Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
वात्
प्रत्येकशरीरिणां, प्रत्येकशरीरिणश्च नारकामरमनुष्यद्वीन्द्रियादयः पृथिव्यादयः कपित्थादितरवश्च, ननु यदि प्रत्येकनाम्न उदयः कपित्थादिपादपादीनामिष्यते तर्हि तेषां जीवं जीवं प्रति भिन्नं शरीरं भवेत्, तच न भवति, यतः कपित्थाश्वत्थपीलुशेल्वादीनां मूलस्कन्धत्वक्शाखादयः प्रत्येकमसत्येयजीवा उच्यन्ते, यत उक्तं प्रज्ञापनायां एकास्थिकबहुबीजवृक्षप्ररूपणावसरे – “एएसि मूला असंखेज्जजी - विया कंदावि खंधावि तयावि सालावि पवालावि, पत्ता पत्तेयजीविया" इत्यादि, मूलादयश्च फलपर्यन्ताः सर्वेऽप्येकशरीराकारा उपलभ्यन्ते, देवदत्तशरीरवत्, यथा हि देवदत्तशरीरमखण्डमेकरूपमुपलभ्यते तद्वन्मूलादयोऽपि तत एकशरीरात्मकाः कपित्थादयस्ते चासपेयजीवाः ततः कथं ते प्रत्येकशरीरिणः ?, उच्यते, प्रत्येकशरीरिण एव तेषां मूलादिष्वसङ्ख्येयानामपि जीवानां भिन्नभिन्नशरीरसंभकेवलं श्लेषद्रव्यविमिश्रितसकलसर्षपवर्तिरिव प्रबलरागद्वेषोपचिततथारूपप्रत्येक नामकर्मपुद्गलोदयतस्ते तथा परस्परविमिश्रशरीरा जायन्ते, तथा चोक्तं प्रज्ञापनायामेव - "जह सगलसरिसवाणं सिलेसमिस्साण वट्टिया वट्टी । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥ १ ॥ जह वा तिलपप्पडिया बहुएहिं तिलेहिं मीसिया संती । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥ २ ॥” गाथाद्वयस्याप्ययमक्षरार्थ:-यथा सकलसर्षपाणां श्लेषद्रव्येण मिश्रीकृतानां वर्तिता - वलिता वर्तिः यथा च बहुमिस्तिलैर्विमिश्रिता सती तिलपर्पटिका भवति तथा प्रत्येकशरीरिणां शरीरसङ्घाताः, इयमत्र भावना-यथा तस्यां वर्ती सकलसर्षपाः परस्परं मिन्ना नान्योऽन्यानुवेधभाजस्तथा अदर्शनात् अत एव सकलग्रहणं येन स्पष्टमेव अन्योऽन्यानुवेधाभावः प्रतीयते, एवं वृक्षादावपि मूलादिषु प्रत्येकमसङ्ख्येया अपि जीवाः परस्परं विभिन्नशरीराः, यथा च ते सर्षपाः श्लेषद्रव्यसंपर्कमाहाम्यात् परस्परं विमिश्रा जातास्तथा प्रत्येकशरीरिणोऽपि ते तथारूपप्रत्येकनामकर्मपुद्गलोदयात्परस्परं संहता जाता इति । तथा यदुदयवशादनन्तानां जीवानामेकं शरीरं भवति तत्साधारणनाम, ननु कथमनन्तानां जीवानामेकं शरीरमुपजायते ?, तथाहि-य एव प्रथममुत्पत्तिदेशमागतस्तेन तच्छरीरं निष्पादितं, अन्योऽन्यानुगमनेन च सर्वात्मना क्रोडीकृतं, ततः कथं तत्रान्येषां जीवानामवकाश: ?, न खलु देवदत्तशरीरे देवदत्तेनान्योऽन्यानुवेधेन क्रोडीकृते देवदत्त इव सकलशरीरेण सहान्योऽन्यानुगमपुरस्सरमन्येऽपि जीवाः प्रादुष्षन्ति, तथाऽदर्शनात्, अपि च- सत्यप्यवकाशे येनैव तच्छरीरं निष्पाद्यान्योऽन्यानुगमेन क्रोडीकृतं स एव तत्र प्रधान इति, तस्यैव पर्याप्तापर्याप्तव्यवस्था प्राणापानादियोग्यपुद्गलोपादानं च भवेत्, न शेषाणामिति, तदेतद्सम्यक्, सम्यग्जिनवचनपरिज्ञानाभावात्, ते ह्यनन्ता अपि जीवास्तथाविधकर्मोदयसामर्थ्यतः समकमेवोत्पत्तिदेशमधितिष्ठन्ति समकमेव च तच्छरीराश्रिताः पर्याप्तीर्निर्वर्तयितुमारभन्ते समकमेव च पर्याप्ता भवन्ति, समकालमेव च प्राणापानादियोग्यान् पुगलानाददते, यचैकस्य पुद्गलाभ्यवहरणं तदन्येषामनन्तानामपि साधारणं यच्चानन्तानां तद्विवक्षितस्यापि जीवस्य ततो न कदाचिदनुपपत्तिरिति, उक्तं च प्रज्ञापनायाम् – “समयं वकंताणं समयं तेसिं सरीरनिष्पत्ती । समयं आणुग्गहणं समयं उस्सासनिस्सासा ॥ १॥ एगस्स उ जं गहणं बहूण साहारणाण तं चैव । जं बहुयाणं गहणं समासओ तंपि एगस्स ॥ २ ॥ साहारणमाहारो साहारणमाणुपागणं च । साधारणजीवाणं साहारणलक्खणं एयं ॥ ३ ॥” इति [ समकं व्युत्क्रान्तानां समकं तेषां शरीरनिष्पत्तिः । समकमानापानग्रहणं समकमुच्छ्रासनिःश्वासौ ॥ १ ॥ एकस्य तु यग्रहणं बहूनां साधारणानां तदेव । यद् बहूनां ग्रहणं समासतस्तदपि एकस्य ॥ २ ॥ साधारण आहारः साधारणमानापानग्रहणं च । साधारणजीवानां साधारणलक्षणमेतत् ॥ ३ ॥ ] तथा यदुदयात् शरीरावयवानां शिरोऽस्थिदन्तानां स्थिरता भवति तत् स्थिरनाम, तथा यदुदयवशाज्जिह्लादीनां शरीरावयवानामस्थिरता भवति तदस्थिरनाम, तथा यदुद्द्यान्नाभेरुपरितनाः शिरःप्रभृतयोऽवयवाः शुभा भवन्ति तच्छुभनाम, शिरःप्रभृतिमिर्हि स्पृष्टः परो हृष्यतीति तेषां शुभत्वं, तथा यस्योदयान्नाभेरधस्तनाः पादादयोऽवयवा अशुभा भवन्ति तदशुभनाम, तैः स्पृष्टः परो रुष्यतीति तेषामशुभत्वं कामिन्याः पादेनापि स्पृष्टस्तु-' ष्यति ततो व्यभिचार इति चेत्, न, तत्तोषस्य मोहनीयनिबन्धनत्वात्, वस्तुस्थितिखेह चिन्त्यते, ततो न दोषः, तथा यदुदयादनुपकार्यपि सर्वस्य मनःप्रह्लादकारी भवति तत्सुभगनाम, तथा यदुदयादुपकारकृदपि जनद्वेष्यो भवति तद् दुर्भगनाम, तथा यदुदयान्मधुरगम्भीरोदारस्वरो भवति तत्सुखरनाम, तथा यदुद्द्यात्खरभिन्नदीनहीनस्वरो भवति तद् दुःखरनाम, तथा यदुदयेन यत्किच्चिदपि ब्रुवाणः सर्वस्योपादेयवचनो भवति तदादेयनाम, तथा यदुदयाद् युक्तमपि ब्रुवाणः परिहार्यवचनस्तदनादेयनाम, तथा तपः शौर्यत्यागादिना समुपार्जितेन यशसा कीर्तनं - संशब्दनं श्लाघनं यशः कीर्तिः, अथवा यशः - सामान्येन ख्यातिः कीर्तिः - गुणोत्कीर्तनरूपा प्रशंसा यद्वा सर्वदिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्तनीयगुणता यशः एकदिग्गामिनी दानपुण्यकृता वा कीर्तिः, यशश्च कीर्तिश्च यशः कीर्ती ते यदुदयाद्भवतस्ततो यशः कीर्तिनाम, ननु च कथमेते यशः कीर्ती तन्नामोदयनिबन्धने ?, तद्भावेऽपि कचित्तयोरभावात्, तदुक्तम् - "तस्सेव केइ जसकित्तिकित्तया अजसकित्तआ अन्ने । पायाराई जं बेंति अइसए इंदयालत्तं ॥ १ ॥” [ तस्यैव केचित् यशः कीर्त्तिकीर्त्तकाः अयशःकीर्त्तिकीर्त्तका अन्ये । यस्मात् प्राकारादीनतिशयानां इन्द्रजालत्वं ब्रुवते ॥ १ ॥ ] नैष दोषः, सद्गुणमध्यस्थपुरुषापेक्षयैव यशः कीर्तिनामोदयस्याभ्युपगतत्वात्, उक्तं च - " जइ कहवि धाडवेसम्मयाए दुर्द्धपि जायए कडुयं । निंबो महुरो कस्सई न पमाणं तद्दवि तं होइ ॥ १ ॥” [ यदि कथमपि धातुवैषम्येण दुग्धमपि भवति कटुकं । निम्बश्च कस्यचिन्मधुरो न तथापि तत्प्रमाणं भवति ॥ १॥ ] अपि तु — "विवरीयदव्वगुणभासयाए अपमाणता उ तस्सेव । सग्गुणविसयं तम्हा जाणह जसकित्तिनामं तु ॥ १ ॥” [ द्रव्यगुणविपरीतभासकतया तस्यैवाप्रमाणता । तस्मात् सद्गुणविषयं यशः कीर्त्तिनाम जानीहि ॥ १ ॥ ] तद्विपरीतमयशः कीर्तिनाम यदुदयवशान्म
244

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310