SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ तस्सवि अहो लिहिज्जइ काल १ जहिच्छा य २ पयदुगसमेयं । नियइ १ स्सहाव २ ईसर ३ अप्पत्ति ४ इमं पयचउक्कं ॥ ९५ ॥ पढमे भंगे जीवो नत्थि सओ कालओ तयणु बीए । परओऽवि नत्थि tar काला भंगगा दोन्नि ॥ ९६ ॥ एव जइच्छाईहिवि परहिं भंगहुगं दुगं पत्तं । मिलियावि ते दुवालस संपत्ता जीवतत्तेणं ॥ ९७ ॥ एवमजीवाईहिवि पत्ता जाया तओ उ चुलसीई । भेया अकिरियवाईण हुंति इमे सङ्घसंखाए ॥ ९८ ॥ संत १ मसंतं २ संतासंत ३ मवत्तव ४ सय अवत्त ५ । अस्य अवत्तवं ६ सयवत्तवं ७ ( सय सयवत्त) च सत्त पया ॥ ९९ ॥ जीवाइनवपयाणं अहोकमेणं इमाइं ठविऊणं । जह कीरइ अहिलावो तह साहिज्जह निसामेह ॥ १२०० ॥ संतो जीवो को जाणइ ? अहवा किं व तेण नाएणं ? । सेसपएहिवि भंगा इय जाया सत्त जीवस्स ॥१॥ एवमजीवाईणऽवि पत्तेयं सत्त मिलिय तेसट्ठी । तह अन्नेऽवि हु भंगा चत्तारि इमे उ इह हुंति ॥ २ ॥ संती भावुष्पत्ती को जाणइ किंच ती नाथाए ? । एवमसंती भावुप्पत्ती सदसत्तिया चेव ॥ ३ ॥ तह अवत्तवावि हु भावुप्पत्ती इमेहिं मिलिएहिं । भंगाण सत्तसट्ठी जाया अन्नाणियाण इमा ॥ ४ ॥ सुर १ निवइ २ जइ ३ न्नाई ४ थविरा ५ वम ६ माइ ७ पिइसु ८ एएसिं । मण १ वयण २ का ३ दाणेहिं ४ चउधिहो कीरए विणओ ॥ ५ ॥ अट्ठवि चउक्कगुणिया बत्तीस हवंति वेणइय भेया । सवेहिं पिंडिएहिं तिन्नि सया हुंति तेसट्ठा ॥ ६ ॥ 'असीई' त्यादिगाथा एकोनविंशतिः, न कर्तारमन्तरेण क्रिया - पुण्यबन्धादिलक्षणा सम्भवति, तत एवं परिज्ञाय तां क्रियामात्मसमवायिनीं वदन्ति तच्छीलाश्च ये ते क्रियावादिनः - आत्माद्यस्तित्वप्रतिपत्तिलक्षणाः तेषामशीत्यधिकं शतं भवति, वक्ष्यमाणप्रकारेण अशीत्यधिकशतसङ्ख्यास्ते इति भावः, तथा न कस्यचित्प्रतिक्षणमवस्थितस्य पदार्थस्य क्रिया सम्भवति उत्पन्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति तेऽक्रियावादिनः—आत्मादिनास्तित्वप्रतिपत्तिलक्षणाः, तथा चाहुः – “क्षणिकाः सर्वसंस्कारा, अस्थिराणां कुतः क्रिया ? । भूतियैषां क्रिया सैव, कारकं सैव चोच्यते ॥ १ ॥” तेषां चतुरशीतिर्भवति, तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्ति तेन वा चरन्तीत्यज्ञानिकाःअसंचिन्त्यकृतबन्धवैफल्यादिप्रतिपादनपराः, तथाहि ते एवमाहुः- न ज्ञानं श्रेयः तस्मिन् सति परस्परं विवादयोगेन चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेः, तथाहि - केनचित्पुरुषेणान्यथा देशिते वस्तुनि विवक्षितो ज्ञानी ज्ञानगर्वाध्मातमानसस्तस्योपरि कलुषचित्तः तेन सह विवादमारभते, विवादे च क्रियमाणे तीव्रतीव्रतरचित्तकालुष्यभावतोऽहङ्कारतश्च प्रभूतप्रभूततराशुभकर्मबन्धसम्भवः, तस्माच्च दीर्घ दीर्घतरसंसारः, तथा चोक्तम् — 'अन्नेण अन्नहा देसियंमि भावंमि नाणगव्वेणं । कुणइ विवायं कलुसियचित्तो तत्तो य से बंधो ॥ १ ॥” [ अन्येनान्यथा देशिते भावे ज्ञानगर्वेण । करोति विवादं कलुषितचित्तस्ततश्च तस्य बन्धः ॥ १ ॥ ] यदा पुनरज्ञानमाश्रीयते तदा नाहङ्कारसम्भवो नापि परस्योपरि चित्तकालुष्यभावः ततो न कर्मबन्धसम्भवः, अपिच - यः सञ्चिन्त्य क्रियते कर्मबन्धः स दारुणविपाकः अत एवावश्यंवेद्यः, तस्य तीव्राध्यवसायतो निष्पन्नत्वात्, यस्तु मनोव्यापारमन्तरेण कायवचनकर्मवृत्तिमात्रतो विधीयते न तत्र मनसोऽमिनिवेशः ततो नासाववश्यंवेद्यो नापि तस्य दारुणो विपाकः, केवलं अतिशुष्क सुधापङ्कधवलितमित्तिगतर जोराजिरिव स कर्मसङ्गः स्वत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति, मनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्य मिनिवेशसम्भवात्, तस्मादज्ञानमेव मुमुक्षुणा - मुक्तिमार्गप्रवृत्तेनाभ्युपगन्तव्यं [प्रन्थानं ३००] न ज्ञानमिति, किभ्व-भवेद्युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कर्तु पार्यते, परं यावता स एव न पार्यते, तथाहि - सर्वेऽपि दर्शनिनः परस्परं मिन्नमेव ज्ञानं प्रतिपन्नाः, ततो न निश्वयः कर्तुं शक्यते - किमिदं ज्ञानं सम्यगुत नेदमिति, यदुक्तम् — 'सब्वे य मिहो मिन्नं नाणं इह नाणिणो जओ बिंति । तीरइ तओ न काउं विणिच्छओ एवमेयन्ति ॥ १ ॥” [ सर्वे च मिथो मिन्नं ज्ञानं इह ज्ञानिनो यतो ब्रुवते, शक्यते ततो न कर्त्तुं विनिश्चय एवमेतदिति ॥ १ ॥ ] तेषामज्ञानिकानां सप्तषष्टिर्भेदाः, तथा विनयेन चरन्तीति वैनयिकाः- एते चानवधृतलिङ्गा चारशास्त्राः केवलं विनयप्रतिपत्तिप्रधानाः, एषां च द्वात्रिंशद्भेदा इति ।। ८८ ।। अथ ‘यथोद्देशं निर्देश' इति न्यायात् क्रियावादिनामशीत्युत्तरशतसङ्ख्याभङ्गानयनोपायमाह – 'जीवे 'त्यादिगाथाद्वयं, जीवादीनि नव पदानि - जीव अजीव आश्रवबन्धसंवरनिर्जरापुण्यपापमोक्षलक्षणान्नव पदार्थान् परिपाट्या पट्टिकादौ विरचय्य तेषामधः प्रत्येकं स्वतः परत इति शब्दौ स्थाप्येते, तयोरपि स्वतः परत इति शब्दयोरधः प्रत्येकं नित्यानित्यशब्दौ स्थाप्येते, ततोऽपि - नित्यानित्यशब्दयोरधस्तादनुक्रमेण - परिपाट्या कालस्वभावनियतीश्वरात्मस्वरूपाणि पश्च पदानि स्थाप्यन्ते ।। ८९ ।। ९० ।। अथैतेषामेव भेदानाममिलापमाह – ' जीवो' इत्यादिगाथात्रयं, इह अस्ति जीवः स्वतो नित्यः कालतः प्रथमो भङ्गो - विकल्पः, अस्य च विकल्पस्यायमर्थःइह–अस्मिन् जगति अस्ति-विद्यते खल्वयं जीवः - आत्मा स्वतः - स्खेन रूपेण, न तु परोपाध्यपेक्षया, ह्रस्वत्वदीर्घत्वे इव, नित्यः-शानतो, न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात् कालवादिनो मतेन, कालवादिनश्च ते मन्तव्या ये कालकृतमेव सर्व जगन्मन्यन्ते, तथा च ते एवमाहुः - न कालमन्तरेण सहकारचम्पकाशोकादिकुसुमोद्गमफलानुबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वा ऋतुविभागसम्पादिता बालकुमारयौवनवलिपलितागमादयो वा अवस्थाविशेषा घटन्ते, प्रतिनियतकालविभाग एव तेषामुपलभ्यमान 230
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy