________________
त्रिंशत्सागरोपमाणि, तथा सर्वार्थसिद्ध त्रयस्त्रिंशत्सागरोपमाण्यजघन्योत्कृष्टा स्थितिरिति ॥४४॥ अथ वैमानिकदेवानामेव जघन्यां स्थितिमाह-'पलिय'मित्यादि, इह यथाक्रमं पदसम्बन्धात् सौधर्मे कल्पे एक पल्योपमं ईशाने तदेव किश्चित्समधिकं जघन्या स्थितिः, तत ऊर्द्ध सनत्कुमारादिषु प्रैवेयकानुत्तरविमानावसानेषु अध:कल्पस्थिति:-अधोवर्तिनः कल्पस्य वा उत्कृष्टा स्थितिः उपर्युपरिवर्तिनि सैव
च क्रमेण तावत्प्रतिपत्तव्यं यावदेकत्रिंशदतराणि, तथाहि-यैव सौधर्म सागरोपमद्वयरूपा उत्कृष्टा स्थितिः सैक तदुपरिवर्तिनि सनत्कुमारे जघन्या, यैव चेशाने सातिरेकसागरोपमद्वयस्वरूपा उत्कृष्टा स्थितिः सैव तदुपरिवर्तिनि माहेन्द्रे जघन्या, सनकुमारोत्कृष्टस्थितिस्तु सागरोपमसप्तकलक्षणा तदुपरिवर्तिनि ब्रह्मलोके जघन्या, तथा चोक्तं प्रज्ञापनायाम्-'बंभलोए कप्पे देवाणं केवइयकालं ठिई पन्नत्ता!, गोयमा! जहनेणं सत्त सागरोवमाई"ति, तत्त्वार्थभाष्ये तु या माहेन्द्र परा स्थितिविशेषाधिकानि सप्त साग रोपमाणि सा ब्रह्मलोके जघन्या भवतीत्युक्तं, ब्रह्मलोकोत्कृष्टस्थितिस्तु दशसागरोपमात्मिका लान्तके जघन्या, लान्तकोत्कृष्टस्थितिरपि चतु देशसागरोपमरूपा महाशुक्रे जघन्या, तदुत्कृष्टस्थितिस्तु सप्तदशसागरोपमस्वरूपा सहस्रारे जघन्या, तदुत्कृष्टस्थितिः पुनरष्टादशसागरोपमलक्षणा आनते जघन्या, तदुत्कृष्टस्थितिस्त्वेकोनविंशतिसागरोपमस्वरूपा प्राणते जघन्या, तदुत्कृष्टस्थितिरपि विंशतिसागरोपमात्मिका आरणे जघन्या, तदुत्कृष्टस्थितिस्त्वेकविंशतिसागरोपमस्वरूपा अच्युते जघन्या, तदुत्कृष्टस्थितिस्तु द्वाविंशतिसागरोपमरूपा अधस्तनाधस्तन. प्रैवेयके जघन्या, एवमेकैकं सागरोपमं वर्धयता तावन्नेयं यावदनुत्तरचतुष्के-विजयवैजयन्तजयन्तापराजितरूपे एकत्रिंशत्सागरोपमाणि जघन्या, स्थितिः, सर्वार्थसिद्धे पुनर्जघन्या स्थिति स्ति, अजघन्योत्कृष्टायात्रयस्त्रिंशत्सागरोपमरूपाया एव स्थितेस्तत्रामिधानादिति ॥४५॥ सम्प्रति वैमानिकदेवीनां जघन्यामुत्कृष्टां च स्थितिमाह-'सपरी'त्यादि, इह वैमानिकदेवीनामुत्पत्तिः सौधर्मेशानयोरेव, ताश्च द्विधापरिगृहीताः कुलाङ्गना इव अपरिगृहीताश्च वेश्या इव, तत्र सपरिग्रहाणां-परिगृहीतानामितरासां च-अपरिगृहीतानां जघन्या स्थितिः सौधर्मे ईशाने च यथासयं पल्यं-पल्योपमं साधिकं च, किमुक्तं भवति?-सौधर्म परिगृहीतानां देवीनामपरिगृहीतानां च देवीनां जघन्यायुः पल्योपमं ईशाने परिगृहीतानामपरिगृहीतानां च देवीनां साधिकं पल्योपममिति, तथा सौधमें परिगृहीतानामपरिगृहीतानां (प्रन्थानं १४०००) चोत्कृष्टमायुर्यथाक्रमं सप्त पश्चाशच पल्योपमानि ईशाने नव पश्चपश्चाशच, इयमत्र भावना-सौधर्मे परिगृहीतानामुत्कृष्टमायुः सप्त पल्योपमानि अपरिगृहीतानां पञ्चाशत् , ईशाने परिगृहीतानामुत्कृष्टमायुर्नव पल्योपमानि अपरिगृहीतानां च पञ्चपश्चाश दिति १९४॥ ४६॥ सम्प्रति 'भवण'त्ति पञ्चनवत्यधिकशततमं द्वारमाह
सत्तेव य कोडीओ हवंति धावत्तरी सयसहस्सा । एसो भवणसमासो भवणवईणं वियाणिज्जा ॥४७॥ चउसट्ठी असुराणं नागकुमाराण होइ चुलसीई । वायत्तरि कणगाणं वाउकुमाराण छन्नउई ॥४८॥ दीवदिसाउदहीणं विजुकुमारिंदणियअग्गीणं । छण्हपि जुयलाणं बावत्तरिमो सयसहस्सा ॥ ४९ ॥ इह संति वणयराणं रम्मा भोमनयरा असंखिजा । तत्तो संखिजगुणा जोइसियाणं विमाणाओ॥५०॥ बत्तीसष्ठावीसा पारस अट्ट य चउरो सयसहस्सा। आरेण बंभलोया विमाणसंखा भवे एसा ॥५१॥ पंचास चत्त छच्चेव सहस्सालंत सुक्क सहस्सारे । सय चउरो आणयपाणएसु तिन्नारणञ्चयए ॥५२॥ एकारसुत्तरं हेहिमेस सत्तुत्तरं च मजि सयमेगं उवरिमए । पंचेव अणुत्तरविमाणा ॥५३॥ चुलसीई सयसहस्सा सत्ताणउई भवे सहस्साई। तेवीसं च विमाणा विमाणसंखा भवे एसा ॥५४॥ भवनवासिनां देवानां दशस्वपि निकायेषु सम्पिण्ड्य चिन्यमानानि सर्वाण्यपि भवनानि सप्त कोटयो द्वासप्ततिश्च शतसहस्राणिलक्षाः भवन्ति ७७२००००० एष भवनपतीनां भवनसमासो-भवनसर्वसङ्ख्या इति विजानीयात् , एतानि च अशीतिसहस्राधिकलक्षयोजनबाहल्याया रत्नप्रभाया अध उपरि च प्रत्येकं योजनसहनमेकं मुक्त्वा शेषेऽष्टसप्ततिसहस्राधिकलक्षयोजनमाने मध्यभागेऽवगन्तव्यानि, अन्ये त्वाहुः-नवतेयोजनसहस्राणामधस्ताद्भवनानि, अन्यत्र चोपरितनमधस्तनं च योजनसहस्रं मुक्त्वा सर्वत्रापि यथासम्भवमावासा इति ॥४७॥ सम्प्रति भवनवासिनामवे प्रतिनिकायं भवनसङ्ख्यामाह-चउ' इत्यादि, असुराणां-असुरकुमाराणां दक्षिणोत्तरदिग्भाविनां सर्वसङ्ख्यया भवनानि चतुःषष्टिः शतसहस्राणि-उक्षा भवन्ति, एवं नागकुमाराणां चतुरशीतिर्लक्षाः कनकानां-सुवर्णकुमाराणां द्विसप्ततिर्लक्षाः वायुकुमाराणां षण्णवतिलक्षाः द्वीपकुमारदिक्कुमारोदधिकुमारविद्युत्कुमारस्त नितकुमाराग्निकुमाराणां षण्णामपि दक्षिणोत्तरदिग्वर्तिलक्षणयुग्मरूपाणां प्रत्येकं षट्सप्ततिः षट्सप्ततिलेक्षा भवन्ति भवनानां, एषां च सर्वेषामप्येकत्र मीलने प्रागुक्ताः सङ्ख्या भवन्ति ॥४८॥ १९॥ सम्प्रति व्यन्तरनगरवक्तव्यतामाह -'इंहे'त्यादि, इह-तिर्यग्लोके रत्नप्रभायाः प्रथमे योजनसहने रत्नकाण्डरूपे अध उपरि च प्रत्येकं योजनशतविरहिते वनचराणां-यन्तराणां रम्याणि-रमणीयानि भूमौ भवानि भौमानि-भूम्यन्तर्वर्तीनि नगराण्यसङ्ख्यातानि सन्ति, रम्यता चैतेषु नित्यमुदितैय॑न्तरैर्गतस्यापि कालस्यावेदनात् , यदाह-"तहिं देवा वंतरिया वरतरुणीगीयवाइयरवेणं । निचं सुहिया पमुइया गयंपि कालं न याणंति ॥१॥" [वत्र देवा व्यन्तरा वरतरुणीगीतवादित्ररवेण । नित्यं सुखितप्र
224