Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 205
________________ दर्शनं च-सम्यक्त्वं व्रतानि च-अणुव्रतादीनि सामायिकं च-सावद्यानवद्ययोगपरिवर्जनासेवनस्वरूपं पौषधं च-अष्टमीचतुर्दश्यादिपर्वदिनानुष्ठेयोऽनुष्ठानविशेषः प्रतिमा च-कायोत्सर्गः अब्रह्म च-अब्रह्मचर्य सचित्तं च-सचेतनद्रव्यं इति समाहारद्वन्द्वः तत एतस्मिन् विषये प्रतिमेति प्रस्तावादवसेयं, अत्र च दर्शनादिषु पञ्चसु विधिद्वारेण प्रतिमाभिप्रहः अब्रह्मसचित्तयोस्तु प्रतिषेधमुखेनेति, तथा आरम्भश्च-स्वयं कृष्यादिकरणं प्रैषश्च-प्रेषणं परेषां पापकर्मसु व्यापारणं उद्दिष्टं च-तमेव श्रावकमुद्दिश्य सचेतनं सदचेतनीकृतं पक्कं वा यो वर्जयति-परिहरति स आरम्भप्रैषोद्दिष्टवर्जकः, प्रतिमेति प्रकृतमेव, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचाराप्रतिमावतो निर्देशः कृतः, एवमुत्तरत्रापि, तथा श्रमणः-साधुः स इव यः स श्रमणभूतः, भूतशब्दस्योपमानार्थत्वात् , चः समुच्चये, आसां च दर्शनप्रतिमा व्रतप्रतिमेत्यादिरूपोऽमिलापः कार्यः, एता एकादश श्राद्धानां-उपासकानां प्रतिमाः-प्रतिज्ञा अभिग्रहाः श्राद्धप्रतिमा इति ॥ ९८०॥ अथैतासामेव प्रतिमाणां प्रत्येकं स्वरूपं प्रतिपिपादयिषुः प्रथमं तावत् कालमानं सामान्यस्वरूपं चाह-'जस्संखे'त्यादि, यत्सङ्ख्या-यावत्सङ्ख्यामाना प्रथमद्वितीयादिकेत्यर्थः प्रतिमा तस्यां मासा अपि तत्सङ्ख्या:-तावत्प्रमाणा भवन्ति, अयमर्थः-प्रथमायां प्रतिमायामेको मासः कालमानं द्वितीयायां द्वौ मासौ तृतीयायां त्रयो मासा यावदेकादश्यां प्रतिमायामेकादश मासा इति, एतच्च कालमानं यद्यपि दशाश्रुतस्कन्धादिषु साक्षान्नोपलभ्यते तथाऽप्युपासकदशासु प्रतिमाकारिणामानन्दादिश्रमणोपासकानां सार्धवर्षपश्वकलक्षणं प्रतिमैकादशप्रमाणं प्रतिपादितमस्ति, तच्च पूर्वोक्तयैव एकादिकयैकोत्तरया वृद्ध्या सङ्गच्छत इति, तथा उत्तरोत्तरास्वपि तासु प्रतिमासु क्रियमाणासु पूर्वपूर्वप्रतिमाप्रतिपादिताः सर्वा अपि क्रिया-अनुष्ठानविशेषरूपाः कर्तव्या एव, तुशब्द एवकारार्थः, इदमत्र तात्पर्यम्-द्वितीयायां प्रतिमायां प्रथमप्रतिमोक्तमनुष्टानं निरवशेषमपि कर्तव्यं, तृतीयायां तु प्रतिमायां प्रथमद्वितीयप्रतिमाद्वयोक्तमप्यनुष्ठान विधेयं, एवं यावदेकादश्यां प्रतिमायां पूर्वप्रतिमादशकोक्तं सर्वमप्यनुष्ठानं कार्यमिति ॥ ९८१ ॥ अथ दर्शनप्रतिमास्वरूपनिरूपणायाह-'पसमें'त्यादि, सम्यग्दर्शनं-सम्यक्त्वं प्रथमा दर्शनप्रतिमा भवतीति सम्बन्धः, कथम्भूतं सम्यग्दर्शनमित्याह-प्रशमादिगुणविशिष्ट-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः पञ्चभिर्गुणैर्विशिष्टं-अन्वितं, तथा कुप्रहश्च-तत्त्वं प्रति शास्त्रबाधितत्वेन कुत्सितोऽमिनिवेशः शङ्कादयश्च-शङ्काकाङ्काविचिकित्सामिथ्यादृष्टिप्रशंसातत्संस्तवरूपाः पञ्च सम्यक्त्वातीचाराः कुग्रहशङ्कादयस्त एव शल्यते-अनेकार्थत्वाद्वाध्यते जन्तुरेमिरिति शल्यानि तैः परिहीनं-रहितं, अत एव अनघं-निर्दोष, अयमत्र भावार्थ:-सम्यग्दर्शनस्य कुग्रहशङ्कादिशल्यरहितस्याणुव्रतादिगुणविकलस्य योऽभ्युपगमः सा दर्शनप्रतिमेति, सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत् केवलमिह शङ्कादिदोषराजामियोगाद्याकारषटकवर्जितत्वेन यथावत्सम्यग्दर्शनाचारविशेषपरिपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते, कथमन्यथा उपासकदशासु एकमासं प्रथमायाः प्रतिमायाः पालनेन द्वौ मासौ द्वितीयायाः प्रतिमायाः पालनेन एवं यावदेकादश मासानेकादश्याः पालनेन पञ्च सार्धानि वर्षाण्यर्थतः प्रतिपादितानीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात्, एवं दर्शन(व्रत)प्रतिमादिष्वपि यथायोगं भावना कार्या।।९८२।। अथ गाथाद्वयेन व्रतसामायिकपौषधप्रतिमात्रयमाह-'बीयेत्यादि, अणुव्रतानि-स्थूलप्राणातिपातविरमणादीनि उपलक्षणत्वाद् गुणव्रतानि शिक्षाव्रतानि च वधबन्धाद्यतिचाररहितानि निरपवादानि च धारयतः सम्यक्परिपालयतो द्वितीया ब्रतप्रतिमा भवति, सूत्रे च प्रतिमाप्रतिमावतोरभेदोपचारादित्य निर्देशः, तथा तृतीयायां-सामायिकप्रतिमायां सामायिक-सावद्ययोगपरिवर्जननिरवद्ययोगासेवनस्वभावं कृतं-विहितं देशतो येन स सामायिककृतः, आहितान्यादिदर्शनात् कान्तस्योत्तरपदत्वं, इदमुक्तं भवति-अप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं तृतीया प्रतिमेति, तथा चतुर्थी पोषधप्रतिमा यस्यां चतुर्दश्यष्टम्यादिषु दिवसेषु-चतुर्दश्यष्टम्यमावास्यापौर्णमासीषु पर्वतिथिषु चतुर्विधमप्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनरूपं पौषधं परिपूर्ण, न पुनरन्यतरेणापि प्रकारेण परिहीनं सम्यग् आगमोक्तविधिना स-प्रतिमाप्रतिपत्ता तुशब्दस्यावधारणार्थत्वादनुपालयत्येव-आसेवत एव, एतासु चतसृष्वपि व्रतादिषु प्रतिमासु बन्धादीन्-बन्धवधच्छविच्छेदप्रभृतीन् षष्टिसंख्यान् अतिचारान् द्वादशव्रतविषयान् प्रयत्नतो-महता यत्नेन वर्जयति-परिहरतीति ॥ ९८३ ॥ ९८४॥ अथ प्रतिमाप्रतिमाखरूपमाह-'सम्मे'त्यादि, 'सम्म'त्ति सम्यक्त्वं मकारोऽलाक्षणिकः अणुव्रतगुणवतशिक्षाव्रतानि च यस्य विद्यन्ते स तद्वान् , पूर्वोक्तप्रतिमाचतुष्टयान्वित इत्यर्थः, स्थिर:-अविचलसत्त्वः इतरो हि तद्विराधको भवति, यतोऽस्यां प्रतिमायां निशि चतुष्पथादौ कायोत्सर्गः क्रियते तत्र चोपसर्गाः प्रभूताः सम्भवन्तीति, ज्ञानी च-प्रतिमाकल्पादिपरिज्ञानप्रवणः, अजानानो हि सर्वत्राप्ययोग्यः किं पुनरेतत्प्रतिमाप्रतिपत्ताविति, अष्टमीचतुर्दश्योरुपलक्षणत्वादृष्टमीचतुर्दश्यमावास्यापौर्णमासीरूपेषु पौषधदिनेष्वपि द्रष्टव्यं 'प्रतिमा' कायोत्सर्ग 'ठाईत्ति तिष्ठति धातूनामनेकार्थत्वात्करोतीत्यर्थः, किम्प्रमाणामित्याह-एका रात्रिः परिमाणमस्या इत्येकरात्रिकी-सार्वरात्रिकी तां यस्तस्य प्रतिमा भवतीति शेषः ॥९८५॥ शेषदिनेषु यादृशोऽसौ भवति तदर्शयितुमाह-'असिणाणे'त्यादि, अस्नानः-स्नानपरिवर्जकः विकटे-प्रकटे प्रकाशे दिवा न रात्रावित्यर्थः दिवापि वा प्रकाशदेशे भुङ्क्ते-अशनाद्यभ्यवहरतीति विकटभोजी, पूर्व किल रात्रिभोजनेऽनियम आसीत् तदर्थमिदमुक्तं, 'मउलियडो'त्ति अबद्धपरिधानकच्छ इत्यर्थः, तथा दिवसे-दिवा ब्रह्म चरतीत्येवंशीलो दिवसब्रह्मचारी, रित्ति'ति रात्रौ किमत आह-परिमाणंस्त्रीणां तद्दोगानां वा प्रमाणं कृतं येन स परिमाणकृतः, कदेत्याह-प्रतिमावर्जेषु-कायोत्सर्गरहितेष्वपर्वस्त्वित्यर्थः दिवसेषु-दिनेष्विति ।। ९८६ ।। अथ कायोत्सर्गस्थितो यञ्चिन्तयति तदाह-'झाय ईत्यादि, ध्यायति-चिन्तयति प्रतिमायां कायोत्सर्गस्थितः-अवस्थितस्त्रि 196

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310