________________
त्यमाह-रोमे'त्यादि, शरीरपर्याप्त्या पर्याप्ताः मतान्तरेण सर्वस्वयोग्यपर्याप्तिपर्याप्ता एकेन्द्रिया नैरयिकाः सुरगणाश्च सर्वे लोमाहारा एव ज्ञातव्याः, न पुनः प्रक्षेपाहाराः, तत्र एकेन्द्रियाणां प्रक्षेपाहाराभावो मुखाभावात् , नैरयिकदेवानां तु वैक्रियशरीरतया तथास्वभावात् , उक्तं च-"एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो ॥ १॥" [एकेन्द्रियदेवानां नैरयिकाणां च नास्ति प्रक्षेपः । शेषाणां जीवानां संसारस्थानां प्रक्षेपः ॥ १॥] शेषाणां-द्वित्रिचतुरिन्द्रियाणां तिर्यपञ्चेन्द्रियाणां मनुष्याणां चाहारो लोनि-लोमविषयः प्रक्षेपतश्च भवति, उभयरूपस्याप्याहारस्य तेषां सम्भवात् ॥ ८२ ॥ अथ देवानामाहारविषयं विशेषमाह-'ओये'त्यादि, सर्वेऽपि भवनपत्यादयः सुरगणा अपर्याप्तावस्थायामोजआहाराः, पर्याप्तावस्थायां मनोभक्षिणो-मनसा चिन्तितोपनतान् सकलेन्द्रियाहादकमनोज्ञपुद्गलान् भक्षयन्तीव भक्षयन्ति-वैक्रियशरीरेणात्मसात्कुर्वतीत्येवंशीला मनोभक्षिणः, इयमत्र भावना-यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्ते उष्णाः पुद्गला वा उष्णयोनिकस्य तथा देवैरपि मनसाऽभ्यवहियमाणाः पुद्गलास्तेषां तृप्तये परमसन्तोषाय चोपकल्पन्ते, तत आहारविषयाभिलापनिवृत्तिर्भवतीति, शेषाः-सुरव्यतिरिक्ता जीवा नैरयिकादयोऽपर्याप्तावस्थायामोजआहाराः, पर्याप्तास्तु लोमाहारा ज्ञातव्याः, न पुनर्मनोभक्षिणः, मनोभक्षणलक्षणो ह्याहारः स उच्यते ये तथाविधशक्तिवशान्मनसा स्वशरीरपुष्टिजनकाः पुद्गला अभ्यवह्रियन्ते यदभ्यवहरणानन्तरं च तृप्तिपूर्वः परमसन्तोष उपजायते, न चैतन्नैरयिकादीनामस्ति प्रतिकूलकर्मोदयवशतस्तेषां तथारूपशक्त्यभावात् ।। ८३ ॥ पुनरत्रैव विशेषमाह-'अपजेत्यादि, आभोगनमाभोगः-आलोचनमभिसन्धिरित्यर्थः आभोगेन निर्वर्तितः-उत्पादित आभोगनिर्वर्तितः आहारयामीतीच्छापूर्व निर्मापित इतियावत् , तद्विपरीतोऽनाभोगनिर्वर्तितः, आहारयामीति विशिष्टेच्छामन्तरेण निष्पाद्यते यः प्रावृट्काले प्रचुरतरमूत्राद्यभिव्यङ्ग्यशीतपुद्गलाद्याहारवत् सोऽनाभोगनिर्वर्तित इति भावः, अत्रापर्याप्तकानां सुराणामोजआहारोऽनाभोगनिर्वर्तितः-अनाभोगसम्पादितो भवति, मनःपर्याप्तेरभावात् आभोगासम्भवात् , पर्याप्तानां पुनर्यो मनोभक्षणेन-मनसा सञ्चिन्य विशिष्टपुद्गलाभ्यवहरणेनाहारः स भाभोगनिर्मितः-आभोगसम्पादितो भवति ॥ ८४॥ सम्प्रति सागरोपमसङ्ख्यया आहारोच्छासयोः कालमानमाह-'जस्से'त्यादि, देवानां मध्ये यस्य देवस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावद्भिः पक्षैरुच्छोसः-शरीरान्तर्गतप्राणपवनोत्सर्पणं प्रवर्तते, तावद्भिश्च वर्षसहस्रैराहारः-आहारामिलापः, यथा-यस्य देवस्यैकं सागरोपमं स्थितिस्तस्यैकस्मिन् पक्षेऽतिक्रान्ते उच्छ्रासः एकस्मिन् वर्षसहस्रे आहारः, यस्य द्वे सागरोपमे तस्य पक्षद्वये उच्छासो वर्षसहस्रद्वये आहारः, यावत् त्रयस्त्रिंशत्सागरोपमाणि यस्य स्थितिस्तस्य त्रयस्त्रिंशत्पक्षातिक्रमे उच्छासः त्रयस्त्रिंशद्वर्षसहस्रातिक्रमे आहारः, देवेषु हि यो यथा महायुः स तथा सुखी, सुखितानां च यथोत्तरं महानुच्छासनिःश्वासक्रियाविरहकालः, दुःखरूपत्वादुच्छासनिःश्वास क्रियायाः, ततो यथा यथाऽऽयुषः सागरोपमवृद्धिस्तथा तथोच्छासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः, आहारक्रियायास्तु ततोऽप्यतिदुःखरूपत्वाद्वर्षसहस्रवृद्धिः ।। ८५ ।। अथ जघन्यायुषामाहारोच्छासयोः कालमानमाह-दसे'त्यादि, ये देवा-भवनपतयो व्यन्तराश्च जघन्यं दशवर्षसहस्राण्यायुर्धरन्ति तेषामाहारः-आहाराभिलाषश्चतुर्थाद्-अहोरात्रादुत्पद्यते, सति चाहारामिलाषे मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेनाहारतया परिणमन्ति, तथा तेषामेव-दशवर्षसहस्रधारिणां देवानां सप्तमिः स्तोकैःआधिव्याधिरहितमनुष्यसत्कोच्छासनिःश्वाससप्तकप्रमाणैः कालविशेषैरुच्छासः, सप्तसप्तस्तोकातिक्रमे एवोच्छ्रसन्ति, शेषकालं च तदाबाधया रहिताः स्तिमिता एव तिष्ठन्तीत्यर्थः ।। ८६ ॥ अथ वर्षसहस्रदशकस्थितेरूद्ध यावत्सागरोपमं पूर्णमेतावत्यन्तराले आहारोच्छासकालमानमाह-दसवे'त्यादि येषामुक्तेभ्यः शेषाणां देवानां दशवर्षसहस्राणि समयादीनि-समयावलिकामुहूर्तदिवसमाससंवत्सरयुगाद्यधिकानि यावकिश्चिदूनं सागरोपममायुःस्थितिः तेषां दिवसपृथक्त्वादाहारो मुहूर्तपृथक्त्वादुच्छासश्च, सूत्रे च-'पुहत्ते ति एकवचननिर्देशो जात्यपेक्षः, ततोऽयं भावार्थ:-दशवर्षसहस्रेभ्य ऊर्द्ध समयादिवृद्धौ यथाक्रममाहारोच्छ्रासयोर्दिवसमुहूर्तपृथक्त्वानि तावद्वर्धनीयानि यावत्परिपूर्णसागरोपमायुष पक्षादुच्छासो वर्षसहस्रादाहार इति, तथा एकेन्द्रियाणामाहाराभिलाषः सततं, विकलेन्द्रियनारकाणामुत्कर्षतोऽन्तर्मुहूर्तात् पञ्चेन्द्रियतिरश्चामहोरात्रद्वयातिक्रमात् मनुष्याणां चाहोरात्रत्रयातिक्रमादिति, उच्छासोऽपि नारकाणां निरन्तरं एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यङनराणां पुनरनियतमात्रः २०५ ॥ ८७ ॥ सम्प्रति 'तिन्नि सया तेवद्रा पासंडीणं'ति षडुत्तरद्विशततमं द्वारमाह
असीइसयं किरियाणं १८० अकिरियवाईण होइ चुलसीई ८४ । अन्नाणिय सत्तट्ठी ६७ वेणइयाणं च बत्तीसं ३२॥ ८८ ॥ जीवाइनवपयाणं अहो ठविनंति सयपरयसदा । तेसिंपि अहो निच्चानिच्चा सद्दा ठविजन्ति ।। ८९ ।। काल १ स्सहाव २ नियई ३ ईसर ४ अप्पत्ति ५ पंचवि पयाइं । निच्चानिचाणमहो अणुक्कमेणं ठविनंति ॥९०॥ जीवो इह अत्थि सओ निच्चो कालाउ इय पढमभंगो । बीओ य अत्थि जीवो सओ अनिचो य कालाओ॥९१ ॥ एवं परओऽवि हु दोन्नि भंगया पुच्चदुगजुया चउरो । लद्धा कालेणेवं सहावपमुहावि पावंति ॥ ९२ ॥ पंचहिवि चउक्केहिं पत्ता जीवेण वीसई भंगा । एवमजीवाईहिवि य किरियावाई असिइसयं ॥ ९३ ॥ इह जीवाइपयाइं पुन्नं पावं विणा ठविवन्ति । तेसिमहोभायम्मि ठविजए सपरसद्ददुगं ॥ ९४ ।।
229