________________
उज्जोयं २९। सुपसत्था विहगगई ३० तसाइदसगं च ४० निम्माणं ४१ ॥ ८५॥ तित्थयरेणं
सहिया पुन्नप्पयडीओँ हुंति बायाला ४२। सिवसिरिकडक्खियाणं सयावि सत्ताणमेयाउ॥८६॥ सात-सातवेदनीयं तथा उच्चैर्गोत्रं तथा नरायुस्तिर्यगायुदेवायुश्च, तथा एताश्च नामकर्मप्रकृतयस्तद्यथा-मनुष्यद्विकं--मनुष्यगतिमनुष्यानुपूर्वीलक्षणं देवद्विकं-देवगतिदेवानुपूर्वीलक्षणं पञ्चेन्द्रियजातिः तनुपञ्चकं-औदारिकवैक्रियाहारकतैजसकामणलक्षणं अङ्गोपाङ्गत्रिकऔदारिकवैक्रियाहारकाङ्गोपाङ्गलक्षणं, संहननं वर्षभनाराचाख्यं, प्रथमं चैव संस्थान-समचतुरस्राख्यं, तथा वर्णादिचतुष्कं-वर्णगन्धरसस्पर्शस्वरूपं सुप्रशस्तं-शुभं, तत्र वर्णाः शुक्लपीतरक्ताः गन्धः सुरभिः रसा मधुराम्लकषायाः स्पर्शा मृदुलघुस्निग्धोष्णा इति, अगुरुलघु पराघातं उच्छासं आतपं उद्योतं सुप्रशस्ता विहायोगतिः त्रसादिदशकं च-त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुखरादेययशःकीर्तिलक्षणं निर्माणं च, एता एव तीर्थकरनाम्ना सहिता द्विचत्वारिंशत्पुण्यप्रकृतयः शुभसंज्ञिकाः प्रकृतयो भवन्ति, एताश्च शिवश्रीकटाक्षितानां सत्त्वानां सदैव प्राप्यन्त इति ।। ८३ ॥ ८४ ।। ८५॥८६॥२१९॥ इदानीं 'बासीई पावपयडीओ'त्ति विंशत्युत्तरद्विशततमं द्वारमाह
नाणंतरायदसगं १० दंसण ११ मोहपयह छच्चीसा २६ । अस्सायं निरयाउं नीयागोएण अडयाला ॥ ८७॥ नरयदुर्ग २ तिरियदुर्ग ४ जाइचउक्कं ८ च पंच संघयणा १३ । संठाणावि य पंच उ १८ वन्नाइचउक्कमपसत्थं २२ ॥ ८८॥ उवघाय २३ कुविहायगई २४ थावरदसगेण होति
चोत्तीसा ३४। सवाओं मीलियाओ बासीई पावपयडीओ ८२॥ ८९॥ ज्ञानावरणपञ्चकं अन्तरायपञ्चकं दर्शनावरणनवकं, सम्यक्त्वमिश्रे उदयमेव केवलमाश्रित्याशुभे, न बन्धमपि, तयोर्बन्धासंभवात् , अतस्तद्वर्जा मोहनीयस्य षडविंशतिःप्रकृतयः, असातं नरकायुकं नीचैर्गोत्रं चेत्येता अष्टचत्वारिंशत्प्रकृतयः, नरकद्विक-नरकगतिनरकानुपूर्वी खरूपं तिर्यद्विकं-तिर्यग्गतितिर्यगानुपूर्वीलक्षणं, जातिचतुष्क-एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिलक्षणं, पञ्च संहननानि प्रथमवर्जानि . संस्थानान्यपि आद्यवर्जानि पञ्च, वर्णादिचतुष्कमप्रशस्तं, तत्र वर्णी नीलकृष्णौ गन्धो दुरभिः रसौ तिक्तकटुको स्पर्शाश्च गुरुखररूझशीतरूपा इति, उपघातं कुत्सिता च-अप्रशस्ता विहायोगतिः, स्थावर दशकं च-स्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्ति. लक्षणं एताश्चतुर्विंशनामकर्मप्रकृतयः, मिलिताश्च सर्वा व्यशीतिः पापप्रकृतयः-अशुभसंज्ञाः प्रकृतय इत्यर्थः, वर्णादिचतुष्कं हि शुभप्रकृ. तिसङ्ख्यायामशुभप्रकृतिसङ्ख्यायां च परिगृह्यते, तस्य द्विधा संभवात्, अतो बन्धोक्ताया विंशत्युतरशतलगसमाया न व्याघात इति ॥ ८७ ॥ ८८ ॥ ८९ ।। २२८ ॥ इदानीं 'भावच्छकं सपडिभेयं येकविंशत्युत्तरद्विशततमं द्वारमाह
भावा छच्चोवसमिय १ खइय २ खओवसम ३ उदय ४ परिणामा ५। दु२ नव ९ हारि १८गवीसा २१ तिग३भेया सन्निवाओ य॥९०॥ सम्मचरणाणि पढमे दंसणनाणाई दाणलामा य। उवभोगभोगवीरिय सम्मचरित्ताणि य बिइए ॥९१॥ चउनाणमगाणतिगं दसणति. ग पंच दाणलद्धीओ । सम्मत्तं चारित्तं च संजमासंजमो तइए॥९२॥ चउगइ चउकसाया लिंगतिगं लेसछक्कमन्नाणं । मिच्छत्तमसिद्धत्तं असंजमो तह च उत्थम्मि॥९३॥ पंचमगंमि य भावे जीवाभवत्तभवया चेव । पंचण्हवि भावाणं भेया एमेव तेवना ॥ १२९४ ॥ ओदयियखओवसमियपरिणामेहिं चउरो गइचउक्के । खड्यजुएहिं चउरो तदभावे उवसमजुएहिं ॥९५ ॥ एकेको उवसमसेढीसिद्धकेवलि सु एवमविरुद्धा । पन्नरस सन्निवाइयभेया वीसं असंभविणो ॥९६॥ दगजोगो सिद्धाणं केवलिसंसारियाण तियजोगो। चउजोगजअं चउसवि गर्डस मणुयाण पणजोगो ॥९७ ॥ मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । उदयक्खयपरि
णामा अढण्हवि हुंति कम्माणं ॥९८॥ विशिष्टहेतुमिः स्वभावतो वा जीवानां तेन तेन रूपेण भवनानि भावाः-वस्तुपरिणामविशेषाः, अथवा भवन्त्येमिरुपशमादिमिः पर्या. यैरिति भावाः, 'छच्चे'ति चशब्दस्यावधारणार्थत्वात् पडेव-षट्सङ्ख्या एव, तद्यथा-औपश मिकः क्षायिकः क्षायोपशमिकः औदयिकः पारिणामिकः सान्निपातिकश्च, तत्रोपशमो-भस्मच्छन्नामेरिवानुद्रेकावस्था प्रदेशतोऽप्युदयाभाव इतियावत् , इत्थंभूतश्चोपशमः सर्वोपशम, उच्यते, स च मोहनीयस्यैव कर्मणो न शेषस्य, 'सव्वुवसमो मोहस्सेव उ' इति वचनात् , तत्र चैवं शब्दव्युत्पत्तिः-उपशम एवौपशमिकः स्वार्थिक इकण्प्रत्ययः यद्वा उपशमेन निवृत्त औपशमिक:-क्रोधाद्युदयाभावफलरूपो जीवस्य परमशान्तावस्थालक्षणः परिणामविशेषः, क्षयः-कर्मणामत्यन्तोच्छेदः क्षय एव क्षायिकः क्षयेण वा नित्तः क्षायिक:-तत्कर्माभावफलरूपो विचित्रो जीवस्य परिणतिविशेषः, उदीर्णस्यांशस्य क्षयः अनुदीर्णस्य चांशस्य विपाकमधिकृत्योपशमः क्षयोपशमः स एव क्षायोपशमिकः तेन वा निवृत्तो घातिकमक्षयोपशमसंपाद्यो मतिज्ञानादिलब्धिरूप आत्मनः परिणामविशेषः क्षायोपशमिकः, अष्टानां कर्मणां यथास्वमुदयसमयप्राप्तानामात्मीयात्मीयस्वरूपेणानुभवनमुदयः उदय एवौयिकः यद्वा उदयेन निवृत्त औदयिको भावो-नारकत्वादिपर्यायपरिणतिरूपः, परिणमनं परिणामः-कथञ्चिदवस्थितस्य वस्तुनः पूर्वावस्थापरित्यागेनोत्तरावस्थागमनं स एव तेन वा निवृत्तः पारिणामिकः । एषामेव यथाक्रम भेदानाह
247