Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
दीरिता प्रतिपाद्यते-इह द्विविधा नारकाः-सम्यग्दृष्टयो मिध्यादृष्टयश्च, तत्र ये मिध्यादृष्टयस्ते मिध्याज्ञानावलिप्तचेतसः परमार्थमजानानाः परस्परमुदीरयन्ति दुःखानि, ये तु सम्यग्दृष्टयस्ते तु नूनमस्मामिः कृतं जन्मान्तरेऽपि तत्किमपि पापं प्राणिहिंसादिरूपं येन निममा वयं परमदुःखाम्भोधाविति परिभावयन्तः सहन्ते सम्यक्परोदीरितानि दुःखानि न पुनरन्येषामुत्पादयन्ति, दृष्टनिजकर्मविपाकत्वात् , अत एव च ते मिथ्यादृष्टिभ्योऽधिकतरदुःखाः प्रवचने प्रतिपाद्यन्ते, भूयिष्ठतया मानसिकदुःखसम्भवात् , येऽपि च मिथ्यादृष्टयः परस्परमुदीरयन्ति दुःखानि तेऽप्येवं-यथेह जगत्यपूर्वाद् प्रामान्तरादागच्छतः शुनो दृष्ट्वा तद्वामवास्तव्याः श्वानो निर्दयं क्रुद्ध्यन्ति परस्परं प्रहरन्ति च तथा नारका अपि विभङ्गज्ञानबलेन दूरत एवान्योऽन्यमालोक्य क्रोधान्धा वैक्रियं भयानक रूपमाधाय तेष्वेव स्वस्वनरकावासेषु क्षेत्रानुभावजनितानि पृथिवीपरिणामरूपाणि शूलशिलामुद्रकुन्ततोमरखगयष्टिपरशुप्रभृतीनि प्रहरणानि वैक्रियाणि वाऽऽदाय तैः करचरणदशनैश्च परस्परममिन्नन्ति, ततः परस्परामिघाततो विकृताङ्गा निस्वनन्तो गाढवेदनाः सूनान्तःप्रविष्टमहिषादय इव रुधिरकर्दमे विचेष्टन्ते, एवमादिकाः परस्परोदीरिता दुःखवेदनाः, परमाधार्मिककृतास्तु तप्तत्रपुपानतप्तायोमयस्त्रीसमालिङ्गनकूटशाल्मल्यमारोपणअयोधनाघातवास्यादितक्षणक्षतक्षारोष्णतेलक्षेपणकुन्तादिप्रोतनभ्राष्ट्रभर्जनयापीलनकरपत्रपाटनवैक्रियानेककाकोलूकसिंहादिकदर्थनतप्तवालुकावतारणअसिपत्रवनप्रवेशनवैतरणीतरङ्गिणीप्लावनपरस्परायोधनादिजनिता अपरिमिताः समयसमुद्रादवगन्तव्याः । किश्च-कुम्भीषु पच्यमानास्तीव्रतापात्ते नारका उत्कर्षतः पञ्च योजनशतान्यू मुच्छलन्ति, तथा चोक्तं जीवाभिगमे-'नेरइयाणुप्पाओ उकोसं पंच जोयणसयाई । दुक्खेणऽभिदुयाणं वेयणसयसंपगाढाणं ॥१॥नैरयिकाणामुत्पात उत्कृष्टतः पश्च योजनशतानि । दुःखेनामिद्रुतानां वेदनाशतसंप्रगाढानां ॥१॥] पतन्तश्च विकुर्वितैर्ववतुण्डैरण्डजैरन्तराले नोटिमिस्रोट्यन्ते किश्चिच्छेषास्तु भूमिपतिता व्याघ्रादिमिविलुप्यन्त इति १७४ ॥ ७४ ॥ इदानीं 'आउ'त्ति पञ्चसप्तत्यधिकशततमं द्वारमाह
सागरमेगं १ तिय २ सत्त ३ दस ४ य सत्तरस ५ तह य बावीसा ६ । तेत्तीसं ७ जाव ठिई सतसु पुढवीसु उक्कोसा ॥७५ ॥ जा पढमाए जेट्ठा सा बीयाए कणिहिया भणिया । तरतमजोगो एसो दसवाससहस्स रयणाए ॥ ७६॥ सप्तस्वपि नरकपृथिवीष्वियं यथासङ्ख्यमुत्कृष्टा स्थितिः, तद्यथा-रत्नप्रभायां पृथिव्यां सागरोपममेकमुत्कृष्टा स्थितिः शर्कराप्रभायां त्रीणि सागरोपमाणि बालुकाप्रभायां सप्त पङ्कप्रभायां दश धूमप्रभायां सप्तदश तमःप्रभायां द्वाविंशतिः तमस्तमःप्रभायां त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिरिति ॥ ७५ ॥ सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाह-जेत्यादि, या प्रथमायां-रत्नप्रभायां ज्येष्ठाउत्कृष्टा स्थितिरेकसागरोपमलक्षणा सा द्वितीयायां पृथिव्यां शर्कराप्रभामिधानायां कनिष्ठा-जघन्या भणिता, एष तरतमयोगो-जघन्योस्कृष्टस्थितियोगः सर्वास्वपि पृथिवीषु भावनीयः, तद्यथा-या द्वितीयायामुत्कृष्टा सा तृतीयायां जघन्या या तृतीयायामुत्कृष्टा सा चतुर्थ्या जघन्या एवं या षष्ठयामुत्कृष्टा सा सप्तम्यां जघन्या, रत्नप्रभायां प्रथमपृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणीति, अयममिप्राय:प्रथमपृथिव्यां रत्नप्रभायां जघन्या स्थितिर्दश वर्षसहस्राणि शर्कराप्रभायामेकं सागरोपमं वालुकाप्रभायां त्रीणि सागरोपमाणि पट्टप्रभायां सप्त धूमप्रभायां दशतमःप्रभाया सप्तदश तमस्तमःप्रभायां कालादिषु चतुर्ष नरकावासेषु द्वाविंशतिसागरोपमाणि जघन्या स्थितिः जघन्यो. स्कृष्टान्तरालवर्तिनी तु स्थितिः सर्वत्र मध्यमा बोद्धव्या १७५ ॥ ७५ ॥ ७६ ॥ इदानीं 'तणुमाणं ति षट्सप्तत्यधिकशततमं द्वारमाह
पढमाए पुढवीए नेरल्याणं तु होइ उच्चत्तं । सत्त धणु तिन्नि रयणी छञ्चेव य अंगुला पुण्णा ॥७७॥ सत्तमपुढवीऍ पुणो पंचेव धणुस्सयाई तणुमाणं । मज्झिमपुढवीसु पुणो अणेगहा मजिझमं नेयं ॥ ७८॥ जा जम्मि होइ भवधारणिज्ज अवगाहणा य नरएसु । सा दुगुणा बोडवा उत्तरवेउदि उक्कोसा ॥७९॥ भवधारणिज्जरूवा उत्तरविउविया य नरएसु । ओगाहणा जहन्ना
अंगुलअस्संखभागो उ ॥ ८॥ अवगाहते-अवतिष्ठते जीवोऽस्यामित्यवगाहना-तनुः शरीरमित्येकोऽर्थः, सा द्विधा-भवधारणीया उत्तरवैक्रिया च, भवे-नारकादावायुःसमाप्तिं यावदनवरतं धार्यतेऽसाविति भवधारणीया, स्वाभाविकं शरीरमित्यर्थः, सहजशरीरग्रहणोत्तरं-उत्तरकालं कार्यविशेषमाश्रित्य विविधा क्रियत इत्युत्तरवैक्रिया, एकैकाऽपि च द्विधा-जघन्या उत्कृष्टा च, तत्र प्रथमं तावत् प्रतिपृथिवि उत्कृष्टा भवधारणीयाऽवगाहना प्रोच्यते-प्रथमायां रत्नप्रभायां पृथिव्यां नारकाणामुत्कर्षतो भवधारणीयावगाहनोचत्वं सप्त धनूंषि तिस्रो रत्नयः-त्रयो हस्ता इत्यर्थः, षडेव चाकुलानि पूर्णानि, उत्सेधाडलेन सपादैकत्रिंशद्धस्ता इति भावः, सप्तमपृथिव्यां पुनः पञ्चैव धनुःशतान्युत्कर्षतो नारकाणां तनुमान-शरीरोच्छ्रयः, मध्यमपृथिवीषु-शर्कराप्रभायासु तमःप्रभापर्यन्तासु पुनर्मध्यम-प्रथमसप्तमपृथिवीनारकतनुमानयोर्मध्यवर्ति अनेकधा, पूर्वपूर्व पृथिवीत उत्तरोत्तरपृथिवीषु द्विगुणद्विगुणं तनुमानमुत्कर्षतो ज्ञातव्यं, तथाहि-रत्नप्रभानारकतनुमानाद् द्विगुणं शर्कराप्रभायां-पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गलानि देहमानं, एवं वालुकाप्रभायामेकत्रिंशद्धनूंषि एको हस्तः पङ्कप्रभायां द्वाषष्टिर्धनूंषि द्वौ हस्तो धूमप्रभायां पञ्चविंशं धनुःशतं तमःप्रभायां सार्धे द्वे धनुःशते तमस्तमःप्रभायां पञ्चैव धनुःशतानीति ॥ ७७॥ सम्प्रति
212

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310