________________
परिणामविसुद्धीए देवाउयकम्मबंधजोगाए । पंचिंदियाउ गच्छे नरतिरिया सेसपडिसेहो ॥७७॥
आईसाणा कप्पा उववाओ होइ देवदेवीणं । तत्तो परं तु नियमा देवीणं नत्थि उववाओ ॥७८॥ परिणमनं परिणामो-मानसिको व्यापारविशेषः, स च द्विधा-विशुद्धोऽविशुद्धश्च, तत्र यो विशुद्धः स देवगतिकारणमिति तत्प्रतिपादनार्थ विशुद्धिग्रहणं, परिणामस्य विशुद्धिः परिणामविशुद्धिः तया, प्रशस्तेन मानसव्यापारणेत्यर्थः, एतेन शुभाशुभगत्यवाप्तौ मनोव्यापारस्यैव प्राधान्यमाह, सापि च परिणामविशुद्धिः काऽप्युत्कर्ष प्राप्ता मुक्तिपदस्यैव प्रापिका, अतस्तन्निवृत्त्यर्थमाह-देवायुःकर्मबन्धनयोग्यया हेतुभूतया पञ्चेन्द्रियाः, तुशब्द एवकारार्थः पञ्चेन्द्रिया एव नैकेन्द्रियद्वीन्द्रियादय इत्यर्थः, नरा-मनुष्यास्तिर्यश्चश्च देवेषु मध्ये गच्छन्ति, शेषाणां तु सुरनारकाणां देवगतिगमने प्रतिषेधो ज्ञातव्यः, न खलु देवा नारका वा स्वायुःक्षयेऽनन्तरं देवत्वेनोत्पद्यन्त इति ॥ ७७ ॥ सम्प्रति प्रसंगतो देवदेवीनामुत्पत्तिस्थानमाह-'आईसाणे'त्यादि, आ ईशानात्-ईशानकल्पभभिव्याप्य, किमुक्तं भवति ?-भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवेषु देवानां देवीनां चोपपातो-जन्म भवति, ततः-ईशानात्परमूर्द्ध सनत्कुमारादिषु देवीनामुपपातो नास्ति, किन्तु देवानामेव केवलानां, केवलं सनत्कुमारादिदेवानां रताभिलाषे सति देव्यः खल्वपरिगृहीताः सौधर्मादीशानाच सहस्रारं यावद्गच्छन्ति न परत इति, तथा अच्युतात्परतः सुराणामपि गमागमौ न स्तः, तत्राधस्तनानामूर्द्ध शक्त्यभावात् , उपरितनानां विहागमने प्रयोजनाभावात् , अवेयकानुत्तरसुरा हि जिनजन्ममहिमादिष्वपि नात्रागच्छन्ति, किन्तु स्वस्थानस्था एव भक्तिमातन्वते, संशयप्रश्ने चावधिज्ञानतो भगवत्प्रयुक्तानि मनोद्रव्याणि साक्षादवेत्य तदाकारान्यथानुपपत्त्या जिज्ञासितमर्थ निश्चिन्वन्ति, न चान्यत्प्रयोजनं, तन्न तेषामिहागम इति २०३ ॥ ७८ ॥ सम्प्रति 'विरहो सिद्धिगईए'त्ति चतुरुत्तरद्विशततमं द्वारमाह- . ___ एकसमओ जहन्नो उक्कोसेणं तु जाव छम्मासा । विरहो सिद्धिगईए उबट्टणवजिया नियमा॥७९॥
एकः समयो जघन्यतः सिद्धिगतौ विरहः-अन्तरं भवति, उत्कर्षतस्तु यावत् षण्मासाः, सा च सिद्धिगतिर्नियमात्-निश्चयेनोद्वर्तनवर्जिता, न खलु सिद्धास्ततः कदाचनाप्युद्वर्तन्ते, तद्धेतूनां कर्मणां निर्मूलमुन्मूलितत्वात् , उक्तं च-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥२०४ ॥ ७९ ॥ सम्प्रति 'जीवाणाहारगहणऊसास'त्ति पञ्चोत्तरद्विशततमं द्वारमाह
सरिरेणोयाहारो तयाय फासेण रोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायवो ॥८॥ ओयाहारा जीवा सबे अपजत्तगा मुणेयवा। पज्जत्तगा य लोमे पक्खेवे हुंति भइयत्वा ॥ ८१ ॥ रोमाहारा एगिदिया य नेरइयसुरगणा चेव । सेसाणं आहारो रोमे पक्खेवओ चेव ।। ८२॥ ओयाहारा मणभक्खिणो य सवेऽवि सुरगणा होति । सेसा हवंति जीवा लोमाहारा मुणेयवा ॥८३॥ अपज्जत्ताण सुराणऽणाभोगनिवत्तिओ य आहारो । पजत्ताणं मणभक्खणेण आभोगनिम्माओ ॥ ८४ ॥ जस्स जइ सागराइं ठिइ तस्स य तेत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो॥ ८५॥ दसवाससहस्साई जहन्नमाऊ धरति जे देवा । तेसि चउत्थाहारो सत्तहिं थोवेहिं ऊसासो ॥८६॥ दसवाससहस्साई समयाई जाव सागरं ऊणं । दिवसमुहत्तपुहुत्ता
आहारूसास सेसाणं ॥ ८७॥ 'सरीरे'त्यादिगाथाष्टकं, शरीरेणैव केवलेन य आहारः स ओजाहारः, एतदुक्तं भवति-यद्यप्यौदारिकवैक्रियाहारकतैजसकार्मणभेदतः शरीरं पञ्चधा तथाऽपीह तैजसेन तत्सहचारिणा कार्मणेन च शरीरेण पूर्वशरीरत्यागे विग्रहेणाविग्रहेण चोत्पत्तिदेशं प्राप्तः सन् जन्तुर्यत्प्रथममौदारिकादिशरीरयोग्यान् पुद्गलानाहारयति यञ्च द्वितीयादिसमयेष्वप्यौदारिकादिमिश्रेणाहारयति यावच्छरीरनिपत्तिः एष सर्वोऽप्योजआहारः, ओजसा-तैजसशरीरेणाहार ओजआहारः, सकारवर्णलोपादोजाहारो वा, यद्वा ओजः-स्वजन्मस्थानोचितः शुक्रानुविद्धशोणितादिपुद्गलसङ्घातस्तस्याहार ओजाहारः, तथा त्वचा-त्वगिन्द्रियेण यः स्पर्शस्तेन य आहारः शरीरोपष्टम्भकानां शिशिरप्रावृट्कालादिभाविनां शीतजलादिपुद्गलानां ग्रहणं स लोमभिः-लोमरन्धेराहारः प्रचुरतरमूत्राद्यमिव्यङ्ग्यो लोमाहारः, यः पुनराहारः कावलिक:-कवलैर्निष्पन्नो भवति स प्रक्षेपाहारो ज्ञातव्यः, प्रक्षेपणं-मुखे प्रवेशनं प्रक्षेपः तेनौदनादेराहारः प्रक्षेपाहारः, अथवा प्रक्षिप्यत इति प्रक्षेपः-ओदनकवलादिस्तस्याहारः प्रक्षेपाहारः॥ ८०॥ अथ यस्यामवस्थायां जीवानां य आहारस्तदाह-ओयाहारे'त्यादि, ओजः-उत्पत्तिदेशे स्वशरीरयोग्यः पुद्गलसमूहस्तदाहारयन्तीत्योजआहाराः यद्वा ओजः-तैजसशरीरं तेनाहारो येषां ते ओजआहारा जीवाः सर्वेऽप्येकेन्द्रियादयः पञ्चेन्द्रियान्ता अपर्याप्ता मन्तव्याः, अपर्याप्तत्वं च शरीरपर्याप्तिमपेक्ष्य नाहारपर्याप्ति, तदपर्याप्तानामनाहारकत्वात् , सर्वाभिः स्वयोग्यपर्याप्तिभिरपर्याप्ता ओजआहारा इत्यन्ये, तथा पर्याप्ताः-शरीरपर्याप्त्या पर्याप्ताः मतान्तरेण सर्वामिः खयोग्यपर्याप्तिभिः पर्याप्ताः सर्वे जीवा लोनि-लोमाहारे नियमतो भवन्ति, पर्याप्तानां सर्वेषामपि जीवानां सर्वदापि लोमाहारो भवत्येवेति भावः, तथा च धर्माद्यमितप्ताश्छायया शीतलानिलसलिलस्पर्शनेन वा प्रीयन्ते प्राणिनः, प्रक्षेपे-प्रक्षेपाहारे भवन्ति भजनीया:-यदेव कवलप्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारो नान्यदा, लोमाहारता तु पवनादिस्पर्शनात् सदैवेति ॥ ८१॥ अवैकेन्द्रियादीनां पृवगाहारनैय
228