Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
- 'दुनवेत्यादि, द्वौ नव अष्टादश एकविंशतिस्त्रयश्च यथाक्रमेण भेदा येषां ते तथा, सान्निपातिकश्च षष्ठो भावः, सन्निपतनं सन्निपातो - मिलनं स एव तेन वा निर्वृत्तः सान्निपातिकः, औदयिकादिभावन्यादिसंयोगनिष्पाद्योऽवस्थाविशेष इत्यर्थः ॥ ९० ॥ सांप्रतमौपशमिकक्षायिकभेदान् द्विनवसङ्ख्यान् व्याख्यातुमाह - 'सम्मे' त्यादि, सम्यक्त्वं चारित्रं चौपशमिकं, प्रथमे औपशमिके भावे वर्तते, औपशमिकं हि सम्यक्त्वं दर्शन सप्तके चारित्रं तु चारित्रमोहनीये उपशान्ते संभवति, अत औपशमिकभाववर्तित्वमनयोरिति, तथा 'दंसणनाणाई'ति 'सूचकत्वात् सूत्रस्य' केवलदर्शनं केवलज्ञानं दानलाभोपभोगपरिभोगवीर्यलब्धयः क्षायिकसम्यक्त्वं क्षायिकचारित्रं च द्वितीये क्षायिके भावे भवन्ति, तथाहि - केवलदर्शनं केवलज्ञानं च निजनिजावरणक्षय एवोपजायते, क्षायिकदानादिलब्धयस्तु पञ्चापि पश्यविधान्तरायक्षय एव, क्षायिकसम्यक्त्वमपि दर्शन मोह सप्तकक्षये, क्षायिकचारित्रं पुनश्चारित्रमोहनीयक्षये इति ॥ ९१ ॥ अधुना क्षायोपशमिकभावभेदानष्टादशसङ्ख्यानाह - 'च' इत्यादि, चत्वारि ज्ञानानि - गतिश्रुतावधिमनः पर्यायरूपाणि अज्ञानत्रिकं मतिश्रुताज्ञानविभङ्गरूपं, दर्शन त्रिकं - चक्षुरचक्षुरवधिदर्शनस्वभावं 'पंचे 'ति सङ्ख्या दानेनोपलक्षिता लब्धयो दानलब्धयः, दानलाभोपभोगपरिभोगवीर्यलब्धयः, सम्यक्त्वं सम्यग्दर्शनं, चारित्रं च - सामायिक च्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपरायलक्षणं, संयमासंयमो - देशविरतिरूप इत्येतेऽष्टादृश भेदास्तृतीये क्षायोपशमिके भावे भवन्ति, तथाहि - ज्ञानचतुष्कमज्ञानत्रिकं च यथास्वमावारकस्य मतिज्ञानावरणादिकर्मणः क्षयोपशम एव भवति, दर्शन त्रिकं तु चक्षुर्दर्शनावरणा दिक्षयोपशमे, दानादिकाः पुनः पञ्च लब्धयोऽन्तरायकर्मक्षयोपशमे भवन्ति । ननु दानादिलब्धयः पूर्व क्षायिकभाववर्तिन्य उक्ताः इह तु क्षायोपशमिक इति कथं न विरोधः ?, नैतदेवं, अभिप्रायापरिज्ञानात्, दानादिलब्धयो हि द्विषा भवन्ति-अन्तरायकर्मणः क्षयसंभविन्यः क्षयोपशमसंभविन्यश्च तत्र याः क्षायिक्यः पूर्वमुक्तास्ताः क्षयसंभूतत्वेन केवलिन एव भवन्ति, यास्त्विह क्षायोपशमिक्य उच्यन्ते ताः क्षयोपशमसंभूताः छद्मस्थानामेवेति, सम्यक्त्वमपि क्षायोपशमिकं दर्शन सप्तकक्षयोपशमे, चारित्रचतुष्कं तु चारित्रमोहनीयक्षयोपशमे, संयमासंयमश्चाप्रत्याख्यानावरणकषायमोहनीयक्षयोपशमे इति ॥ ९२ ॥ सांप्रतमेकविंशतिमौदयिकभावभेदानाह - 'चउगई' त्यादि, एते सर्वेऽपि गत्यादयो भावाश्चतुर्थे औदयिके भावे भवन्ति, तथाहि - चतस्रो नरकादिगतयो नरकगत्यादिनामकर्मोदयादेव जीवे प्रादुष्षन्ति, कषाया अपि क्रोधादयश्चत्वारः कषायमोहनीयकर्मोदयात्, लिङ्गत्रिकमपि स्त्रीवेदादिरूपं स्त्रीवेदपुंवेदनपुंसक वेदमोहनीय कर्मोदयात् लेश्याषट्कं तु 'योगपरिणामो लेश्या' इत्याश्रयणेन योगत्रिकजनककर्मोदयात्, येषां तु मते कषायनिस्स्यंदो लेश्यास्तदभिप्रायेण कषायमोहनीय कर्मोदयात्, येषां तु कर्मनिस्स्यंदो लेश्यास्तन्मतेन तु संसारित्वासिद्धत्ववदष्टप्रकार कर्मोदयादिति, अज्ञानमपि विपर्यस्त बोधरूपं मत्यज्ञानादिकं ज्ञानावरणमिध्यात्वमोहनीयोदयात्, यत्तु पूर्वमस्यैव मत्याद्यज्ञानस्य क्षायोपशमिकत्वमुक्तं तद्वस्त्ववबोधमात्रापेक्षया, सर्वमपि हि वस्त्ववबोधमात्रं विपर्यस्तमविपर्यस्तं च ज्ञानावरणीयकर्मक्षयोपशम एव भवति, यत्पुनस्तस्यैव विपर्यासलक्षणमज्ञानत्वं तद् ज्ञानावरणमिथ्यात्वमोहनीयकर्मोदय एव संपद्यते इत्येकस्यैवाज्ञानस्य क्षायोपशमिकत्वमौदयिकत्वं च न विरुध्यते, इत्येवमन्यत्रापि विरोधपरिहारः कर्तव्य इति, मिध्यात्वं मिथ्यात्वमोहनीयोदयात्, असिद्धत्वं - कर्माष्टकोदयात्, असंयमः—अविरतत्वं तदप्यप्रत्याख्यानावरणकषायोदयादुपजायत इति । ननु निद्रापश्वका साता दिवेदनाहास्यरत्यरतिप्रभृतयः प्रभूततरभावा अन्येऽपि कर्मोदयन्याः सन्ति तत् किमित्येतावन्त एवैते निर्दिष्टाः ?, सत्यं, उपलक्षणमात्रत्वादमीषां संभविनोऽन्येऽपि द्रष्टव्या इति ॥ ९३ ॥ अथ पारिणामिकभेदांखीनाह-- 'पंचे 'त्यादि, पञ्चमके च पारिणामिकत्वलक्षणे भावे जीवत्वा भव्यत्वभव्यत्वानि वर्तन्ते, जीवत्वमभव्यत्वं भव्यत्वं चानादिपारिणामिको भाव इत्यर्थः, उपलक्षणं चैतत् तेन ये गुडघृततण्डुलासवघटादीनां नवपुराणत्वादयोऽवस्थाविशेषाः ये च वर्षधर पर्वतभवन विमानकूटरत्नप्रभादीनां पुद्गल विचटनचटनसंपाद्या अवस्थाविशेषाः यानि च गंधर्वनगराणि यश्च कपिहसि - तमुल्कापातो गर्जितं महिका दिग्दाहो विद्युत् चन्द्रपरिवेषः सूर्य परिवेषश्चन्द्रसूर्यग्रहणमिन्द्रधनुरित्यादिः सर्वः सादिपारिणामिको भावः, लोकस्थितिरलोकस्थितिर्धर्मास्तिकायत्वमित्यादिरूपस्त्वना दिपारिणामिक इति । उक्ताः प्रत्येकं भावभेदाः, सम्प्रत्येतेषामेव भेदानां सर्वसयामाह - 'पंचण्हवी' त्यादि, पञ्चानामप्यौपशमिकादीनां भावानां भेदाः समुदिताः सन्त एवमेव- पूर्वोक्तनकारेण त्रिपञ्च (शत्स भवन्ति, द्विनवाष्टादशैकविंशतित्रयाणां मीलनेनैतत्सङ्ख्यायाः सद्भावादिति । षष्ठस्तु सान्निपातिको भाव एतेषामेव द्वय दिसंयोगनिष्पाद्यः, तत्र चागमोक्तक्रमेण औदयिकौ पशमिकक्षायिकक्षायोपशमिकपारिणामिकरूपाणां पञ्चानां पदानां सामान्यतः षडूविंशतिर्भङ्गा उत्पद्यन्ते, तद्यथा - दश द्विकसंयोगे दश त्रिकसंयोगे पञ्च चतुष्कसंयोगे एकः पञ्चकसंयोगे इति, तत्र द्विकसंयोगे दश - औदयिक औपशमिक इत्येको भङ्गः औदयिकः क्षायिक इति द्वितीयः औदयिकः क्षायोपशमिक इति तृतीयः औदयिकः पारिणामिक इति चतुर्थः औपशमिकः क्षायिक इति पञ्चमः औपशमिकः क्षायोपशमिक इति षष्ठः औपशमिकः पारिणामिक इति सप्तमः क्षायिकः क्षायोपशमिक इत्यष्टमः क्षायिक: पारिणामिक इति नवमः क्षायोपशमिकः पारिणामिक इति दशमः, तथा दश त्रिकसंयोगे - औदयिक औपशमिकः क्षायिक इत्येको भङ्गः औदयिक औपशमिकः क्षायोपशमिक इति द्वितीयः औदयिक औपशमिकः पारिणामिक इति तृतीयः औदयिकः क्षायिकः क्षायोपशमिक इति चतुर्थः औदयिकः क्षायिकः पारिणामिक इति पञ्चमः औदयिकः क्षायोपशमिकः पारिणामिकः इति षष्ठः औपशमिकः क्षायिकः क्षायोपशमिक इति सप्तमः औपशमिकः क्षायिकः पारिणामिक इत्यमः औपशमिकः क्षायोपशमिकः पारिणामिक इति नवमः क्षायिकः क्षायोपशमिकः पारिणामिक इति दशमः, तथा चतुष्कसंयोगे - औदयिक औपशमिकः क्षायिकः क्षायोप
248

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310