Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
प्रन्थिभेदं कर्तुमसमर्थाः पुनरपि व्यावृत्त्य संक्लेशवशादुत्कृष्टस्थितीनि कर्माणि कुर्वन्ति, कश्चित्पुनर्महात्मा समासन्नपरमनिर्वृतिसुखः समुल्लसितप्रभूतदुर्निर्वार्यवीर्यप्रसरो निसिताकुण्ठकुठारधारयेवापूर्वकरणरूपया परमविशुद्ध्या यथोक्तस्वरूपस्य ग्रन्थेर्भेदं विधाय मिथ्यात्वमोहनीयकर्मस्थितेरन्तर्मुहूर्तमुदयक्षणादुपरि गत्वा अनिवृत्तिकरणसंज्ञितेनान्तर्मुहूर्तकालमानं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति, अत्र च यथाप्रवृत्तापूर्वानिवृत्तिकरणानामयं क्रमो, यथा-"जा गंठी ता पढमं गठिं समइच्छओ भवे बीयं । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ।। १॥" [यावत् ग्रन्थिस्तावद् प्रथमं प्रन्थि समतिक्रामतो भवेद् द्वितीयं । अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥१॥] 'गंठिं समइच्छओ'त्ति प्रन्थि समतिकामतो मिन्दानस्येतियावत् , 'सम्मत्तपुरक्खडे'त्ति सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन् , आसन्नसम्यक्त्वे जीवे अनिवृत्तिकरणं भवतीत्यर्थः । एतस्मिंश्चान्तरकरणे कृते तस्य कर्मणः स्थितिद्वयं भवति, अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तमाना, तस्मादेव चान्तरकरणादुपरितनी द्वितीया, स्थापना चेयं : , तत्र प्रथमस्थिती मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाऽभावात् , यथा हि वनदवानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति, तथा च सति तस्यौपशमिकसम्यक्त्वलाभः, तस्यां चान्तौहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्येन समयशेषायां उत्कृष्टतः षडावलिकाशेषायां कस्यचिन्महाविभीषिकोत्थानकल्पस्तथाविधं किंचिन्निमित्तमाश्रित्यानन्तानुबन्ध्युदयो भवति, तदुदये चासौ सासादनसग्दृष्टिगुणस्थाने वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित्सासादनत्वं यातीति कार्मप्रन्थिमतं, सिद्धान्तमते तु श्रेण्याः समाप्तौ प्रतिपतितः प्रमत्तगुणस्थानेऽप्रमत्तगुणस्थाने वा तिष्ठते, कालगतस्तु देवेष्वविरतो भवतीति, सासादनोत्तरकालं चावश्यं मिथ्यात्वोदयादयं मिथ्यादृष्टिर्भवतीति २। तथा सम्यक् च मिथ्या च दृष्टिर्यस्यासौ सम्यग्मिध्यादृष्टिः तस्य गुणस्थानं सम्यग्मिध्याहष्टिगुणस्थानं, इहानन्तरोक्तविधिना लब्धेनौपशमिकसम्यक्त्वेनौषधविशेषकल्पेन मदनकोद्रवस्थानीयं मिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति, तद्यथा-शुद्धमर्धविशुद्धमविशुद्धं चेति, स्थापना ..., तत्र त्रयाणां पुजानां मध्ये यदा अर्धविशुद्धपुञ्ज उदेति तदा तदुदयवशाजीवस्यार्धविशुद्धमर्हदभिहिततत्त्वश्रद्धानं भवति, तेन तदासौ सम्यग्मिध्यादृष्टिगुणस्थानमन्तर्मुहूर्तकालं स्पृशति, तत ऊर्द्धमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति ३ । तथा विरमति स्म-सावद्ययोगेभ्यो निवर्तते स्मेति विरतःन विरतोऽविरतः अथवा विरमणं विरतंसावद्ययोगप्रत्याख्यानं नास्य विरतमस्तीत्यविरतःस चासौ सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः, इदमुक्तं भवति-यः पूर्ववर्णितौपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुजोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः क्षीणदर्शनसप्तको वा क्षायिकसम्यग्दृष्टिरविरतप्रत्ययं दुरन्तनरकादिदुःखफलकर्मबन्धं सावद्ययोगविरतिं च परममुनिप्रणीतसिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जानन्नपि न विरतिमभ्युपगच्छति न च तत्पालनाय यतते, अप्रत्याख्यानावरणोदयविप्नितत्वात् , ते हि अल्पमपि प्रत्याख्यानमावृण्वन्ति, स इहाविरतसम्यग्दृष्टिरुच्यते ४ । तथा सर्वसावद्ययोगस्य देशे-एकत्रतविषयस्थूलसावद्ययोगादौ सर्वव्रतविषयानुमतिवर्जसावद्ययोगान्ते विरतं-विरतिर्यस्यासौ देशविरतिः, सर्वसावद्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानावरणकषायोदयात् , सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा उच्यन्ते इति, देशविरतस्य गुणस्थानं देशविरतगुणस्थानं ५ । तथा संयच्छति स्म-सर्वसावद्ययोगेभ्यः सम्यगुपरमति स्मेति संयतः प्रमाद्यति स्म-मोहनीयादिकर्मोदयप्रभावतः संज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदति स्मेति प्रमत्तः स चासौ संयतश्च प्रमत्तसंयतः तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानं-विशुद्ध्यविशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, तथाहि-देशविरतगुणापेक्षया एतद्गुणानां विशुद्धिप्रकर्षोंडशुद्ध्यपकर्षश्च, अप्रमत्तसंयतगुणापेक्षया तु विपर्ययः, एवमन्येष्वपि गुणस्थानकेषु पूर्वोत्तरगुणापेक्षया विशुद्ध्यविशुद्धिप्रकर्षापकर्षयोजना द्रष्टव्या ६ । तथा न प्रमत्तोऽप्रमत्तो-निद्रादिप्रमादरहितः स चासौ संयतश्चाप्रमत्तसंयतस्तस्य गुणस्थानमप्रमत्तसंयतगुणस्थानं ७ । तथा अपूर्वममिनवमनन्यसदृशमितियावत् करणं-स्थितिघातरसघातगुणश्रेणिगुणसंक्रमस्थितिबन्धानां पञ्चानां पदार्थानां निर्वर्तनं यस्यासावपूर्वकरणः, तथाहि-बृहत्प्रमाणाया ज्ञानावरणादिकर्मस्थितेरपवर्तनाकरणेन खण्डनं-अल्पीकरणं स्थितिघातः, रसस्यापि-कर्मपरमाणुगतस्निग्धलक्षणस्य प्रचुरीभूतस्य सतोऽपवर्तनाकरणेन खण्डनं रसघातः, एतौ च द्वावपि पूर्वगुणस्थानकेषु विशुद्धेरल्पत्वादल्पावेव कृतवान् अत्र पुनर्विशुद्धेः प्रकृष्टतरत्वाद् बृहत्प्रमाणतयाऽपूर्वाविमौ करोति, तथा उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तर्मुहूर्त यावदुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसयेयगुणवृद्ध्या यद्विरचनं सा गुणश्रेणिः, स्थापना 11 एतां च पूर्वगुणस्थानेष्वविशुद्धतरत्वात् कालतो द्राधीयसी दलिकविरचनामाश्रित्याप्रथीयसीं च दलिकस्याल्पस्यापवर्तनाद्विरचितवान् , इह तु तामेव विशुद्धत्वादपूर्वा कालतो ह्रस्वतरां दलिकविरचनामाश्रित्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद्विरचयतीति, तथा बध्यमानशुभाशुभप्रकृतिषु अबध्यमानशुभाशुभप्रकृतिदलिकस्य प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या विशुद्धिवशान्नयनं गुणसंक्रमः, तमप्यसाविह अपूर्व करोति, तथा स्थितिं च कर्मणामशुद्धत्वात् प्राग्द्राधीयसीं बद्धवान् , इह तु तामपूर्वा पल्योपमासङ्ख्येयभागेन हीनां हीनतरां हीनतमां च विशुद्धिवशानाति, अयं चापूर्वकरणो द्विधा-क्षपक उपशमकश्च, क्षपणोपशमनार्हत्वाच्चैवमुच्यते राज्यार्हकुमारराजवत् , न पुनरसौ क्षपयत्युपशमयति वा किमपि सर्वात्मना कर्म, तस्य गुणस्थानमपूर्वकरणगुणस्थानं, अस्मिंश्च गुणस्थानके कालत्रयवर्तिनो नानाजीवानाश्रित्य प्रतिसमयं यथोत्तरमधिकवृद्ध्या असत्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति, तथाहि-येऽस्यान्तर्मुहूर्तप्रमाणस्य
252

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310