Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
तस्सवि अहो लिहिज्जइ काल १ जहिच्छा य २ पयदुगसमेयं । नियइ १ स्सहाव २ ईसर ३ अप्पत्ति ४ इमं पयचउक्कं ॥ ९५ ॥ पढमे भंगे जीवो नत्थि सओ कालओ तयणु बीए । परओऽवि नत्थि tar काला भंगगा दोन्नि ॥ ९६ ॥ एव जइच्छाईहिवि परहिं भंगहुगं दुगं पत्तं । मिलियावि ते दुवालस संपत्ता जीवतत्तेणं ॥ ९७ ॥ एवमजीवाईहिवि पत्ता जाया तओ उ चुलसीई । भेया अकिरियवाईण हुंति इमे सङ्घसंखाए ॥ ९८ ॥ संत १ मसंतं २ संतासंत ३ मवत्तव ४ सय अवत्त ५ । अस्य अवत्तवं ६ सयवत्तवं ७ ( सय सयवत्त) च सत्त पया ॥ ९९ ॥ जीवाइनवपयाणं अहोकमेणं इमाइं ठविऊणं । जह कीरइ अहिलावो तह साहिज्जह निसामेह ॥ १२०० ॥ संतो जीवो को जाणइ ? अहवा किं व तेण नाएणं ? । सेसपएहिवि भंगा इय जाया सत्त जीवस्स ॥१॥ एवमजीवाईणऽवि पत्तेयं सत्त मिलिय तेसट्ठी । तह अन्नेऽवि हु भंगा चत्तारि इमे उ इह हुंति ॥ २ ॥ संती भावुष्पत्ती को जाणइ किंच ती नाथाए ? । एवमसंती भावुप्पत्ती सदसत्तिया चेव ॥ ३ ॥ तह अवत्तवावि हु भावुप्पत्ती इमेहिं मिलिएहिं । भंगाण सत्तसट्ठी जाया अन्नाणियाण इमा ॥ ४ ॥ सुर १ निवइ २ जइ ३ न्नाई ४ थविरा ५ वम ६ माइ ७ पिइसु ८ एएसिं । मण १ वयण २ का ३ दाणेहिं ४ चउधिहो कीरए विणओ ॥ ५ ॥ अट्ठवि चउक्कगुणिया बत्तीस हवंति वेणइय भेया । सवेहिं पिंडिएहिं तिन्नि सया हुंति तेसट्ठा ॥ ६ ॥
'असीई' त्यादिगाथा एकोनविंशतिः, न कर्तारमन्तरेण क्रिया - पुण्यबन्धादिलक्षणा सम्भवति, तत एवं परिज्ञाय तां क्रियामात्मसमवायिनीं वदन्ति तच्छीलाश्च ये ते क्रियावादिनः - आत्माद्यस्तित्वप्रतिपत्तिलक्षणाः तेषामशीत्यधिकं शतं भवति, वक्ष्यमाणप्रकारेण अशीत्यधिकशतसङ्ख्यास्ते इति भावः, तथा न कस्यचित्प्रतिक्षणमवस्थितस्य पदार्थस्य क्रिया सम्भवति उत्पन्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति तेऽक्रियावादिनः—आत्मादिनास्तित्वप्रतिपत्तिलक्षणाः, तथा चाहुः – “क्षणिकाः सर्वसंस्कारा, अस्थिराणां कुतः क्रिया ? । भूतियैषां क्रिया सैव, कारकं सैव चोच्यते ॥ १ ॥” तेषां चतुरशीतिर्भवति, तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्ति तेन वा चरन्तीत्यज्ञानिकाःअसंचिन्त्यकृतबन्धवैफल्यादिप्रतिपादनपराः, तथाहि ते एवमाहुः- न ज्ञानं श्रेयः तस्मिन् सति परस्परं विवादयोगेन चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेः, तथाहि - केनचित्पुरुषेणान्यथा देशिते वस्तुनि विवक्षितो ज्ञानी ज्ञानगर्वाध्मातमानसस्तस्योपरि कलुषचित्तः तेन सह विवादमारभते, विवादे च क्रियमाणे तीव्रतीव्रतरचित्तकालुष्यभावतोऽहङ्कारतश्च प्रभूतप्रभूततराशुभकर्मबन्धसम्भवः, तस्माच्च दीर्घ दीर्घतरसंसारः, तथा चोक्तम् — 'अन्नेण अन्नहा देसियंमि भावंमि नाणगव्वेणं । कुणइ विवायं कलुसियचित्तो तत्तो य से बंधो ॥ १ ॥” [ अन्येनान्यथा देशिते भावे ज्ञानगर्वेण । करोति विवादं कलुषितचित्तस्ततश्च तस्य बन्धः ॥ १ ॥ ] यदा पुनरज्ञानमाश्रीयते तदा नाहङ्कारसम्भवो नापि परस्योपरि चित्तकालुष्यभावः ततो न कर्मबन्धसम्भवः, अपिच - यः सञ्चिन्त्य क्रियते कर्मबन्धः स दारुणविपाकः अत एवावश्यंवेद्यः, तस्य तीव्राध्यवसायतो निष्पन्नत्वात्, यस्तु मनोव्यापारमन्तरेण कायवचनकर्मवृत्तिमात्रतो विधीयते न तत्र मनसोऽमिनिवेशः ततो नासाववश्यंवेद्यो नापि तस्य दारुणो विपाकः, केवलं अतिशुष्क सुधापङ्कधवलितमित्तिगतर जोराजिरिव स कर्मसङ्गः स्वत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति, मनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्य मिनिवेशसम्भवात्, तस्मादज्ञानमेव मुमुक्षुणा - मुक्तिमार्गप्रवृत्तेनाभ्युपगन्तव्यं [प्रन्थानं ३००] न ज्ञानमिति, किभ्व-भवेद्युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कर्तु पार्यते, परं यावता स एव न पार्यते, तथाहि - सर्वेऽपि दर्शनिनः परस्परं मिन्नमेव ज्ञानं प्रतिपन्नाः, ततो न निश्वयः कर्तुं शक्यते - किमिदं ज्ञानं सम्यगुत नेदमिति, यदुक्तम् — 'सब्वे य मिहो मिन्नं नाणं इह नाणिणो जओ बिंति । तीरइ तओ न काउं विणिच्छओ एवमेयन्ति ॥ १ ॥” [ सर्वे च मिथो मिन्नं ज्ञानं इह ज्ञानिनो यतो ब्रुवते, शक्यते ततो न कर्त्तुं विनिश्चय एवमेतदिति ॥ १ ॥ ] तेषामज्ञानिकानां सप्तषष्टिर्भेदाः, तथा विनयेन चरन्तीति वैनयिकाः- एते चानवधृतलिङ्गा चारशास्त्राः केवलं विनयप्रतिपत्तिप्रधानाः, एषां च द्वात्रिंशद्भेदा इति ।। ८८ ।। अथ ‘यथोद्देशं निर्देश' इति न्यायात् क्रियावादिनामशीत्युत्तरशतसङ्ख्याभङ्गानयनोपायमाह – 'जीवे 'त्यादिगाथाद्वयं, जीवादीनि नव पदानि - जीव अजीव आश्रवबन्धसंवरनिर्जरापुण्यपापमोक्षलक्षणान्नव पदार्थान् परिपाट्या पट्टिकादौ विरचय्य तेषामधः प्रत्येकं स्वतः परत इति शब्दौ स्थाप्येते, तयोरपि स्वतः परत इति शब्दयोरधः प्रत्येकं नित्यानित्यशब्दौ स्थाप्येते, ततोऽपि - नित्यानित्यशब्दयोरधस्तादनुक्रमेण - परिपाट्या कालस्वभावनियतीश्वरात्मस्वरूपाणि पश्च पदानि स्थाप्यन्ते ।। ८९ ।। ९० ।। अथैतेषामेव भेदानाममिलापमाह – ' जीवो' इत्यादिगाथात्रयं, इह अस्ति जीवः स्वतो नित्यः कालतः प्रथमो भङ्गो - विकल्पः, अस्य च विकल्पस्यायमर्थःइह–अस्मिन् जगति अस्ति-विद्यते खल्वयं जीवः - आत्मा स्वतः - स्खेन रूपेण, न तु परोपाध्यपेक्षया, ह्रस्वत्वदीर्घत्वे इव, नित्यः-शानतो, न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात् कालवादिनो मतेन, कालवादिनश्च ते मन्तव्या ये कालकृतमेव सर्व जगन्मन्यन्ते, तथा च ते एवमाहुः - न कालमन्तरेण सहकारचम्पकाशोकादिकुसुमोद्गमफलानुबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वा ऋतुविभागसम्पादिता बालकुमारयौवनवलिपलितागमादयो वा अवस्थाविशेषा घटन्ते, प्रतिनियतकालविभाग एव तेषामुपलभ्यमान
230

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310