Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 264
________________ तत्र उदारं-प्रधानं, प्राधान्यं च तीर्थकरगणधरशरीरापेक्षया द्रष्टव्यं, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वात् , अथवा उदारं-सातिरेकयोजनशतसहस्रमानत्वाच्छेषशरीरेभ्यो बृहत्प्रमाणं, बृहत्ता चास्य वैक्रियमाश्रित्य भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रियं योजनलक्षमानमपि लभ्यते इति, उदारमेवौदारिकं, तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, तथाहि-तदेकं भूत्वाऽनेकं भवति अनेकं च भूत्वा एकं तथा अणु भूत्वा महद्भवति महद् भूत्वा अणु इत्यादि, तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाहियते-नियंत इत्याहारकं, तथा मिश्रशब्दः प्रत्येकं संबध्यते, औदारिकमिदं वैक्रियमिश्रमाहारकमिश्रं च, तत्रौदारिकमिश्र कार्मणेन, तच्चापर्याप्तावस्थायां केवलिसमुद्घातावस्थायां वा, उत्पत्तिदेशे हि पूर्वभवादनन्तरागतो जीव आद्यसमये कार्मणेनैव केवलेनाहारयति, ततः परमौदारिकस्याप्यारब्धवादौदारिकेण कार्मणमिश्रेण यावच्छरीरस्य निष्पत्तिः, केवलिसमुद्घातावस्थायां तु द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकं प्रतीतमेव, तथा वैक्रियमिश्रं कार्मणेनौदारिकेण वा, तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायामाद्यसमयानन्तरं द्रष्टव्यं, बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यग्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वा औदारिकेण मिश्र, तथा सिद्धप्रयोजनस्य चतुर्दशपूर्व विद आहारकं त्यजत औदारिकं गृहत आहारकं वा प्रारभमाणस्याहारकमिश्रमौदारिकेण ज्ञेयं, तथा 'कम्मयगंति कर्मजकं कर्मणो जातं कर्मजं कर्मात्मकमित्यर्थः तदेव कर्मजकं, किमुक्तं भवति ?-कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजशरीरमिति, अत एव तदन्यत्र कार्मणमित्युक्तं, कर्मणो विकारः कार्मणमिति, तथा चोक्तम्-"कम्मविवागो कम्मणमट्ठविहविचित्तकम्मनिप्फन्नं । सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥१॥"[कर्मविपाकः कार्मणमष्टविधविचित्रकर्मनिष्पन्नं । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यं ॥१॥] अत्र 'सर्सि' इति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं-बीजभूतं कार्मणं शरीरमिति, न खल्वामूलसमुच्छिन्ने भवप्रपश्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसंक्रान्तौ साधकतमं कारणं, तथाहि-कर्मजेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशममिसर्पति, ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं संक्रामति तर्हि स गच्छन्नागच्छन् वा कस्मान दृश्यते ?, उच्यते, कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् , तथा च परतीर्थिकैरत्युक्तम्-"अन्तरा भवदेहोऽपि, सूक्ष्मत्वानोपलभ्यते । निष्क्रामन्वा प्रविशन्वा, नाभावोऽनीक्षणादपि ॥ १॥" तदेवं चतुर्धा मनोयोगश्चतुर्धा वाग्योगः सप्तधा च काययोगः इति पञ्चदश योगाः । ननु तैजसमपि शरीरं विद्यते यद् भुक्ताहारपरिणमनहेतुः यदशाच विशिष्टतपोविशेषसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः तत्किमिह नोक्तमिति ?, उच्यते, सदा कार्मणेन सहाव्यभिचारितया तस्य तद्ब्रहणेनैव गृहीतत्वादिति २२७ ॥ ५॥ इदानीं 'परलोयगई गुणठाणएस'त्ति अष्टाविंशत्युत्तरद्विशततमं द्वारमाह मिच्छे सासाणे वा अविरयभावंमि अहिगए अहवा । जंति जिया परलोयं सेसेक्कारसगुणे मोत्तुं ॥६॥ मिथ्यात्वे सासादनत्वे वा अथवा अविरतभावे-अविरतसम्यग्दृष्टित्वेऽधिगते-प्राप्ते सति, मिथ्यात्वादिना गृहीतेनेत्यर्थः, परलोकं-भवान्तरं जीवा ब्रजन्ति, शेषांस्तु मिश्रदेशविरत्यादीनेकादश गुणस्थानकान् मुक्त्वा-इह भव एव सर्वथा परित्यज्य जीवाः परलोकं यान्ति, इयमत्र भावना-मिथ्यात्वेन गृहीतेन भवान्तरगमनं प्रतीतमेव, तस्य च सर्वत्रापि संभवात् , एवं सासादनभावेऽपि 'अगुबंधोदयमाउगबन्धं कालं च सासणो कुणइ। [सास्वादनोऽनन्तानुबन्धिबन्धोदयमायुर्वन्धं कालं च करोति ] इति वचनात्, तथा गृहीतसम्य. क्त्वस्यापि देवादिषूत्पादादविरतसम्यग्दृष्टित्वेऽपि परलोकगमनं, तथा गृहीतमिश्रभावो न भवान्तरं गच्छति, 'न सम्ममिच्छो कुणइ कालं [न सम्यग्मिध्यादृष्टिः कालं करोति ] इति वचनात् , देशविरत्यादिगुणस्थानकानां तु विरतिसद्भाव एव भावात् , विरतिश्च यावब्जीवितावधिकत्वान्न तेषु परलोकसंभव इति २२८॥ ६ ॥ इदानीं 'गुणठाणयकालमाणं'त्येकोनत्रिंशदुत्तरद्विशततमं द्वारमाह मिच्छत्तमभवाणं अणाइयमणंतयं च विन्नेयं । भवाणं तु अणाई सपज्जवसियं च सम्मत्ते ॥७॥ [मीसाखीणसजोगे न मरंतिकारसेसु अ मरंति । तेसुवि तिसु गहिएK परलोअगमो न अढेसु ॥८॥1 छावलियं सासाणं समहियतेत्तीससायर चउत्थं । देसूणपुच्चकोडी पंचमग तेरसं च पुढे ॥८॥ लहुपंचक्खर चरिमं तइयं छहाइ बारसं जाव । इह अट्ठ गुणहाणा अंतमुहुत्ता पमाणेणं॥९॥ इह च मिथ्यात्वकालचिन्तायां चतुर्भङ्गी, तद्यथा-अनाद्यनन्तः १ अनादिसान्तः २ साद्यनन्तः ३ सादिसान्तश्च ४, तत्र मिध्यात्वं-विपरीतरुचिरूपमभव्यानामनाद्यनन्तं च विज्ञेयं, अनादिकालात्तेषु तत्सद्भावात् आगामिकालेऽपि च तदभावासंभवादिति भावः, भव्यानां पुनर्मिथ्यात्वमनादि सपर्यवसितं, चशब्दस्यानुक्तसमुच्चयार्थत्वात् सादिसपर्यवसितं च विज्ञेयं, सपर्यवसितत्वं च सम्यक्त्वे-सम्यक्त्वावाप्तौ सत्यां, इदमुक्तं भवति-योऽनादिमिथ्यादृष्टिः सन् भव्यजीवः सम्यक्त्वं लप्स्यते तस्य मिथ्यात्वमनादिसान्तं, अनादिकालात्तेषु तस्य सद्भावात् आगामिकाले तु भव्यत्वान्यथानुपपत्तेरवश्यं सम्यक्त्वावाप्तौ पर्यवसानाच, यस्त्वनादिमिथ्यादृष्टिः सम्यक्त्वं लब्ध्वा केनापि कारणेन पुनर्मिथ्यात्वं याति तस्य तत्सादि, सम्यक्त्वलाभादनन्तरं तत्प्राप्तेः सादित्वात् , मिथ्यात्वे च जघन्यतोऽन्तर्मुहूर्त उत्कृष्टतस्त्वहंदाशातनादिपापबहुलतयाऽपापुद्गलपरावर्त यावत् स्थित्वा यदा पुनरपि सम्यक्त्वं लभते तदा तत्सान्तं, . 255

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310