Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 207
________________ ७ तुवरीणं ८ । तह कसिणचणय ९ वल्लाण १० कोट्याईसु खिविऊणं ॥ ९९७ ॥ ओलित्ताणं पिहियाण लंछियाणं च मुद्दियाणं च । उक्किट्ठठिई वरिसाण पंचगं तो अबीयत्तं ॥ ९९८ ॥ अयसी १ लट्टा २ कंगू ३ कोड्सग ४ सण ५ वरह ६ सिद्धत्था ७ । कोद्दव ८ रालग ९ मूलग बीयाणं १० कोहईयासु ॥ ९९९ ॥ निक्खित्ताणं एयाणुकोसठिईऍ सत्त वरिसाई । होह जहनेण पुणो अंतमुत्तं समग्गाणं ॥ १००० ॥ 'यवे' त्यादि, यवा गोधूमाश्च प्रतीताः यवयवा - यवविशेषाः शालयः - कलमादिविशेषाः श्रीहयः -- सामान्यतः, एतेषां धान्यानां कोष्ठ कादिषु—कुशूलपल्यप्रभृतिषु क्षित्वा - प्रक्षिप्य पिहितानां - तथाविधपिधानकेन स्थगितानां लिप्तानां द्वारदेशे पिधानेन सह गोमयादिना सर्वतोऽवलिप्तानां मुद्रितानां च - मृत्तिकादिमुद्रावतामुत्कर्षतस्त्रीणि वर्षाणि यावत् स्थिति:- अविनष्टयोनिकत्वेन अवस्थानं भवतीति, तदनु —ततः परमेतेषां—यवादीनां पञ्चानां धान्यानां योनिः - अङ्कुरोत्पत्तिहेतुर्विध्वस्यते - क्षीयते, ततो-योनिविध्वंसे सति जायतेऽबीजत्वं— तद्बीजमबीजं भवति, उप्तमपि नाङ्कुरमुत्पादयतीति भावः ।। ९९५ ।। ९९६ ॥ तथा - 'तिले 'त्यादि, तिलमुद्गमाषचवलकाः प्रतीताः मसूरो- वृत्ताकारो धान्यविशेष: ( प्रन्था० ७०० ) चनकिका इत्यन्ये कलाय :- त्रिपुटाख्यो धान्यविशेषः कुलत्थाः - चवलकाकाराश्चिपिटिका भवन्ति तुवर्य:- आढक्यः, वृत्तचणकाः- शिखारहिता वृत्ताकाराश्चणकविशेषाः वल्ला-निष्पावाः, एतेषां दशानां धान्यानां कोष्ठकादिषु क्षिप्त्वा पिहितानां ततोऽवलिप्तानां ततो लान्छितानां-रेखादिभिः कृतलान्छनानां मुद्रितानां चोत्कृष्टा स्थितिर्वर्षपञ्चकं यावद्भवति, ततोऽबीजत्वं जायते, छन्दोऽनुरोधाच पिहितावलिप्तयोर्व्यतिक्रमनिर्देशः ।। ९९७ । ९९८ ।। 'अयसी'त्यादि, अतसी-क्षुमा लट्टाकुसुंभं कङ्गुः -पीततण्डुलाः 'कोडूसग 'त्ति कोरदूषकाः- कोद्रवविशेषाः शणं-त्वक्प्रधानो धान्यविशेषः, 'बरठ'त्ति धान्यविशेषः, स बरठीति सपादलक्षादिषु प्रसिद्धः सिद्धार्थाः सर्षपाः कोद्रवाः प्रतीता एव रालकः कङ्गविशेषः मूलकं - शाकविशेषस्तस्य बीजानि मूलकबीजानि एतेषां दशानामपि धान्यानां कोष्ठकादिषु निक्षिप्तानां उपलक्षणमेतत् पिहितानामवलिप्तानां लाञ्छितानां मुद्रितानां चोत्कृष्टायां स्थितौ सप्त वर्षाणि भवन्ति, जघन्येन पुनः समग्राणां सर्वेषामपि पूर्वोक्तानां धान्यानामन्तर्मुहूर्त स्थितिर्भवति, अन्तर्मुहूर्ताश्च परतः स्वायुःक्षयादेवाचित्तता जायते, सा च परमार्थतोऽतिशयज्ञानेनैव सम्यक्परिज्ञायते न छास्थिकज्ञानेनेति न व्यवहारपथमवतरति, अव एव च पिपासापीडितानामपि साधूनां स्वभावतः स्वायुः क्षयेणाचित्तीभूतमपि तडागोदकं पानाय वर्धमानस्वामी भगवान् नानुज्ञातवान् : इत्थंभूतस्याचित्तीभवनस्य छद्मस्थानां दुर्लक्षत्वेन मा भूत्सर्वत्रापि तडागोदके सचित्तेऽपि पाश्चात्यसाधूनां प्रवृत्तिप्रसङ्ग इति कृत्वा १५४ ॥ ९९९ ॥ १००० ॥ इदानीं 'खेत्ताइयाणऽचित्तं 'ति पञ्चपञ्चाशदधिकशततमं द्वारमाह जोयस तु गंता अणहारेणं तु भंडसंकंती । वायागणिधूमेहि य विद्धत्थं होइ लोणाई ॥ १००१ ॥ हरियालो मणसिल पिप्पली उ खज्जूर मुद्दिया अभया । आइन्नमणाइन्ना तेऽवि हु एमेव नायवा ॥ २ ॥ आरुहणे ओरुहणे निसियण गोणाइणं च गाउम्हा । भोम्माहारच्छेओ उवकमेणं तु परिणामो ॥ ३ ॥ एकं योजनशतं गत्वा-अतिक्रम्य लवणादि विध्वस्तम् - अचित्तं भवति, केनेत्याह- अनाहारेण – स्वदेशजसाधारणाहाराभावेन, अयमर्थःविवक्षितक्षेत्रादन्यत्र क्षेत्रे लवणादिकं यदा नीयते तदा तत्प्रतिदिनं विध्वस्यमानं २ तावद्गच्छति यावद्योजनशतं, योजनशतादूर्द्ध पुन र्भिन्नाहारत्वेन शीतादिसम्पर्कतश्चावश्यमचित्तीभवति, केचित्तु योजनशतस्थाने गव्यूतशतं पठन्ति यदुक्तं निशीथचूर्णी - 'केई पठंति गाउयसयगाहा' इति, तथा 'भंडसंकंती 'ति प्राकृतत्वेन विभक्तिव्यत्ययात् भाण्डसङ्क्रान्त्या - पूर्वभाजनादपरभाजनप्रक्षेपणेन पूर्वभाण्डशालाया वाऽन्यभाण्डशालासंचारणेन वाताग्निधूमैश्व योजनशतमगतमपि स्वस्थानेऽन्तरे वा वर्तमानं लवणादिकमचित्तं भवतीति । इत्थं च क्षेत्रादिक्रमेणाचित्तीभवनं पृथिवीकायिकानां वनस्पतिपर्यन्तानां सर्वेषामपि प्रतिपत्तव्यम् ॥ १००१ ॥ अत एवाह - 'हरियाले 'त्यादि, हरितालादयः प्रतीता एव, नवरं मुद्रिका - द्राक्षा अभया - हरितकी, एतेऽप्येवमेव ज्ञातव्याः, योजनशतात्परतः पूर्वोक्तैरेव हेतुभिरचित्तीभवन्तीति भावः, 'आइन्नमणाइन्न' चि योजनशतादागता अपि केचिदाचीर्णाः केचित्पुनरनाचीर्णाः, तत्र पिप्पलीहरितक्यादय आचीर्णा अतो गृह्यन्ते खर्जूरद्राक्षादयः पुनरनाचीर्णास्ततोऽचित्ता अपि न गृह्यन्ते इति ॥ २ ॥ अथ लवणादीनामेवाचित्तताकारणाभिव्यञ्जनायाह - 'आरुहणे' इत्यादि, तेषां लवणादीनामारोहणे - शकटगवादिपृष्ठादिष्वधिरोपणे सति तथा अवरोहणेशकटादिभ्य एवावतारणे तथा निषीदन्तीति नन्द्यादेराकृतिगणत्वाद्युप्रत्यये निषदना - लवणाद्युपरि निविष्टपुरुषाः तेषां गवादीनां च गात्रोष्मणा, तथा यो यस्य लवणादेराहारो भौमादिः - पार्थिवादिस्तस्य व्यवच्छेदे च - अभावे सति तथा उपक्रम्यते - बहुकालवेद्यमप्यायुः स्तोकेनैव कालेन निष्ठां नीयते अनेनेत्युपक्रमः - स्वकायशास्त्रादिः, तथाहि - किश्चित्कस्यचित् स्वकायशस्त्रं यथा क्षारोदकं मधुरोदकस्य किञ्चित्परकायशस्त्रं यथा ज्वलनो वनस्पतेः किश्वित्तूभयशस्त्रं यथा मृत्तिकामिश्रमुदकं शुद्धोदकस्य, तेन च परिणाम :- अचित्तता भवति, सचित्तमप्येमिः कारणैरचित्ततारूपेण परिणमतीत्यर्थः १५५ ॥ ३ ॥ इदानीं च 'धन्नाई चरबीसं 'ति षट्पश्वाशदधिकशततमं द्वारमाह ari aari जव १ गोहुम २ सालि ३ वीहि ४ सट्ठी ५ य । कोद्दव ६ अणुया ७ कंगू ८ 198

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310