Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 265
________________ साधनंतमितितृतीयभङ्गास्तु शून्य एव, प्रतिपतितसम्यग्दृष्टीनामेव हि मिथ्यात्वं सादि, तेषां चावश्यं सम्यक्त्वभावतो मिथ्यात्वस्यानन्तत्वासंभवादिति, तथा सासादनगुणस्थानकं उत्कर्षतः षडावलिकाप्रमाणं, तत ऊर्द्धमवश्यं मिथ्यात्वोपगमात्, आवलिका चासङ्ख्यातसमयसमुदायरूपा, चतुर्थ-अविरतसम्यग्दृष्टिगुणस्थानकं त्रयस्त्रिंशत्सागरोपमाणि साधिकानि, तथाहि-कश्चिदितः स्थानादुत्कृष्टस्थितिध्वनुत्तरविमानेषुत्पन्नः तत्र चाविरतसम्यग्दृष्टित्वेन त्रयस्त्रिंशत्सागरोपमाणि स्थितः ततश्श्युत्वाऽत्राप्यायातो यावदद्यापि विरतिं न लभते । तावत्तद्धावेनैव स्थित इत्यतो मनुष्यभवसंबद्धकतिपयवर्षाधिकत्रयस्त्रिंशत्सागरोपमसंभवः, पञ्चमं-देशविरतिगुणस्थानकं त्रयोदशं-सयोगिगुणस्थानकं, एते द्वे अपि पृथक् प्रत्येकं किञ्चिदूनपूर्वकोटिप्रमाणे, गर्भस्थो हि किल सातिरेकानव मासान् गमयति, जातोऽपि चाष्टौ वर्षाणि यावद्विरत्यन) भवति, तत ऊर्द्ध देशविरतिं प्रतिपत्त्य सर्वविरतिप्रतिपत्त्या केवलज्ञानं वोत्पाद्य यौ देशविरतिसयोगिकेवलिनौ प्रत्येकं पूर्वकोटि जीवतस्तयोः किञ्चिदूनवर्षनवकलक्षणेन देशेन न्यूना पूर्वकोटिरिति, तथा चरमं-अयोगिकेवलिगुणस्थानं लघुपञ्चाक्षरं, किमुक्तं भवति ?-नातिद्रुतं नाति विलम्बितं च किंतु मध्यमेन प्रकारेण यावता कालेन बणनम इत्येवंरूपाणि पञ्चाक्षराण्युच्चार्यन्ते तावत्कालमानमिति, तत ऊर्द्ध मुक्त्यवाप्तेः, तृतीयं-सम्यग्मिथ्यादृष्टिगुणस्थानं, तथा षष्ठादि द्वादशं यावत्प्रमत्ताप्रमत्तसंयतापूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहक्षीणमोहरूपाणीत्यर्थः इत्येतान्यष्टौ गुणस्थानानि प्रत्येकमन्तर्मुहूर्तप्रमाणानि, परतो गुणस्थानकान्तरगमनात् कालकरणाद्वेति, एतच्चोत्कृष्टतः कालप्रमाणमुक्तं, जघन्यतस्तु सासादनप्रमत्ताप्रमत्तसंयतापूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहानामेक समयः, तदूर्द्ध मरणभावेनान्यत्रोपगमात् , मिथ्यादृष्टिमिश्राविरतदेशविरतक्षीणमोहसयोगिकेवलिनां चान्तर्मुहूर्त, अयोगिकेवलिनस्तु जघन्योत्कृष्टतः पूर्वोक्तमेवेति २२९ ॥७॥८॥८॥९॥ इदानीं 'निरयतिरिनरसुराणं उक्कोस विउवणाकालो'त्ति त्रिंशदुत्तरद्विशततमं द्वारमाह अंतमुहुत्तं नरएसु हुंति चत्तारि तिरियमणुएसुं । देवेसु अद्धमासो उक्कोस विउच्चणाकालो ॥१०॥ अन्तर्मुहूर्त नरकेषूत्कर्षतो विकुर्वणावस्थानकालः, तिर्यक्षु मनुष्येषु च चत्वार्यन्तर्मुहूर्तानि, देवेषु-भवनपत्यादिषु अर्धमासः-पञ्चदशदिनान्युत्कृष्टतो विकुर्वणाकाल इति २३०॥ १०॥ इदानीं 'सत्त समग्घाय'त्येकत्रिंशदधिकद्विशततमं द्वारमाह वेयण १ कसाय २ मरणे ३ वेउविय ४ तेयए य ५ आहारे ६ । केवलियसमुग्घाए ७ सत्त इमे हुँति मणुयाणं ॥११॥ एगिदीणं केवलिआहारगवजिया इमे पंच । पंचावि अवेउवा विगलासनीण चत्तारि ॥ १२॥ केवलियसमुग्घाओ पढमे समयंमि विरयए दंडं । बीए पुणो कवाडं मंथाणं कुणइ तइयंमि ॥ १३ ॥ लोयं भरइ चउत्थे पंचमए अंतराइं संहरइ । छहे पुण मंथाणं हरइ कवाडंपि सत्तमए ॥ १४ ॥ अट्ठमए दंडंपि हु उरलंगो पढमचरमसमएसुं । सत्तमछट्ठषिइजेसु होइ ओरालमिस्सेसो ॥१५॥ कम्मणसरीरजोई चउत्थए पंचमे तइज्जे य । जं होइ अणाहारो सो तमि तिगेऽवि समयाणं ॥१६॥ समित्येकीभावे उत् प्राबल्येन हननं वेदनीयादिकर्मप्रदेशानां निर्जरणं घातः, एकीभावेन प्राबल्येन घातः समुद्घातः, केन सहेकीभावगमनमिति चे, उच्यते, अर्थाद्वेदनादिभिः, तथाहि-यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानपरिणत इति वेदनाद्यनुभवज्ञानेन सहकत्वापत्तिर्जीवस्यावगन्तव्या, प्राबल्येन घातः कथमिति चेद्, उच्यते, इह वेदनादिसमुद्घातपरिणतो जन्तुर्बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् शातयतीति भावः, स च सप्तधा, तद्यथा-वेदनासमुद्घातः कषायसमुद्घातः मारणान्तिकसमुद्घातः वैक्रियसमुद्घातः तैजससमुद्घातः आहारकसमुद्घातः केवलिसमुद्घातश्चेति, तत्र वेदनया-असद्वेदनोदयजनितया पीडया हेतुभूतया समुद्घातो वेदनासमुद्घातः, स चासातवेदनीयकर्माश्रयः, तथाहि-वेदनाकरालितो जीवः स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धान् शरीरादहिरपि विक्षिपति, तैश्च वदनजठरादिरन्ध्राणि कर्णस्कन्धाधन्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमानं क्षेत्रममिव्याप्यान्तर्मुहूर्त यावत्तिष्ठति, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिशाटं करोति, ततः समुद्घातानिवृत्त्य स्वरूपस्थो भवति १, कषायैः-क्रोधादिमिर्हेतुभूतैः समुद्घातः कषायसमुद्घातः, स च कषायाख्यचारित्रमोहनीयकर्माश्रयः, तथाहि-तीनकषायोदयाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैः प्रदेशैर्वदनोदरादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च देहमानं क्षेत्रममिव्याप्य वर्तते, तथाभूतश्च प्रभूतान् कषायकर्मपुद्गलान् परिशातयति २, मरणमेव प्राणिनामन्तकारित्वादन्तो मरणान्तस्तत्र भवो मारणान्तिकः स चासो समुद्घातश्च मारणान्तिकसमुद्घातः, स चान्तर्मुहूर्तशेषायुःकर्माश्रयः, तथाहि-कश्चिज्जीवोऽन्तर्मुहूर्तशेषे वायुषि बहिः खदेशान् विक्षिप्य तैर्वदनोदरादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्य विष्कम्भबाहल्याभ्यां स्वशरीरप्रमाणमायामतः स्वशरीरातिरेकतो जघन्येनालासोयभागमुत्कर्षतोऽसहयेयानि योजनान्येकदिशि क्षेत्रमभिव्याप्य वर्तते, तथाभूतश्च प्रभूतानायुःकर्मपुद्गलान् परिशातयति ३, वैक्रिये प्रारभ्यमाणे समुद्घातो वैक्रियसमुद्घातः, स च वैक्रियशरीरनामकर्मविषयः, तथाहि-वैक्रियलब्धिमान जीवो वैक्रियकरणकाले स्वप्रदेशान् शरीरा 256

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310