Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 255
________________ उदये च द्वाविंशत्युत्तरं शतं भवतीति, उदीरणायामप्येवं, द्वाविंशत्युत्तरमेव शतमित्यर्थः, सत्तायां पुनरष्टचत्वारिंशदधिकं शतं भवति, इयमत्र भावना-बन्धे उदये च चिन्त्यमाने बन्धननामानि संघातननामानि च स्वस्वशरीरान्तर्गतान्येव विवक्ष्यन्ते, तथा ये वर्णगन्धरसस्पर्शानामुत्तरभेदा यथाक्रम पञ्चद्विपश्चाष्टसङ्ख्याः तेऽपि बन्धे उदये च न विवक्ष्यन्ते, किंतु वर्णादय एव चत्वारः, तथा बन्धे चिन्यमाने सम्यक्स्वसम्यग्मिथ्यात्वे न गृह्येते, मिथ्यात्वपुद्गलानामेव तथापरिणतेः, तथा च सति बन्धचिन्तायां बन्धनपञ्चकं संघातनपञ्चक वर्णादिषोडशकं च नाम्नस्त्रिनवतेरपनीयते शेषाः सप्तषष्टिः परिगृह्यन्ते, मोह नीयप्रकृतयश्च सम्यक्त्वसम्यग्मिध्यात्वहीनाः शेषाः षड्रिंशतिः, ततः सर्वप्रकृतिसङ्ख्यामीलने बन्धे विंशत्युत्तरं प्रकृतिशतं भवति, उदये च चिन्यमाने सम्यक्त्वमिश्रे अप्युदयमायात इति ते अपि परिगृ. ह्येते, तत उदये द्वाविंशं प्रकृतिशतं, उदये सत्येवोदीरणा भवतीत्यत उदीरणायामपि द्वाविंशं शतं, सत्तायां तु चिन्त्यमानायां बन्धनपश्चकं संघातनपञ्चकं वर्णादिषोडशकं च पूर्वापनीतं परिगृह्यते, ततः सर्वसङ्ख्यया प्रकृतीनामष्टचत्वारिंशं शतं भवति, उक्तं च कर्मस्तवे"अडयालं पयडिसयं खविय जिणं निव्वुयं वंदे" [अष्टचत्वारिंशं प्रकृतीनां शतं क्षपयित्वा निवृतं जिनं वन्दे] ॥ यदा पुनर्गर्गर्षिशिवशर्मप्रभृत्याचार्याणां मतेनाष्टपञ्चाशदधिकं प्रकृतिशतं सत्तायामधिक्रियते तदा बन्धनानि पञ्चदश विवक्ष्यन्ते ततोऽष्टचत्वारिंशदधिकस्य प्रकृतिशतस्य पूर्वोक्तस्योपरि बन्धनगता दश प्रकृतयोऽधिकाः प्राप्यन्ते इति भवत्यष्टपञ्चाशदधिकं प्रकृतिशतमिति ॥ ७९ ॥ २१७ ॥ इदानीं 'कम्मद्विई साबाह'त्ति अष्टादशोत्तरद्विशततमं द्वारमाह मोहे कोडाकोडीउ सत्तरी वीस नामगोयाणं । तीसियराण चउण्हं तेत्तीसऽयराई आउस्स ॥८०॥ एसा उकोसठिई इयरा वेयणिय बारस मुहुत्ता। अहह नामगोत्तेसु सेसएस मुहुसंतो॥ ८१॥ जस्स जह कोडकोडीउ तस्स तेत्तियसयाई वरिसाणं । होह अवाहाकालो आउ. म्मि पुणो भवतिभागो ॥ ८२॥ मोहे-मोहनीये षष्ठीसप्तम्योरर्थ प्रत्यभेदात् मोहनीयस्य कर्मण उत्कृष्टा स्थितिः सप्ततिसागरोपमकोटीकोट्यः, इह द्विधा स्थितिः, तद्यथा-कर्मरूपतावस्थानलक्षणा अनुभवयोग्या च, तत्र कर्मरूपतावस्थानलक्षणामेव स्थितिमधिकृत्योत्कृष्टं जघन्यं वा प्रमाणमभिधातुमिष्टमवगन्तव्यं, अनुभवयोग्या पुनरबाधाकालहीना, येषां च कर्मणां यावत्यः सागरोपमकोटीकोट्यः तेषां तावन्ति वर्षशतान्यबाधाकालः, तेन मोहनीयस्योत्कृष्टा स्थितिः सप्ततिसागरोपमकोटीकोट्य इति तस्य सप्ततिवर्षशतान्यबाधाकालः, तथाहि-तन्मोहनीयमुत्कृष्टस्थितिक बद्धं सत् सप्ततिवर्षशतानि यावन्न काश्चिदपि स्वोदयतो जीवस्याबाधामुत्पादयति, अबाधाकालहीनश्च कर्मदलिकनिषेकः, किमुक्तं भवति ?-सप्ततिवर्षशतप्रमाणेषु समयेषु मध्ये न वेद्यदलिकनिक्षेपं करोति, किंतु तत ऊमिति, तथा नामगोत्रयोरुत्कृष्टा स्थितिविशतिसागरोपमकोटीकोट्यो, द्वे वर्षसहस्रे अबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः, तथा इतरेषां चतुर्णा-ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, त्रीणि वर्षसहस्राण्यबाधा अबाधाकालहीनश्च कर्मदलि कनिषेकः, आयुष उत्कृष्टा स्थितित्रयस्त्रिंशदतराणि-सागरोपमाणि पूर्वकोटित्रिभागोऽबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः, सूत्रकृता त्वसौ पूर्वकोटित्रिभागोऽबाधारूपतयैवापयाति न पुनरुदयमायाति अतो यावती स्थितिरायुषो वेद्यते तावत्येवाबाधारहितोपात्तेति ।। ८०॥ अथ उत्कृष्टस्थितिनिगमनपूर्व जघन्यां स्थितिमाह-एसे'त्यादि, एषा-पूर्वोक्का उत्कृष्टा स्थितिः, इतरा-जघन्या पुनर्वेदनीये-वेदनीयस्य द्वादश मुहूर्ताः, इह द्विधा वेदनीयस्य जघन्या स्थितिः प्राप्यते-सकषायानकषायांश्च प्रतीत्य, तत्राकषायाणां वेदनीयस्थितिर्द्विसमयस्थितिका, यतस्तत्कर्म प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमयेऽकर्मतामनुभवति, अकषायाणां कषायरहितत्वेन बहुतरस्थितिबन्धासंभवात् , सकषायाणां तु सूत्रोपात्ता द्वादशमुहूर्ता जघन्या स्थितिः, अन्तर्मुहूर्तमबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः, तथा नामगोत्रयोः प्रत्येकमष्टौ अष्टौ मुहूर्त्ता जघन्या स्थितिः अन्तर्मुहूर्त्तमबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः, तथा शेषाणां-ज्ञानावरणदर्शनावरणान्तरायमोहनीयायुषां जघन्या स्थितिर्मुहूर्तान्तः-अन्तर्मुहूर्त, अत्राप्यन्तर्मुहूर्तमबाधा, नवरं तल्लघुतरमवसेयं, अबाधाकालहीनश्च कर्मदलिकनिषेकः, तदेवमुक्ता मूलप्रकृतीनामुत्कृष्टा जघन्या च स्थितिः, उत्तरप्रकृतीनां तु कर्मप्रकृत्यादिग्रन्थेभ्योऽवसेया ॥ ८१ ॥ साम्प्रतमेतेषामेव कर्मणामुत्कृष्टस्थित्यबाधाकालपरिमाणमाह-'जस्से'त्यादि, यस्य कर्मणो यावत्यः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः प्रतिपादिता तस्य कर्मणस्तावन्मात्राणि वर्षशतानि भवत्युत्कृष्टोऽबाधाकालः, यथा मोहनीयस्य सप्ततिसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः ततस्तस्य सप्ततिवर्षशतान्यबाधा, एवं सर्वत्रापि भावनीयं, आयुषि पुनरुत्कृष्टोऽबाधाकालो भवत्रिभागः-पूर्वकोटित्रिभागलक्षणः, पूर्वकोटित्रिभागमध्ये बध्यमानायुर्दलिकनिषेकं न विदधातीत्यर्थः, वेद्यमानस्य ह्यायुषो द्वयोनिभागयोरतिक्रान्तयोस्तृतीये भागेऽवशिष्टे परभवायुषो बन्धः ततः पूर्वकोटित्रिभागो लभ्यते, जघन्या त्वबाधा सर्वेषामपि कर्मणामन्तर्मुहूर्तप्रमाणेति ॥ ८२ ॥ २१८ ॥ इदानीं 'बायालीसा य पुन्नपयडीओ'त्ति एकोनविंशत्युत्तरद्विशततमं द्वारमाह सायं १ उच्चागोयं २ नरतिरिदेवाउ ५ नाम एयाओ । मणुयदुर्ग ७ देवदुगं९पंचिंदियजाइ १० तणुपणगं १५ ॥ ८३ ॥ अंगोवंगतिगंपि य१८ संघयणं वनरिसहनारायं १९ । पढम चिय संठाणं २० वनाइचउक्क सुपसत्थं २४ ॥ ८४ ॥ अगुरुलहु २५ पराघायं २६ उस्सासं २७ आयवं च २८ 246

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310