SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ तथा आरणाच्यतयो। षु समुदितेषु नि समुदिते शतमे मुदिता गतमपि कालं न जानन्ति ॥ १॥] यास्तु मनुष्यक्षेत्राद्वहिपेषु समुद्रेषु च व्यन्तराणां नगर्यस्ता जीवाभिगमादिशात्रेभ्योऽवसेयाः, तेभ्योऽपि व्यन्तरनगरेभ्यः सवयेयगुणानि ज्योतिष्काणां-ज्योतिष्कदेवानां विमानानि ॥५०॥ सम्प्रति वैमानिकदेवविमानानां सङ्ख्यामाह-'बत्तीसे'त्यादि गाथाचतुष्कं, ब्रह्मलोकाद्-ब्रह्मलोकचरमपर्यन्तादारतः-अर्वाक्, किमुक्तं भवति ?-ब्रह्मलोकमभिव्याप्य एषा विमानसङ्ख्या भवति, तद्यथा-सौधर्म कल्पे द्वात्रिंशद्विमानानां शतसहस्राणि ईशानेऽष्टाविंशतिः सनत्कुमारे द्वादश माहेन्द्रेऽष्टौ ब्रह्मलोके चत्वारि ॥५१॥ तथा-'पंचासे'त्यादि, अत्रापि पूर्वार्धे कल्पक्रमेण सङ्ख्यापदयोजना, लान्तके पञ्चाशद्विमानानां सहस्राणि महाशुक्र चत्वारिंशत् सहस्रारे षट् सहस्राः, तथा आनतप्राणतयोयोः समुदितयोश्चत्वारि विमानशतानि, तथा आरणाच्युतयोद्धयोः समुदितयोस्त्रीणि विमानशतानि ॥५२॥ तथा-'एगारे'त्यादि,अधस्तनेषु त्रिषु प्रैवेयकेषु समुदितेषु विमानानामेकादशोत्तरं शतं मध्यमे अवेयकत्रिके समुदिते सप्तोत्तरं शतं उपरितनप्रैवेयकत्रिके समुदिते शतमेकं, सर्वान्तिमप्रतरे तु विजयादीनि पञ्चैवानुत्तरविमानानि ॥५३॥ अथ विमानानां सर्वसङ्ख्यामाह-'चुलसीई'त्यादि, अनन्तरगाथात्रयाभिहितानां विमानानामेषा सर्वसङ्ख्या-चतुरशीतिः शतसहस्राणि सप्तनवतिः सहस्राणि त्रयोविंशतिश्च विमानानीति (८४९७०२३ ) १९५ ॥ ५४॥ सम्प्रति 'देहमाणं'ति षण्णवत्यधिकशततमं द्वा भवणवणजोइसोहम्मीसाणे सत्त हुंति रयणीओ । एककहाणि सेसे दुदुगे य दुगे चउक्के य ॥१५॥ गेविजेसुं दोन्नि य एगा रयणी अणुत्तरेसु भवे । भवधारणिज्ज एसा उक्कोसा होइ नायबा ॥५६॥ सवेसुक्कोसा जोयणाण वेउविया सयसहस्सं । गेविजणुत्तरेसुं उत्तरवेउविया नत्थि ॥५७॥ अंगु लअसंखभागो जहन्न भवधारणिज पारंभे । संज्जा अवगाहण उत्तरवेउविया सावि ॥५८॥ 'भवणे त्यादिगाथाचतुष्टयं, भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानेषु देवानामुत्सेधाडलेन देहमानमुत्कर्षतः सप्त रत्नयो-हस्ता भवन्ति, शेषे द्विके द्विके द्विके चतुष्के च एकैकहानिः-एकैकहस्तविषया हानिर्वक्तव्या, तद्यथा-सनत्कुमारमाहेन्द्रयोरुत्कर्षतः षट् हस्ताः शरीरप्रमाणं ब्रह्मलोकलान्तकयोः पञ्च शुक्रसहस्रारयोश्चत्वारः आनतप्राणतारणाच्युतेषु त्रय इति, तथा अवेयकेषूत्कर्षतः शरीरप्रमाणं द्वौ रत्नी एकश्च रनिरनुत्तरेषु भवेत् , एषा च सप्तहस्तप्रमाणादिका उत्कृष्टावगाहना भवधारणीया वेदितव्या ॥ ५५ ।। ५६ ।। साम्प्रतमुत्तरवैक्रियरूपावगाहनामानमाह-सवेस' इत्यादि, भवनपत्यादिषु अच्यवदेवलोकपर्यन्तेषु सर्वेषामपि देवानामुत्तरवैक्रिया तनुरुत्कर्षतो योजनानां शतसहस्रं, योजनलक्षप्रमाणा भवतीत्यर्थः, अवेयकेषु अनुत्तरेषु च देवानामुत्तरवैक्रिया तनुर्नास्ति, सत्यामपि शक्ती प्रयोजनाभावतस्तदकरणात् , उत्तरवैक्रिय ह्यत्र गमनागमननिमित्तं परिचारणानिमित्तं वा क्रियते, न चैतेषामेतदस्तीति ।। ५७ ॥ सम्प्रति जघन्यतो भवधारणीयामुत्तरवैक्रियां चाह-'अंगुले'त्यादि, सर्वेषामपि भवनपत्यादीनां भवधारणीया-वाभाविक्यवगाहना जघन्याऽङ्गुलस्यासयेयो भागः, सा च प्रारम्भे उत्पत्तिप्रथमसमये समवसेया, उत्तरवैक्रिया पुनरवगाहना जघन्याऽङ्गलस्य सोयो भागः, पर्याप्तत्वेन तस्य तथाविधजीवप्रदेशसङ्कोचाभावात् , साऽपि प्रारम्भे उत्तरवैक्रियशरीरनिर्माणप्रथमसमये द्रष्टव्या १९६ ॥ ५८॥ साम्प्रतं 'लेसाउ'त्ति सप्तनवत्यधिकशततमं द्वारमाह किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहमीसाण तेऊलेसा मुणेयवा ॥५९॥ कप्पे सणंकुमारे माहिंदे चेव बंभलोए य । एएसु पम्हलेसा तेण परं सुक्कलेसाओ। ६० ॥ भवनपतयो व्यन्तराश्च कृष्णनीलकापोततेजोलेश्याकाः, कृष्णा नीला कापोती तैजसी चैषां लेश्या भवन्तीत्यर्थः, तत्रापि परमाधार्मिकाः कृष्णलेश्याः, तथा ज्योतिष्केषु सौधर्मेशानयोश्च देवास्तेजोलेश्याका ज्ञातव्याः, तथा सनत्कुमारमाहेन्द्रब्रह्मलोकाख्येषु त्रिषु कल्पेषु देवाः पद्मलेश्याकाः, ततो-ब्रह्मलोकात्परं-ऊर्द्ध लान्तकादिषु अनुचरविमानान्तेषु देवाः शुक्ललेश्या ज्ञातव्याः, सर्वा अपि लेश्या । यथोत्तरस्थानं विशुद्धविशुद्धतरा बोद्धव्याः, एताश्च भावलेश्याहेतवो भवस्थिताः कृष्णादिद्रव्यरूपा द्रव्यलेश्या एवेह प्रतिपत्तव्याः न भावलेश्याः, तासामनवस्थितत्वात् , नापि बाह्यवर्णरूपा, बाह्यवर्णस्य देवानां प्रज्ञापनादौ पार्थक्येनोक्तत्वात् , एतच्च नारकलेश्याद्वारे प्रागेवोक्तं, भावलेश्यास्तु देवानां प्रतिनिकायं यथासम्भवं षडपि भवन्ति, तथा च तत्त्वार्थमूलटीकायां हरिभद्रसूरि:-"भावलेश्याः षडपीष्यन्ते देवानां प्रति निकाय"मिति १९७ ॥ ५९ ॥ ६० ॥ इदानीं 'ओहिनाणं त्यष्टनवत्यधिकशततमं द्वारमाह सक्कीसाणा पढमं दोच्चं च सणंकुमारमाहिंदा । तचं च बंभलंतग सुकसहस्सारय चउत्थि ॥६१ ॥ आणयपाणयकप्पे देवा पासंति पंचमी पुढवीं। तं चेव आरणञ्चय ओहिणाणेण पासंति ॥ ६२ ।। छलुि हिटिममज्झिमगेविजा सत्तमि च उवरिल्ला । संभिन्नलोगनालिं पासंति अणुत्तरा देवा ॥ ६३ ॥ एएसिमसंखेजा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमया उर्ल्ड च सकप्पथूभाई॥६४॥ संखेजजोयणाई देवाणं अद्धसागरे ऊणे। तेण परमसंखेजा जहन्नयं पन्नवीसंत ॥६५॥ भवणवइवणयराणं उर्दु बहुओ अहो य सेसाणं। जोइसिनेरइयाणं तिरियं ओरालिओ चित्तो॥६६॥ 'सक्की'त्यादिगाथाषट, शक्रेशानौ-सौधर्मेशानकल्पेन्द्रौ उपलक्षणमेतत् इन्द्रसामानिकादयश्वोत्कृष्टायुषः, एवमन्यत्राप्युपलक्षणव्याख्यान 225
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy