________________
ईशाने च प्रत्येकमुत्कर्षत उपपातविरहकालश्चतुर्विंशतिर्मुहूर्ता:, इयमत्र भावना - भवनवास्यादिषु मध्ये प्रत्येकमेकस्मिन् बहुषु वा देवेषूत्पन्नेषु सत्सु अन्य उत्कृष्टमन्तरं चतुर्विंशतिं मुहूर्त्तान् कृत्वा नियमतः समुत्पद्यते इति, जघन्यत उपपातविरहकालः सर्वेष्वपि भवनवासि व्यन्तरज्योतिष्कसौधर्मेशानरूपेषु एकः समयः किमुक्तं भवति ? - एतेषु पथ्वस्वपि स्थानेषु प्रत्येकमेकस्मिन् बहुषु वा समुत्पन्नेष्वन्यः समयमेकमन्तरं कृत्वा समुत्पद्यत इति शेषः सर्वोऽप्युपपात विरहकालो मध्यमो वेदितव्य इति ॥ ६७ ॥ सनत्कुमारे कल्पे देवानामुत्कर्षत उपपातविरहकालो नव दिनानि - रात्रिन्दिवानि विंशतिश्च मुहूर्ताः माहेन्द्रे द्वादश दिनानि दश च मुहूर्ताः ब्रह्मलोके सार्धानि द्वाविंशतिर्दिनानि लान्तके पञ्चचत्वारिंशद्दिनानि महाशुक्रेऽशीतिदिनानि सहस्रारे दिवसशतं - अहोरात्रशतं ॥ ६८ ।। आनते प्राणते च प्रत्येकमुत्कर्षत उपपातविरहकालः सङ्ख्येया मासाः केवलमानतापेक्षया प्राणते प्रभूता वेदितव्याः, ते च वर्षादर्वागेव, तथा आरणे अच्युते च प्रत्येकं सङ्ख्येयानि वर्षाणि, नवरमत्राप्यारणापेक्षयाऽच्युते प्रभूतानि तानि च वर्षशतादर्वागेव, अतः परं ग्रैवेयकेषूत्कर्षत उपपातविरहकालं वक्ष्ये ॥ ६९ ॥ प्रतिज्ञातमेवाह - 'हिट्टिमे 'त्यादि, त्रिष्वपि अधस्तनमध्यमोपरितनयैवेयकत्रिकेषु यथासङ्ख्येन सङ्ख्येयानि वर्षशतानि वर्षसहस्राणि वर्षलक्षाणि च विज्ञेयानि, तथाहि - अधस्तनयैवेयकत्रिके उत्कृष्ट उपपातविरहकालः सङ्ख्येयानि वर्षशतानि तानि च वर्षसहस्रादारतः, मध्यमत्रैवेयकत्रिके सङ्ख्येयानि वर्षसहस्राणि तानि च वर्षलक्षादर्वाक्, उपरितनयैवेयकत्रिके सङ्ख्येयानि वर्षलक्षाणि तानि च वर्षकोट्या आरतो द्रष्टव्यानि, अन्यथा कोटीग्रहणमेव कुर्यादित्येवं सर्वत्र भावनीयं, इयं च व्याख्या हरिभद्रसूरिकृत सङ्ग्रहणीटीकानुसारतः, अन्ये तु सामान्येनैव व्याचक्षत इति ॥ ७० ॥ साम्प्रतमनुत्तरविमानेषु उपपातविरह कालमानमाह - 'पलिये 'त्यादि, विजयादिषु - विजयवैजयन्तजयन्तापराजितरूपेषु चतुर्षु विमानेषूत्कृष्ट उपपातविरहकालोऽद्धापल्योपमासङ्ख्येयभागः, तुशब्दस्यानुक्तसमुच्चयार्थत्वात्सर्वार्थसिद्धे पल्योपमस्य सङ्ख्येयो भागः, तथा च प्रज्ञापना - 'सव्वसिद्धदेवा णं भंते ! केवइकालं विरहिया उववाएणं पन्नता ?, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं पलिओवमस्स संखेज्जइभाग" मिति, जघन्यतः पुनः सर्वेष्वपि — सनत्कुमारादिष्वनुत्तरान्तेषु उपपातविरहकाल एकः समय इति १९९ ॥ ७१ ॥ सम्प्रति 'उबट्टणाए विरहो'त्ति द्विशततमं द्वारमाह
उववायविरहकालो एसो जह वण्णिओ य देवेसु । उङ्घट्टणावि एवं सधेसिं होइ विन्नेया ॥ ७२ ॥ उपपतनमुपपातः-तदन्यगतिकानां सत्त्वानां देवत्वेनोत्पादः तस्य विरहकाल :- अन्तरकालः एषः - चतुर्विंशतिमुहूर्तादिक उत्कृष्टो जघन्यतश्च यथा देवेषु प्रागुपवर्णितः एवं- अनेनैव प्रकारेण सर्वेषां देवानामुद्वर्तनाऽपि विज्ञेया, तद्यथा - भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानदेवानामुत्कृष्ट उद्वर्तनाविरह कालश्चतुर्विंशतिर्मुहूर्ता:, सनत्कुमारे नव दिनानि विंशतिश्च मुहूर्ताः माहेन्द्रे द्वादश दिनानि दश मुहूर्ताः ब्रह्मलोके सार्धा द्वाविंशतिर्दिनाः लान्तके पञ्चचत्वारिंशद्दिनाः शुक्रे अशीतिर्दिनाः सहस्रारे दिनशतं आनतप्राणतयोः सङ्ख्येया मासाः आरणाच्युतयोः सङ्ख्येयानि वर्षाणि अधस्तनेषु त्रिषु प्रैवेयकेषु सङ्ख्येयानि वर्षशतानि मध्यमेषु त्रिषु सवेयानि वर्षसहस्राणि उपरितनेषु त्रिषु सङ्ख्येयानि वर्षलक्षाणि विजयादिषु चतुर्षु पल्योपमासत्येयभागः सर्वार्थसिद्धे च पुनः पल्योपमसत्येयभागः, जघन्यतः पुनः सर्वेषामप्युद्वर्तनाविरहकाल एकः समय इति २०० ॥ ७२ ॥ इदानीं 'इमाण संख' येकोत्तरद्विशततमं द्वारमाह
एक्को व दो व तिन्निव संखमसंखा य एगसमएणं । उववज्जंतेवइया उद्यहंतावि एमेव ॥ ७३ ॥ भवनवास्यादिषु प्रत्येकमेकस्मिन् समये जघन्यतः एको द्वौ वा त्रयो वा उत्पद्यन्ते, उत्कर्षतः सङ्ख्याता असङ्ख्याता वा, केवलं सहखारादूर्द्ध सर्वत्रोत्कर्षतः सङ्ख्याता एव वक्तव्याः नासङ्ख्याताः, यतो मनुष्या एव सहस्रारादूर्द्ध गच्छन्ति न तिर्यचो, मनुष्याच सङ्ख्याता एव, 'उबट्टंतावि एमेव' त्ति उद्वर्तमाना अपि सन्तो भवनपतिव्यन्तरादिभ्य इत्थमेवोद्वर्तन्ते, ते च जधन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सङ्ख्याता असङ्ख्याता वा यावत्सहस्रारकल्पः, सहस्रारकल्पादूर्द्धमुत्कर्षतः सङ्ख्याता एव च्यवन्ते, आनतादिच्युता ि मनुष्येष्वेवागच्छन्ति, न तिर्यक्षु, मनुष्याच सङ्ख्याता एवेति २०९ ॥ ७३ ॥ इदानीं 'जम्मि एयाण गइति द्व्युत्तरद्विशततमं द्वारमाहपुढवी आउवणस्स गन्भे पज्जत्तसंखजीवीसुं । सग्गनुयाण वासो सेसा पडिसेहिया ठाणा ॥७४॥ बायरपजत्तेसुं सुराण भूदगवणेसु उप्पत्ती । ईसाणंताणं चिय तत्थवि न उबट्टगार्णपि ॥ ७५ ॥ आणयपभिर्हितो जाणुत्तरवासिणो चवेऊणं । मणुएसुं चिय जायइ नियमा संखिज्जजीविसुं ॥७६॥ स्वर्गात्–देवोत्पादस्थानाच्युतानां सामान्येन भवनपतिव्यन्तरंज्योतिष्कवैमानिकानां देवानां वासो - वसनमुत्पत्तिरित्यर्थः पृथिवीकाये अप्काये वनस्पतिकाये तथा गर्भजेषु पर्याप्तेषु सङ्ख्यातवर्षजीविषु तिर्यग्मनुष्येषु भवति, शेषाणि पुनः स्थानानि - तेजस्कायवायुकायद्वित्रिचतुरिन्द्रियास यातायुष्कसम्मूर्छिमा पर्याप्ततिर्यग्नरदेवनारकरूपाणि प्रतिषिद्धानि तीर्थकरगणधरैः ॥ ७४ ॥ अत्रैव विशेषमाह – 'बायरे': त्यादिगाथाद्वयं, पृथिव्युदकप्रत्येक वनस्पतिष्वपि बादरपर्याप्तेष्वेव सुराणां देवानामुत्पत्तिः, न पुनः सूक्ष्मपृथिव्यप्कायिकेषु साधारणवनस्पतिषु अपर्याप्तेषु बादरपृथिव्यप्प्रत्येक वनस्पतिष्वेवेति, तत्रापीशानान्तानामेव देवानामेकेन्द्रियेषूत्पत्तिः न तूगानां सनत्कुमारादीनां, ते हि पश्चेन्द्रियतिर्यङ्मनुष्येष्वेवोत्पद्यन्ते, तथा आनतप्रभृतिभ्यः - आनतकल्पदेवानारभ्य यावदनुत्तरवासिनो देवा: स्वस्थानाच्युत्वा नियमतः सङ्ख्यातवर्षायुष्केषु मनुष्येष्वेव जायन्ते, नैकेन्द्रियेषु नापि तिर्यविति भावः २०२ ॥ ७५ ॥ ७६ ॥ इदानीं 'जतो आगई एसिं'ति त्र्युत्तरद्विशततमं द्वारमाह
227