SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ द्रष्टव्यं, प्रथमां-रत्नप्रभाख्यां पृथिवीं यावत्, रत्नप्रभायाः पृथिव्याः सर्वाधस्तनं भागं यावदुत्कृष्टतोऽवधिना पश्यतः, सनत्कुमारमाहेन्द्राविन्द्रौ द्वितीयां - शर्कराप्रभां पृथिवीं यावत्, शर्कराप्रभायाः पृथिव्या अधस्तनं सर्वान्तिमं चरमं भागं यावदित्यर्थः, एवमुत्तरत्रापि भावनीयं ब्रह्मलोकलान्तको तृतीयां - वालुकाप्रभां यावत्, शुक्रसहस्रारौ चतुर्थी पद्मप्रभां यावत्, तथा आनतप्राणतकल्पयर्देवाः- इन्द्रतत्सामानिकादयः पञ्चमीं पृथिवीं-धूमप्रभां यावदवधिना पश्यन्ति, आरणाच्युतदेवा अपि तामेव पञ्चमीं पृथ्वीं यावत्, तथा आनतप्राणतदेवेभ्य आरणाच्युतदेवास्तामेव विशुद्धतरां बहुपर्यायां च तत्राप्यानतदेवेभ्यः प्राणतदेवाः आरणदेवेभ्यश्चाच्युतदेवाः सविशेषां पश्यन्ति, उत्तरोत्तरदेवानां विमलविमलतरावधिज्ञानसद्भावात् एवं प्रागुत्तरत्र च सर्वत्र भावनीयं, तथा अघस्तनमध्यमत्रैवेयकाः 'आधेये आधारोपचारात्' तन्निवासिनो देवाः षष्ठीं तमः प्रभां पृथिवीं यावत्पश्यन्ति, उपरितनमैवेयकवासिनो देवाः सप्तमीं पृथिवीं यावत्, अनुत्तरविमानवासिनस्तु देवाः सम्भिन्नां परिपूर्णां लोकनाड - लोकमध्यवर्तिनीं त्रसनाडीमधस्तादवधिना पश्यन्ति, उक्तं च तत्त्वार्थभाष्ये – “अनुत्तरविमानवासिनस्तु कृत्स्नां लोकनालि पश्यन्ती”ति, अन्ये तु स्वविमानध्वजादूर्द्धमदर्शनात् किश्विदूनां लोकनाडीं पश्यन्तीत्याहुः, तदेवमधस्तादवधिविषयभूतं क्षेत्रमुक्तं ॥ ६१ ॥ ६२ ॥ ६३ ॥ सम्प्रति तदेव तिर्यगूर्द्ध चाह - 'एरसि' मित्यादि, एतेषां - शक्रेशानादिदेवानां तिर्यक् - तिरश्रीनमवधिविषयं क्षेत्रमसङ्ख्येया द्वीपाः सागराश्र, असङ्ख्यावान् द्वीपानसङ्ख्यातांश्च समुद्रानवधिना तिर्यक्पश्यन्तीत्यर्थः, केवलमेतदेव द्वीपसमुद्रासयेयकं 'उवरिमया' इति उपर्युपरिवर्तिकल्पवासिनो देवा बहुकत्तरं, उपलक्षणमेतत् बहुकतमं च तिर्यगवधिना पश्यन्ति, उपर्युपरिदेवलोकनिवासिनां विशुद्धविशुद्धतरावधिज्ञानसद्भावात्, ऊर्द्ध पुनः सर्वेऽपि शक्रादयो देवाः स्वकल्पस्तूपादीन् – स्वस्वविमान चूलाध्वजादिकं यावत्पश्यन्ति न परतः, तथा भवस्वाभाव्यात्, जघन्यतः पुनरमी सर्वेऽपिं सौधर्मादयो ऽनुत्तरविमानवासिपर्यन्ता अङ्गुलासङ्ख्येयभागमात्रं क्षेत्रं पश्यन्ति, तथा चावश्यक चूर्णिः -- " वेमाणिया सोहम्माओं आरम्भ जाव सव्वहसि - गा देवा ताव जहन्त्रेण अंगुलस्स असंखेज्जइभागं ओहिणा जाणंति पासंति,” नन्वङ्गुलासत्येयभागमात्रक्षेत्रप्रमितोऽवधिः सर्व जघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव न शेषेषु, यदुक्तं – 'उक्कोसो मणुपसु मणुस्सतेरिच्छएसु य जहन्नो । इति [ उत्कृष्टो मनुष्येषु मनुष्यतिर्यक्षु च जघन्यः ] तत्कथमिह वैमानिकानां सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवघिः सम्भवति, स च सर्वजघन्योऽपि कदाचिदवाप्यते, उपपातानन्तरं तु देवभवप्रत्ययजः, ततो न कदाचिद्दशेषः, यदाह जिनभद्रगणिक्षमाश्रमणः — “वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ । उववाओ परभविओ तब्भवजो होइ तो पच्छा ॥ १ ॥ [ वैमानि - कानामङ्गुलासंख्यभागो जघन्यतो भवति । औपपातिकः ( उपपाते) पारभविकः तद्भवजो भवति तत् पश्चात् ॥ १ ॥ ] पारभविकत्वाचायं सूत्रकृता नोक्त इति ॥ ६४ ॥ उक्तं वैमानिकानामधस्तिर्यगूर्द्ध चावधिक्षेत्रं, अथ सामान्यतः शेषदेवानामाह - 'संखेज्जेत्यादि, देवानां—भवनपतिव्यन्तरज्योतिष्काणामर्धसागरोपमप्रमाणे किश्विदूनायुषि सति संख्येयान्येव योजनानि अवधिपरिच्छेद्यक्षेत्रं, ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनः असत्येयानि योजनानि, केवलमायुर्वृद्ध्या योजनासङ्ख्यातकस्यापि वृद्धिर्वाच्या, जघन्यं तु पुनरवधिक्षेत्रं पञ्चविंशतिर्योजनानि तानि च येषां सर्वजघन्यं - दशवर्षसहस्रप्रमाणं आयुस्तेषामेव भवनपतिव्यन्तराणां द्रष्टव्यानि न शेषाणां, आह च भाष्यकृत् - "पणवीसजोयणाई दसवाससहस्सिया ठिई जेसि' मिति [ पञ्चविंशतिर्योजनानि दशवर्षसाहस्रिका स्थितिर्येषां ] ज्योतिष्काः पुनरसङ्ख्येयस्थितिकत्वाज्जघन्यतोऽपि सङ्ख्येययोजनप्रमितान् सङ्ख्येयान् द्वीपसमुद्रानवधिज्ञामतः पश्यन्ति, उत्कर्षतोऽपि तानेव, केवलमधिकतरान् उक्तं च प्रज्ञापनायाम् – “जोइसिया णं भंते! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, 'गोयमा ! जहन्नेवि संखेज्जे दीवसमुद्दे उक्कोसेणवि संखेज्जे दीवसमुद्दे” इति ॥ ६५ ॥ अथ नारकतिर्यङ्नरामराणां मध्ये कस्य कस्यां दिशि प्रभूतोऽवधिरिति प्रतिपादयन्नाह – 'भवणे 'त्यादि, भवनपतीनां व्यन्तराणां चावधिरूर्द्ध बहुकः - प्रभूतः, शेषासु च दिक्षु स्वल्पविषय एवावधिः, एवमग्रेऽपि भावनीयं, शेषाणां तु वैमानिकदेवानां पुनरधः प्रभूतोऽवधिः ज्योतिष्कनारकाणां तिर्यक्प्रभूतः, तथा तिर्यग्मनुष्याणां सम्बंध्यवधिरौदारिकावधिरुच्यते अयं तु चित्रो - नानाप्रकारः, केषाञ्चिदूर्द्ध बहुः अन्येषां त्वधः परेषां तु तिर्यक् केषाञ्चित् तुल्य इति भावः १९८ ॥ ६६ ॥ सम्प्रति 'उप्पत्तीए विरहो'त्ति नवनवत्यधिशततमं द्वारमाह भवणवणजोइसोहंमीसाण चउवीसई मुहुत्ता उ । उक्कोस विरहकालो सर्व्वसु जहन्नओ समओ ॥ ६७ ॥ नव दिण वीस मुहुत्ता बारस दस चेव दिण मुहुत्ता उ । बावीसा अद्धं चिय पणयाल असीइ दिवससयं ॥ ६८ ॥ संखिज्ज मास आणयपाणय तह आरणचुए वासा । संखेज्जा विनेया विजेतुं अओ वोच्छं ॥ ६९ ॥ हिडिमे वाससयाई मज्झिम सहसाई उबरिमे लक्खा । संखिज्जा विन्नेया जहसंखेणं तु तीसुंपि ॥ ७० ॥ पलिया असंखभागा उक्कोसो होइ विरहकालो उ । विजयासु निद्दिट्ठो सधेसु जहन्नओ समओ ॥ ७१ ॥ 'भवणे'त्यादिगाथाचतुष्कं, इह भवनपत्यादिषु देवाः प्रायः सततमुत्पद्यन्ते कदाचिदेव त्वन्तरं तच्च सामान्येन चतुर्विधेष्वपि समुदितेषु देवेषु द्वादश मुहूर्ताः, तदनन्तरमवश्यमन्यतमस्मिन् कश्चिद्देव उत्पद्यते एव, उक्तं च - "गन्भयतिरिनरसुरनारयाण विरहो मुहुत्त बारसग” [ गर्भजतिर्यङ्नरसुरनारकाणां विरहो मुहूर्त्तानां द्वादशकं ] मिति, विशेषतस्तु भवनवासिषु व्यन्तरेषु ज्योतिष्केषु सौधर्मे 226
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy