Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
ध्यस्थस्यापि जनस्याप्रशस्यो भवति, तथा यदुदयवशाजन्तुशरीरेषु स्वस्वजात्यनुसारेणाङ्गप्रत्यङ्गानां प्रतिनियतस्थानवर्तिता भवति तन्निर्माणनाम, तच्च सूत्रधारकल्पं, तदभावे हि तभृतककल्पैरङ्गोपाङ्गनामादिभिर्निर्तितानामपि शिरउदरादीनां स्थानवृत्तेरनियमो भवेत् , तथा यदुदयवशादष्टमहाप्रातिहार्यप्रमुखाश्चतुर्विंशदतिशयाः प्रादुष्पन्ति तत्तीर्थकरनामेति ॥ ७५ ॥ २१६ ॥ इदानीं 'बंधोदयोदीरणसत्ताणं किंचि सरूवंति सप्तदशोत्तरद्विशततमं द्वारमाह
सत्तट्ठछेगवंधा संतुदया अह सत्त चत्तारि । सत्तहछपंचदुगं उदीरणाठाणसंखेयं ॥ ७६ ॥ बंधेष्ट सत्तऽणाउग छविहममोहाउ इगविहं सायं । संतोदएस अह उ सत्त अमोहा चउ अघाई ॥७७॥ अट्ट उदीरह सत्त उ अणाउ छविहमवेयणीआऊ । पण अवियणमोहाउग अकसाई नाम गोत्तदुगं ॥७८ ॥ बंधे वीसुत्तरसय १२० सयबावीसं तु होइ उदयंमि १२२ । उदीरणाएँ
एवं १२२ अडयालसयं तु सन्तंमि १४८॥ ७९ ॥ 'सत्ते'त्यादिगाथापञ्चकं, मिथ्यात्वादिभिर्बन्धहेतुभिरबनचूर्णपूर्णसमुद्रकवनिरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलरात्मनो वह्वथयस्पिण्डवदन्योऽन्यानुगमलक्षणः संबन्धो बन्धः, तस्य चत्वारि स्थानानि, तद्यथा-सप्त अष्टौ षट् एकमिति, तथा तेषामेव कर्मपुद्गलानां बन्धसंक्रमाभ्यां लब्धात्मलाभानां निर्जरणसंक्रमकृतखरूपप्रच्युत्यभावेऽपि सति सद्भावः सत्ता, तस्या अपि त्रीणि स्थानानि, तद्यथा-अष्टौ सप्त चत्वारि, तथा तेषामेव कर्मपुद्गलानां यथास्वस्थितिबद्धानामपवर्तनादिकरण विशेषतः स्वभावतो वा उदयसमयप्राप्तानां विपाकवेदनमुदयः, तस्यापि त्रीणि स्थानानि, तद्यथा-अष्टौ सप्त चत्वारि, तथा उदयावलिकातो बहिर्वर्तिनीनां स्थितीनां दलिकं कषायैः सहितेन असहितेन वा योगसंज्ञकन वीर्यविशेषेण समाकृष्योदयावलिकायां प्रवेशनमुदीरणा, तस्याः पुनः पश्च स्थानानि, तद्यथा-सप्त अष्टौ षट् पञ्च द्वे, इत्येषां बन्धादीनां स्थानसङ्ख्या ॥७६ ॥ साम्प्रतमेतेषां बन्धादिस्थानानामेव स्वरूपमाह-बंधे'त्यादिगाथाद्वयं, आयुर्बन्धकाले ज्ञानावरणादिका अष्टौ प्रकृतयो बन्धे प्राप्यन्ते, शेषकालं त्वनायुष्का:-आयुर्वन्धविवर्जिताः सप्त, 'अमोहाउत्ति मोहायुर्वर्जाः षट प्रकृतीबंध्नतः षडियो बन्धः, ज्ञानदर्शनावरणान्तरायनामगोत्रबन्धव्यवच्छेदे एकमेव सातं बनत एकविधो बन्धः । तथा सत्तायामुदये च सर्वप्रकृतिसमुदाये अष्टौ प्राप्यन्ते, मोहनीयस्य उदयसत्ताव्यवच्छेदे सप्त, घातिकर्मणां-ज्ञानदर्शनावरणान्तरायाणामुदयसत्ताव्यवच्छेदे चतस्रः । तथा सर्वप्रकृतिसमुदायेऽष्टौ प्रकृतीरुदीरयति, आयुष उदीरणायामपगतायामायुर्वर्जाः सप्त, वेदनीयायुषोरुदीरणायामपगतायां षडिधं कर्मोदीरयति, वेदनीयमोहायुषामुदीरणाऽपगमे पञ्च प्रकृतीरुदीरयति, अकषायी-केवली नामगोत्रलक्षणे द्वे कर्मणी उदीरयति । अथैतान्येव बन्धादिस्थानानि विनेयव्युत्पत्तये गुणस्थानकयोजनया विभाव्यन्ते-मिथ्यादृष्ट्यादयो मिश्रवर्जिता अप्रमत्तान्ता अष्ट सप्त वा कर्माणि बन्नन्ति, आयुः कदाचिदेव बद्ध्यते इत्यायुर्बन्धकाले अष्ट आयुर्बन्धाभावे तु सप्तव, मिश्रापूर्वकरणानिवृत्तिबादरास्तु सप्तैव बध्नन्ति, तेषामायुर्बन्धाभावात् , तत्र मिश्रस्य तथास्वाभाव्यात् इतरयोः पुनरतिविशुद्धत्वात् आयुर्बन्धस्य च घोलनापरिणामहेतुत्वात् , तथा सूक्ष्मसंपरायो मोहनीयायुर्वर्जानि षट् कर्माणि बध्नाति, मोहनीयबन्धस्य बादरकषायोदयहेतुत्वात् तस्य च तदभावात् आयुर्बन्धाभावस्त्वतिविशुद्धतरत्वादवसेयः, तथा उपशान्तमोहक्षीणमोहसयोगिकेवलिन एकविधं सातवेदनीयं कर्म बध्नन्ति, न शेषाणि, तद्वन्धहेत्वभावात् , अयोगिकेवली तु योगस्यापि बन्धहेतोरभावादबन्धकः । तथा मिथ्यादृष्टिगुणस्थानकादारभ्य यावत्सूक्ष्मसंपरायगुणस्थानं तावदष्टावपि कर्मप्रकृतय उदये सत्तायां च प्राप्यन्ते, सर्वत्रापि मोहनीयोदयसत्तयोः प्राप्यमाणत्वात् , उपशान्तमोहे उदये सप्त प्राप्यन्ते, मोहनीयस्योपशान्तत्वेनोदयाभावात् , सत्तायां त्वष्टौ, मोहनीयस्य विद्यमानत्वात् , क्षीणमोहे सत्तायामुदये च सप्त, मोहनीयस्य क्षीणत्वेनोदयसत्तयोरभावात् , सयोग्ययोगिकेवलिनोस्तु चत्वार्यघातिकर्माणि उदये सत्तायां च प्राप्यन्ते, न शेषाणि, तेषां क्षीणत्वात् , तथा मिथ्यादृष्टेरारभ्य यावत्प्रमत्तसंयतगुणस्थानं तावज्जीवो निरन्तरमष्टानामपि कर्मणामुदीरकः, केवलमनुभूयमानभवायुकावलिकावशेषे सत्यायुष आवलिकाप्रविष्टत्वेनोदीरणाया अभावात् सप्तानामुदीरकः, सम्यग्मिथ्यादृष्टिगुणस्थानके तु वर्तमानः सर्वदैवाष्टानामुदीरकः, आयुष आवलिकावशेषत्वे मिश्रगुणस्थानकस्यासंभवात् , तथाहि-अन्तर्मुहूर्तावशेष एवायुषि मिश्रगुणस्थानकात्प्रतिपत्य सम्यक्त्वं मिथ्यात्वं वा जीवो गच्छतीति, अप्रमत्तापूर्वकरणानिवृत्तिबादरा वेदनीयायुर्वर्जाणां शेषाणां षण्णां कर्मणामुदीरकाः, न तु वेदनीयायुषोः, अतिविशुद्धतया तदुदीरणायोग्याध्यवसायस्थानाभावात् , सूक्ष्मसंपरायस्तु षण्णां पञ्चानां वा उदीरकः, तत्र यावन्मोहनीयमावलिकावशेषं न भवति तावत्पूर्वोक्तानामेव षण्णामुदीरकः, आवलिकावशेषे च मोहनीये तस्याप्युदीरणाया अभावात्पश्चानामुदीरकः, उपशान्तमोहोऽपि वेदनीयायुर्मोहनीयवर्जानां पञ्चानामुदीरकः, तत्र वेदनीयायुषोः कारणं प्रागेवोक्तं, मोहनीयं तूदयाभावान्नोदीयेते, 'वेद्यमानमेवोदीर्यत' इति वचनात् , क्षीणमोहोऽप्यनन्तरोक्तानां पञ्चानां कर्मणामुदीरकः, तानि च तावदुदीरयति यावद् ज्ञानदर्शनाव. रणान्तरायाणि आवलिकाप्रविष्टानि न भवन्ति, आवलिकामात्रप्रविष्टेषु तेषु तेषामप्युदीरणाया अभावात् द्वे एव नामगोत्रलक्षणे कर्मणी उदीरयतीति, सयोगिकेवली पुनर्नामगोत्रे उदीरयति, न शेषाणि, घातिकर्मचतुष्टयस्य निर्मूलत एव क्षीणत्वात् , वेदनीयायुषोस्तु पूर्वोक्तकारणानोदीरणेति, अयोगिकेवली त्वनुदीरकः, योगसव्यपेक्षत्वात उदीरणायास्तस्य च योगाभावादिति ॥ ७७ ॥ ७८ ॥ अथ बन्धा। सर्वसङ्ख्यया यावत्य उत्तरप्रकृतयो भवन्ति तावतीदर्शयितुमाह-'बन्धे' इत्यादि, बन्धे-बन्धचिन्तायां विंशत्युत्तरं प्रकृतीनां शतं भवतीति,
245

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310