमये बाहल्यतः स्वशरीरप्रमाणं ऊर्द्धमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डाकारत्वेन विस्तारणादण्डं विरचयति, द्वितीये पुनः समये तमेव दण्डं पूर्वापरं दक्षिणोत्तरं वाऽत्मप्रदेशानां प्रसारणात्पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति, तृतीयसमये तमेव कपाटं दक्षिणोचरं पूर्वापरं वा दिग्द्वयप्रसारणान्मथिसदृशं मन्यानं लोकान्तप्रा. पिणमारचयति, एवं च लोकस्य प्रायो बहु पूरितं भवति मध्यन्तराणि त्वपूरितानि, जीवप्रदेशानामनुश्रेणि गमनात्, चतुर्थसमये तान्यपि मध्यन्तराणि सह लोकनिष्कुटैः पूरयति, तथा च समस्तोऽपि लोकः पूरितो भवति, तदनन्तरं च पञ्चमे समये यथोक्ताक्रमात् प्रतिलोममध्यन्तराणि संहरति, प्रसृतान् जीवप्रदेशान् सकर्मकान् मध्यन्तर्गतान संकोचयतीत्यर्थः, षष्ठे पुनः समये मन्थानमुपसंहरति, घनतरसंकोचात् , सप्तमे समये कपाटमपि संहरति, दण्डात्मनि संकोचात् , अष्टमे तु समये दण्डमपि संहृत्य स्वशरीरस्थ एव भवति, तदेवमष्टसामयिकः कैवलिकः समुद्घातः, एतेषु चाष्टस्वपि समयेषु केवली प्रभूतान् वेदनीयनामगोत्रकर्मपुद्गलान् शातयति । सम्प्रति समुद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्च-मनोवाकायाः तत्र समुद्घातगतस्य काययोग एव केवलो व्याप्रियते, न मनोवाग्योगौ, प्रयोजनाभावात् , तत्र प्रथमचरमसमययोरौदारिकाङ्गो भवति, औदारिककायव्यापारप्राधान्यादौदारिकयोगयुक्त एवे. त्यर्थः, सप्तमषष्ठद्वितीयेषु औदारिकमिश्रः, समुद्घातमापन औदारिके तस्माच बहिः कार्मणवीर्यपरिस्पन्दादौदारिककार्मणमिश्रकाययोगयुक्त इत्यर्थः, चतुर्थपञ्चमतृतीयसमयेषु पुनर्बहिरेवौदारिकाद्बहुतरप्रदेशव्यापारसद्भावात् कार्मणशरीरयोगयुक्त एव, तन्मात्रचेष्टनात्, अत्रैव हेतुमाह-जं होइ अणाहारो सो तमि तिगेवि समयाणति यद्-यस्मात्कारणात् स तस्मिन् समयत्रिकेऽप्यनाहारको भवति, यश्चानाहारकः स नियमादेव केवलकार्मणशरीरयोगीति २३१॥ १३ ॥१४॥ १५॥ १६ ॥ इदानीं 'छप्पजत्तीओ'चि द्वात्रिंशदुचरद्विशततमं द्वारमाह 257

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310