Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 219
________________ मत्तंगया य १ भिंगा २ तुडियंगा ३ दीव ४ जोइ ५ चित्तंगा ६ । चित्तरसा ७ मणियंगा ८ गेहागारा ९ अणियणा य १० ॥ ६७ ॥ मत्तंगएसु मज्जं सुहपेज १ भायणा य भिंगेसु २। तुडियंगेसु य संगयतुडियाई बहुप्पगाराई ३ ॥ ६८ ।। दीवसिहा ४ जोइसनामगा य एए करेंति उज्जोयं ५। चित्तंगेसु य मल्लं ६ चित्तरसा भोयणढाए ७॥ ६९ ।। मणियंगेसु य भूसणवराई ८ भवणाइ भवणरुक्खेसु ९। तह अणियणेसु धणियं वत्थाई बहुप्पयाराई १०॥७॥ इह मत्तं-मदस्तस्याङ्ग-कारणं मदिरास्तद्ददतीति मत्ताङ्गदाः यद्वा मत्तस्य-मदस्याङ्ग-कारणं मदिरारूपं येषु ते मत्ताङ्गास्त एव मत्ताकाः १ 'भिंग'त्ति भृतं-भरणं पूरणं तत्राङ्गानि-कारणानि भृताङ्गानि-भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षा अपि भृतालाः प्राकृतत्वाश्च भिंगा उच्यन्ते २ तथा त्रुटितानि-तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः ३ 'दीवजोइचि. तंग'त्ति इहाङ्गशब्दः प्रत्येकमभिसम्बध्यते, ततो दीप:-प्रकाशकं वस्तु तत्कारणत्वाद्दीपाङ्गाः ४ ज्योतिः-अग्निस्तत्र च सुषमसुषमायामग्नेरभावात् ज्योतिरिव यद्वस्तु सोमप्रकाशकमिति भावः तत्कारणत्वाज्ज्योतिरङ्गाः ४ तथा चित्रस्य-अनेकप्रकारस्थ विवक्षाप्राधान्यात् माल्यस्य कारणत्वाचित्राङ्गाः ६ तथा चित्रा-विविधा मनोज्ञा रसा-मधुरादयो ययात्रिरसाः ७ तथा मणीनां-मणिप्रधानाभर. णानां कारणत्वान्मण्यङ्गाः ८ तथा गेहं-गृहं तद्वदाकारो येषां ते गृहाकाराः ९ 'अणियण'त्ति विचित्रवस्त्रदायित्वान्न विद्यन्ते नमास्तनिवासिनो जना येभ्यस्तेऽननाः १० इत्येते दश कल्पद्रुमा भवन्तीति ॥ ६७ ।। अथैतेषां मध्ये येषु यद्भवति तदाह-मत्ताङ्गकेषु कल्पद्रुमेषु सुखपेयं परमातिशयसंपन्नवर्णादिविशिष्टत्वेन पातुममिलषणीयं सुपक्केक्षुद्राक्षादिरसनिष्पन्नं मद्यं भवति, कोऽर्थः -तेषां फलानि विशिष्टबलवीर्यकान्तिहेतुविश्रसापरिणतसरससुगन्धिविविधपरिपाकागतहृद्यमद्यपरिपूर्णानि स्फुटित्वा स्फुटित्वा मद्यं मुश्चन्तीति १ तथा भृताङ्गेषु भाजनानि-स्थालप्रभृतीनि भवन्ति, अयमर्थः-यथा इह मणिकनकरजतादिमयविचित्रभाजनानि स्थालप्रभृतीनि दृश्यन्ते तथैव विसापरिणतैरपरिमितैः स्थालकञ्चोलककलशकरकादिमिर्भाजनैः फलैरिवोपशोभमानाः प्रेक्ष्यन्ते २ तथा त्रुटिताङ्गेषु सङ्गतानि-सम्यगयथोक्तरीत्या सम्बद्धानि त्रुटितानि-आतोद्यानि बहुप्रकाराणि-ततविततघनशुषिरभेदभिन्नानि फलानीव भवन्ति, तत्र 'ततं-वीणादिकं ज्ञेयं, विततं-पटहादिकम् । घनं तु-कांस्यतालादि, शुषिरं काहलादिक ॥ १॥ मिति ३ तथा दीपशिखा ज्योतिषिकनामकाश्च एते कल्पतरव उद्योतं-प्रकाशं कुर्वन्ति, इदमुक्तं भवति-यथेह स्निग्धं प्रज्ज्वलन्त्यः काञ्चनमणिमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तद्वद्विश्रसापरिणताः (दीपशिखाकल्पवृक्षाः) प्रकृष्टोद्योतेन सर्वमुद्योतयन्तो वर्तन्ते ज्योतिषिकास्तु सूर्यमण्डलमिव स्वतेजसा सर्वमप्यवभासयन्तः सन्तीति ४-५ तथा चित्राङ्गेषु माल्यम्-अनेकप्रकारसरससुरमिनानावर्णकुसुमदामरूपं भवति ६ तथा चित्ररसा भोजनार्थाय-युगलधार्मिकाणां भोजननिमित्तं भवन्ति, एतदुक्तं भवति-इहत्यविशिष्टदालिकलमशालिशालनकपकानप्रभृतिभ्योऽतीवापरिमितस्वादुतादिगुणोपेतेन्द्रियबलपुष्टिहेतुहृद्यखाद्यभोज्यपदार्थपरिपूर्णैः फलमध्यैर्विराजमानाश्चित्ररसाः संतिष्ठन्ति ७ तथा मण्यङ्गेषु वराणि-श्रेष्ठानि भूषणानि विश्रसापरिणतानि कटककुण्डलकेयूरादीन्याभरणानि भवन्ति ८ तथा भवनवृशेषु गेहाकारनामकेषु कल्पद्रुमेषु भवनानि-विसापरिणामत एव प्रांसुप्राकारोपगूढसुखारोहसोपानपडिविचित्रचित्रशालाविततवातायनानेकगुप्तप्रकटापवरककुट्टिमतलाद्यलकृतानि नानाविधानि निकेतनानि भवन्ति ९ तथा अननेषु कल्पपादपेषु धणियं-अत्यर्थ बहुप्रकाराणि विचित्राणि वस्त्राणि-विसावशत एवातिसूक्ष्मसुकुमारदेवदूष्यानुकारीणि मनोहारीणि निर्मलभांसि वासांसि समुपजायन्त इति १०।१७१॥ ६८॥६९॥७०॥ इदानीं 'नरय'त्ति द्विसप्तत्यधिकशततमं द्वारमाह घम्मा १ वंसा २ सेला ३ अंजण ४ रिट्ठा ५ मघा ६ य माधवई ७ । नरयपुटवीण नामाई हुंति रयणाई गोत्ताई ॥ ७१ ॥ रयणप्पह १ सकरपह २ वालुयपह ३ पंकपहभिहाणाओ ४। धूमपह ५तमपहाओ ६ तह महातमपहा ७ पुढवी ॥७२॥ इह यदनादिकालप्रसिद्धमन्वर्थरहितमभिधानं तत्सर्वकालं यथाकथश्चिदन्वर्थनिरपेक्षतया नमनात्-प्रवर्तनानामेत्युच्यते, यत्पुनः सान्वर्थ तगो:-स्वामिधायकवचनस्य त्राणाद्-यथार्थत्वसम्पादनेन पालनाद्गोत्रमिति, तत्र धर्मा वंशा शैला अखना रिष्ठा मघा माघवती चेत्येतानि नरकपृथिवीनां सप्तानां यथाक्रम नामानि भवन्ति, वथा 'श्यण'चि एकदेशेन समुदायोपचाराद्रत्नप्रभादीनि गोत्राणि भवन्ति, तत्र प्रभाशब्दो बाहुल्यवाची, ततो रवानां-कर्केतनादीनां प्रभा-बाहुल्यं यस्यां सा रत्नप्रभा रत्नबहुलेति भावः, एवं शर्कराणामुपलखण्डानां प्रभा यस्यां सा शर्कराप्रभा, वालुकायाः परुषपांसूत्कररूपायाः प्रभा यस्यां सा वालुकाप्रभा, पङ्कस्य प्रभा यस्यां सा पङ्कप्रभा, कर्दमाभद्रव्योपलक्षितेत्यर्थः, धूमस्य प्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेति भावः, तमसः प्रभा-बाहुल्यं यत्र सा तमःप्रभा, तथा महातमसः-अतिशायितमसः प्रभा-बाहुल्यं यत्र सा महातमःप्रभा, अपरे तु तमस्तमस्य-प्रकृष्टतमसस्तमस्तमसो वा-अत्यन्ततमसः प्रभा-बाहुल्यं यस्यां सा तमस्तमःप्रभेति वा मन्यन्त इति १७२ ॥ ७१॥७२॥ सम्प्रति 'नेरइयाणं आवास'त्ति त्रिसप्तत्यधिकशततमं द्वारमाह तीसा य १ पन्नवीसा २ पन्नरस ३ दस ४ चेव तिन्नि ५ य हवंति । पंचूण सयसहस्सं ६ पंचेव ७ अणुत्तरा नरया ॥७३॥ 210

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310