________________
उदये च द्वाविंशत्युत्तरं शतं भवतीति, उदीरणायामप्येवं, द्वाविंशत्युत्तरमेव शतमित्यर्थः, सत्तायां पुनरष्टचत्वारिंशदधिकं शतं भवति, इयमत्र भावना-बन्धे उदये च चिन्त्यमाने बन्धननामानि संघातननामानि च स्वस्वशरीरान्तर्गतान्येव विवक्ष्यन्ते, तथा ये वर्णगन्धरसस्पर्शानामुत्तरभेदा यथाक्रम पञ्चद्विपश्चाष्टसङ्ख्याः तेऽपि बन्धे उदये च न विवक्ष्यन्ते, किंतु वर्णादय एव चत्वारः, तथा बन्धे चिन्यमाने सम्यक्स्वसम्यग्मिथ्यात्वे न गृह्येते, मिथ्यात्वपुद्गलानामेव तथापरिणतेः, तथा च सति बन्धचिन्तायां बन्धनपञ्चकं संघातनपञ्चक वर्णादिषोडशकं च नाम्नस्त्रिनवतेरपनीयते शेषाः सप्तषष्टिः परिगृह्यन्ते, मोह नीयप्रकृतयश्च सम्यक्त्वसम्यग्मिध्यात्वहीनाः शेषाः षड्रिंशतिः, ततः सर्वप्रकृतिसङ्ख्यामीलने बन्धे विंशत्युत्तरं प्रकृतिशतं भवति, उदये च चिन्यमाने सम्यक्त्वमिश्रे अप्युदयमायात इति ते अपि परिगृ. ह्येते, तत उदये द्वाविंशं प्रकृतिशतं, उदये सत्येवोदीरणा भवतीत्यत उदीरणायामपि द्वाविंशं शतं, सत्तायां तु चिन्त्यमानायां बन्धनपश्चकं संघातनपञ्चकं वर्णादिषोडशकं च पूर्वापनीतं परिगृह्यते, ततः सर्वसङ्ख्यया प्रकृतीनामष्टचत्वारिंशं शतं भवति, उक्तं च कर्मस्तवे"अडयालं पयडिसयं खविय जिणं निव्वुयं वंदे" [अष्टचत्वारिंशं प्रकृतीनां शतं क्षपयित्वा निवृतं जिनं वन्दे] ॥ यदा पुनर्गर्गर्षिशिवशर्मप्रभृत्याचार्याणां मतेनाष्टपञ्चाशदधिकं प्रकृतिशतं सत्तायामधिक्रियते तदा बन्धनानि पञ्चदश विवक्ष्यन्ते ततोऽष्टचत्वारिंशदधिकस्य प्रकृतिशतस्य पूर्वोक्तस्योपरि बन्धनगता दश प्रकृतयोऽधिकाः प्राप्यन्ते इति भवत्यष्टपञ्चाशदधिकं प्रकृतिशतमिति ॥ ७९ ॥ २१७ ॥ इदानीं 'कम्मद्विई साबाह'त्ति अष्टादशोत्तरद्विशततमं द्वारमाह
मोहे कोडाकोडीउ सत्तरी वीस नामगोयाणं । तीसियराण चउण्हं तेत्तीसऽयराई आउस्स ॥८०॥ एसा उकोसठिई इयरा वेयणिय बारस मुहुत्ता। अहह नामगोत्तेसु सेसएस मुहुसंतो॥ ८१॥ जस्स जह कोडकोडीउ तस्स तेत्तियसयाई वरिसाणं । होह अवाहाकालो आउ.
म्मि पुणो भवतिभागो ॥ ८२॥ मोहे-मोहनीये षष्ठीसप्तम्योरर्थ प्रत्यभेदात् मोहनीयस्य कर्मण उत्कृष्टा स्थितिः सप्ततिसागरोपमकोटीकोट्यः, इह द्विधा स्थितिः, तद्यथा-कर्मरूपतावस्थानलक्षणा अनुभवयोग्या च, तत्र कर्मरूपतावस्थानलक्षणामेव स्थितिमधिकृत्योत्कृष्टं जघन्यं वा प्रमाणमभिधातुमिष्टमवगन्तव्यं, अनुभवयोग्या पुनरबाधाकालहीना, येषां च कर्मणां यावत्यः सागरोपमकोटीकोट्यः तेषां तावन्ति वर्षशतान्यबाधाकालः, तेन मोहनीयस्योत्कृष्टा स्थितिः सप्ततिसागरोपमकोटीकोट्य इति तस्य सप्ततिवर्षशतान्यबाधाकालः, तथाहि-तन्मोहनीयमुत्कृष्टस्थितिक बद्धं सत् सप्ततिवर्षशतानि यावन्न काश्चिदपि स्वोदयतो जीवस्याबाधामुत्पादयति, अबाधाकालहीनश्च कर्मदलिकनिषेकः, किमुक्तं भवति ?-सप्ततिवर्षशतप्रमाणेषु समयेषु मध्ये न वेद्यदलिकनिक्षेपं करोति, किंतु तत ऊमिति, तथा नामगोत्रयोरुत्कृष्टा स्थितिविशतिसागरोपमकोटीकोट्यो, द्वे वर्षसहस्रे अबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः, तथा इतरेषां चतुर्णा-ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, त्रीणि वर्षसहस्राण्यबाधा अबाधाकालहीनश्च कर्मदलि कनिषेकः, आयुष उत्कृष्टा स्थितित्रयस्त्रिंशदतराणि-सागरोपमाणि पूर्वकोटित्रिभागोऽबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः, सूत्रकृता त्वसौ पूर्वकोटित्रिभागोऽबाधारूपतयैवापयाति न पुनरुदयमायाति अतो यावती स्थितिरायुषो वेद्यते तावत्येवाबाधारहितोपात्तेति ।। ८०॥ अथ उत्कृष्टस्थितिनिगमनपूर्व जघन्यां स्थितिमाह-एसे'त्यादि, एषा-पूर्वोक्का उत्कृष्टा स्थितिः, इतरा-जघन्या पुनर्वेदनीये-वेदनीयस्य द्वादश मुहूर्ताः, इह द्विधा वेदनीयस्य जघन्या स्थितिः प्राप्यते-सकषायानकषायांश्च प्रतीत्य, तत्राकषायाणां वेदनीयस्थितिर्द्विसमयस्थितिका, यतस्तत्कर्म प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमयेऽकर्मतामनुभवति, अकषायाणां कषायरहितत्वेन बहुतरस्थितिबन्धासंभवात् , सकषायाणां तु सूत्रोपात्ता द्वादशमुहूर्ता जघन्या स्थितिः, अन्तर्मुहूर्तमबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः, तथा नामगोत्रयोः प्रत्येकमष्टौ अष्टौ मुहूर्त्ता जघन्या स्थितिः अन्तर्मुहूर्त्तमबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः, तथा शेषाणां-ज्ञानावरणदर्शनावरणान्तरायमोहनीयायुषां जघन्या स्थितिर्मुहूर्तान्तः-अन्तर्मुहूर्त, अत्राप्यन्तर्मुहूर्तमबाधा, नवरं तल्लघुतरमवसेयं, अबाधाकालहीनश्च कर्मदलिकनिषेकः, तदेवमुक्ता मूलप्रकृतीनामुत्कृष्टा जघन्या च स्थितिः, उत्तरप्रकृतीनां तु कर्मप्रकृत्यादिग्रन्थेभ्योऽवसेया ॥ ८१ ॥ साम्प्रतमेतेषामेव कर्मणामुत्कृष्टस्थित्यबाधाकालपरिमाणमाह-'जस्से'त्यादि, यस्य कर्मणो यावत्यः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः प्रतिपादिता तस्य कर्मणस्तावन्मात्राणि वर्षशतानि भवत्युत्कृष्टोऽबाधाकालः, यथा मोहनीयस्य सप्ततिसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः ततस्तस्य सप्ततिवर्षशतान्यबाधा, एवं सर्वत्रापि भावनीयं, आयुषि पुनरुत्कृष्टोऽबाधाकालो भवत्रिभागः-पूर्वकोटित्रिभागलक्षणः, पूर्वकोटित्रिभागमध्ये बध्यमानायुर्दलिकनिषेकं न विदधातीत्यर्थः, वेद्यमानस्य ह्यायुषो द्वयोनिभागयोरतिक्रान्तयोस्तृतीये भागेऽवशिष्टे परभवायुषो बन्धः ततः पूर्वकोटित्रिभागो लभ्यते, जघन्या त्वबाधा सर्वेषामपि कर्मणामन्तर्मुहूर्तप्रमाणेति ॥ ८२ ॥ २१८ ॥ इदानीं 'बायालीसा य पुन्नपयडीओ'त्ति एकोनविंशत्युत्तरद्विशततमं द्वारमाह
सायं १ उच्चागोयं २ नरतिरिदेवाउ ५ नाम एयाओ । मणुयदुर्ग ७ देवदुगं९पंचिंदियजाइ १० तणुपणगं १५ ॥ ८३ ॥ अंगोवंगतिगंपि य१८ संघयणं वनरिसहनारायं १९ । पढम चिय संठाणं २० वनाइचउक्क सुपसत्थं २४ ॥ ८४ ॥ अगुरुलहु २५ पराघायं २६ उस्सासं २७ आयवं च २८
246