________________
त्वात् , अन्यथा सर्वमव्यवस्थया भवेत् , न चैतद् दृष्टमिष्टं वा, अपिच-मुदादिपक्तिरपि न कालमन्तरेण लोके भवन्ती दृश्यते, किन्तु कालक्रमेण, अन्यथा स्थालीन्धनादिसामग्रीसम्पर्कसम्भवे प्रथमसमयेऽपि मुद्गादिपक्तेर्भावप्रसङ्गः, न च तद्भवति, तस्माद्यत्कृतकं तत्सर्व कालकृतमिति, यदाहुः–'न कालव्यतिरेकेण, गर्भबालशुभादिकम् । यत्किचिजायते लोके, तदसौ कारणं किल ॥ १॥ किंच कालाहते नैव, मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि, ततः कालादसो मता ॥ २॥" द्वितीयश्व भङ्गोऽयं-अस्ति कालतः, एवमुक्तप्रकारेण परतोऽपि द्वौ भङ्गो कर्तव्यो, यथा-अस्ति जीवः परतो नित्यः कालतः, अस्ति जीवः परतोऽनित्यः कालतः, सर्वेषामपि हि पदार्थानां परपदार्थस्वरूपापेक्षया स्वस्वरूपपरिच्छेदः, यथा दीर्घत्वापेक्षया इस्वत्वस्य इखत्वापेक्षया च दीर्घत्वस्य, इत्येवमेवात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वतः, पूर्वेण च स्वत एव इति पदलब्धेन भङ्गद्विकेन युक्तावेतौ भङ्गौ चत्वारो भवन्ति, ते च कालपदेन लब्धाः, एवमनेन प्रकारेण स्वभावप्रमुखा अपि-स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुरश्चतुरो विकल्पान प्राप्नुवन्ति, तथाहि-अस्ति जीवः स्वतो नित्यः स्वभावतः १ अस्ति जीव: स्वतोऽनित्यः स्वभावतः २ अस्ति जीवः परतो नित्यः स्वभावतः ३ अस्ति जीवः परतोऽनित्यः स्वभावतः ४, ते हि स्वभाववादिन एवमाहुः-इह सर्वे भावाः स्वभाववशादुपजायन्ते, तथाहि-मृदः कुम्भो भवति न पटादिः तन्तुभ्योऽपि पट उत्पद्यते न कुम्भादिः, एतच्च प्रतिनियतं भवनं तथास्वभावतामन्तरेण न घटते, तस्मात्सकलमिदं स्वभावकृतमवसेयं, अन्यच्च-आस्तामन्यत्कार्यजातं, इह मुद्गादिपक्तिरपि न स्वभावमन्तरेण भवितुमर्हति, तथाहि-स्थालीन्धनकालादिसमप्रसामग्रीसम्भवेऽपि न काटुकमुगाना पाक्तरुपलभ्यते, तसााद्यद्यद्भावे भवति यदभावे च न भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति स्वभावकृता मुद्पक्तिरप्येष्टव्या, ततः सकलभेवेदं वस्तुजातं स्वभावहेतुकमवसेयमिति । तथा अस्ति जीवः स्वतो नित्यो नियतितः १ तथाऽस्ति जीवः स्वतोऽनित्यो नियतितः २ अस्ति जीवः परतो नित्यो नियतितः ३ अस्ति जीवः परतोऽनित्यो नियतितः ४, नियतिवादिनो ह्येवमाहुः-नियति म तत्त्वान्तरमस्ति यदशादेते भावाः सर्वेऽपि नियतेनैव रूपेण प्रादुर्भवन्ति, नान्यथा, तथाहि-यद्यदा यतो भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते, अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत् , नियामकाभावात् , तत एवं कार्यनयत्यतः प्रतीयमानामेनां नियति को नाम निराकर्तुमलं ?, तथा चोक्तम्-"नियतेनैव रूपेण, सर्वे भावा भवन्ति यत् । ततो नियतिजा ह्येते, तत्स्वरूपानुभेदतः ॥ १॥ यद्यदैव यतो यावत् , तत्तदैव ततस्तथा । नियतं जायते न्यायात्, क एनां बाधितुं क्षमः ? ॥ २ ॥” तथा अस्ति जीवः स्वतो नित्य ईश्वरतः १ अस्ति जीवः स्वतोऽनित्य ईश्वरतः २ अस्ति जीवः परतो नित्य ईश्वरतः ३ अस्ति जीवः परतोऽनित्य ईश्वरतः ४, ईश्वरवादिनो हि सर्व जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहजसिद्धज्ञानवैराग्यधर्मेंश्वर्यरूपचतुष्टयं प्राणिनां च स्वर्गापवर्गयोः प्रेरकमिति, तदुक्तम्-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ १॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् , स्वर्ग वा श्वभ्रमेव वा ॥ २॥” इत्यादि । तथा अस्ति जीवः स्वतो नित्य आत्मनः १ अस्ति जीवः स्वतोऽनित्य आत्मनः २ अस्ति जीवः परतो नित्य आत्मनः ३ अस्ति जीवः परतोऽनित्य आत्मनः ४, आत्मवेदिनो हि विश्वपरिणतिरूपमात्मानमेवैकं प्रतिपन्नाः, यत उक्तम्-'एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥ तथा "पुरुष एवेदं सर्व यद् भूतं यच्च भाव्य"मित्यादि, तदेवं पञ्चमिरपि चतुष्ककैमिलितैर्विशतिर्भङ्गा जाताः, एते च जीवपदेन प्राप्ताः, एवमजीवादिमिरप्यष्टभिः पदैः प्रत्येकं विंशतिर्विकल्पाः प्राप्यन्ते, यथा अस्त्यजीवः स्वतो नित्यः कालत इत्यादि सर्व भावनीयं, इत्यतो विंशतिर्नवमिर्गुणिता शतमशीत्युत्तरं क्रियावादिनां भवति ॥ ९१ ॥ ॥ ९२ ।। ९३ ॥ इदानीमक्रियावादिनां चतुरशीतिसङ्ख्यभङ्गानयनोपायमाह-'इहे'त्यादिगाथाद्वयं, इह अक्रियावादिभेदानयनप्रक्रमे जीवादीनि पूर्वोक्तानि पुण्यपापवर्जितानि सप्त पदानि परिपाट्या पट्टिकादौ स्थाप्यन्ते, तेषां च जीवादिपदानामधोभागे प्रत्येकं स्वपरशब्दद्विकं स्थाप्यते, स्वतः परत इति द्वे पदे न्यस्येते इत्यर्थः, असत्त्वादात्मनो नित्यानित्यविकल्पो न स्तः, तद्धर्मिसिद्ध्यापत्तेः, तस्यापि च-खपरशब्दद्विकस्याधस्तात्कालयदृच्छारूपपदद्वयसमेतमेतन्नियतिस्वभावेश्वरात्मलक्षणं पदचतुष्कं लिख्यते, कालयदृच्छानियतिखभावेश्वरात्मस्वरूपाणि षट् पदानि स्थाप्यन्त इत्यर्थः, इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिन एव, न केचिदपि क्रियावादिनः, ततः प्राग्यदृच्छा नोपन्यस्ता ॥ ९४ ॥ ९५ ॥ अथ विकल्पामिलापमाह-'पढमे'त्यादिगाथात्रयं, नास्ति जीवः स्वतः कालत इति प्रथमो भङ्गः, तदनु नास्ति जीवः परतः कालत इति द्वितीयो भङ्गः, एतौ द्वौ च भङ्गो कालेन लब्धौ, एवं यदृच्छादिभिरपि पञ्चमिः पदैः प्रत्येकं द्वौ द्वौ विकल्पो प्राप्यते, सर्वेऽपि मिलिता द्वादश, अमीषां च विकल्पानामर्थः प्राग्वद्भावनीयः, नवरं यदृच्छात इति-यदृच्छावादिनां मते, अथ के ते यदृच्छावादिनः?, उच्यते, इह ये भावानां संतानापेक्ष्या न प्रतिनियतं कार्यकारणभावमिच्छन्ति किंतु यदृच्छया ते यहच्छावादिनः, तथा च एत एवमाहुः-न खलु प्रतिनियतो वस्तूनां कार्यकारणभावः, तथाप्रमाणेनाग्रहणात्, तथाहि-शालकादपि शालूको जायते गोमयादपि, अग्नेरप्यग्निर्जायते अरणिकाष्ठादपि, जायते धूमादपि धूमोऽग्नीन्धनसंपर्कादपि, कन्दादपि जायते कदली बीजादपि, वटादयोऽपि बीजादुपजायन्ते शाखैकदेशादपि, ततो न प्रतिनियतः कचिदपि कार्यकारणभाव इति यदृच्छातः क्वचिदपि किंचिद्भवतीति प्रतिपत्तव्यं, न खल्वन्यथा वस्तुसद्धावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिक्लेशयन्ति, एते च द्वादश विकल्पा जीव
231