Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
याओ चउन्भेया ४ ॥ ३३ ॥ अहव तिवेयअवेयगसरूवओ वा हवंति चत्तारि ४ । एगबितिचउपणिदियरूवा पंचप्पयारा ते ॥ ३४ ॥ एए चिय छ अनिंदियजुत्ता ६ अहवा छ भूजलग्गिनिला । वणतससहिया ६ छप्पिय ते सत्त अकायसंवलिया ॥ ३५ ॥ अंडय १ रसय २ जराउय ३ संसेयय ४ पोयया ५ समुच्छिमया ६ । उब्भिय ७ तहोववाइय ८ भेएणं अट्ठहा जीवा ॥ ३६ ॥ पुढवाह पंच बितिचउपणिदि ४ जुत्ता य नवविहा ९ हुंति । नारयनपुंस तिरिनरतिवेय सुरथीपुमेवं वा ॥ ९ ॥ ३७ ॥ पुढवाइ अट्ठ असन्नि सन्नि दस ते ससिद्ध इगदसउ ११ । पुढवाइया तसंता अपज्जपज्जन्त्त बारसहा ॥ ३८ ॥ बारसवि अतणुजुत्ता तेरस मुहुमियरेगिंदिबेदी । तिय च असन्नि सन्नी अपज्जपज्जत्त चउदसहा ॥ ३९ ॥ चउदसवि अमलकलिया पनरस तह अंडगाइ जे अट्ठ । ते अपज्जन्तगपजत्तभेयओ सोलस हवंति ॥ ४० ॥ सोलसवि अकायजुया सतरस नपुमाइ नव अपजत्ता । पज्जन्त्ता अट्ठारसं अकम्मजुअ ते इगुणवीसं ॥ ४१ ॥ पुढवाइ दस अपज्जा पज्जत्ता हुंति वीस संखाए । असरीरजुएहिं तेहिं वीसई होइ एगहिया ॥ ४२ ॥ सुहृमियर भूजलानलवाडवणाणतं दस सपत्तेआ । बितिच असन्निसन्नी अपज्जपज्जन्त बत्तीसं ॥ ४३ ॥ तह नरयभवणवणजोइ कप्प गेवेज्जऽणुत्तरुप्पन्ना । सन्तदसऽडपणबारस नवपणछप्पन्नवेउवा ॥ ४४ ॥ हुति अडवन्नसंखा ते नरतेरिच्छसंगया सधे । अपजत्तपजत्तेहिं सोलसुत्तरसयं तेहिं ॥ ४५ ॥ सन्निदुगहीण बत्तीससंगयं तं सयं छयत्तालं । तं भवाभवगदूरभव आसन्नभवं च ॥ ४६ ॥ संसारनिवासीर्ण जीवाण सयं इमं छयत्तालं । अप्पं व पालियां सिवसुहकंखीहिं जीवेहिं ॥ ४७ ॥ सिरिअम्मएवमुणिवइविणेयसिरिनेमिचंदसूरीहिं । सपरहियत्थं रइयं कुलयमिणं जीवसंखाए ॥ ४८ ॥
नत्वा- प्रणम्य नेमिं - द्वाविंशतीर्थकरं एकादिकां - एकद्वित्र्यादिकां जीवसङ्ख्यां भणामि - कथयामि समयात् - सिद्धान्तात् न पुनः स्वमनीषिकयेति । तत्र चेतनायुक्ताः - चैतन्योपेता जीवा एके-एकविधाः, उपयोगलक्षणत्वाज्जीवानां, सिद्धसंसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्, सततावबोधाभावे च जीवत्वप्रसङ्गात्, तथा भवस्थसिद्धभेदेन द्विधा जीवाः, तत्र भवस्थाः - संसारवर्तिनः सिद्धा - मुक्तिपदप्राप्ताः ॥ ३२ ॥ अथवा त्रसस्थावरभेदेन द्विधा जीवाः, तत्र त्रसा - द्वीन्द्रियादयः स्थावराः - पृथिव्यादय एकेन्द्रियाः, तथा त्रिविधाः स्त्रीपुंनपुंसकभेदतः, इह रूयादयः ख्यादिवेदोदयात् योन्यादिसंगता गृह्यन्ते, तथा चोक्तम्- “यो निर्मृदुत्वमस्थैर्य, मुग्धताऽबलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते || १ || मेहनं खरता दाढ, शौण्डीर्य श्मश्रु धृष्टता । स्त्रीका मितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३ ॥” तथा नारकतिर्यरामरगतिभेदतश्चतुर्भेदा जीवाः ॥ ३३ ॥ अथवा त्रिवेदावेदस्वरूपतो भवन्ति चतुर्विधा जीवाः, वाशब्दः समुच्चये, तत्र त्रिवेदास्त्रयः - पुरुषाः स्त्रियो नपुंसकाश्च, न विद्यते वेद उपशमितत्वात् क्षपितत्वाद्वा येषां ते अवेदा:- अनिवृत्तिबादरादयो भवस्थाः सिद्धाश्च । तथा एकद्वित्रिचतुःपञ्चेन्द्रियभेदतः पञ्चप्रकारास्ते जीवाः ॥ ३४ ॥ एत एव एकेन्द्रियादयः पञ्चप्रकारा जीवा अनिन्द्रिययुक्ताः षड्विधा भवन्ति, न विद्यन्ते इन्द्रियाणि - रपर्शनादीनि येषां तेऽनिन्द्रियाः- सिद्धाः, अथवा पृथिव्यप्तेजोवायुवनस्पतित्रसभेदतः षड्विधा जीवाः, तथा पूर्वोक्ता एव पृथिव्यादयः षडिधा जीवा अकायसहिताः सप्तविधा भवन्ति, न विद्यते कायः - पश्चप्रकारमपि शरीरं येषां तेऽकायाः –सिद्धाः ।। ३५ ।। अण्डजादिभेदतोऽष्टविधा जीवा भवन्ति, तत्र अण्डाज्जाता अण्डजाः - पक्षिगृहको किलामत्स्य सर्पादयः रसाज्जाता रसजाः - तक्रारनालदधितीमनादिपु पायुकृम्याकृतयोऽतिसूक्ष्मा जीवविशेषाः, जरायो:-गर्भवेष्टनाज्जातास्तद्वेष्टिता इत्यर्थः जरायुजा - मनुयगोमहिष्यादयः, संस्वेदाज्जाताः संस्वेदजा - मत्कुणयूकाशतपदिकादयः, पोतं वस्त्रं तद्वज्जाताः पोतादिव बोहिस्थाज्जाता अजरायुवेष्टिता इत्यर्थ: पोतजा - हस्तिवल्गुली चर्म जलूकाप्रभृतयः, संमूर्च्छन निर्वृत्ताः संमूर्छिमाः - कृमिपिपीलिकामक्षिकाशालिकादयः, उद्भेदाद्-भूमिभेदाज्जाता उद्भेदजाः - पतङ्गखञ्जनकादयः, उपपाते - देवशयनीयादौ भवा औपपातिकाः- देवा नारकाश्चेति ॥ ३६ ॥ पृथिव्यादयः - पृथिव्यतेजोवायुवनस्पतयः पञ्च द्वित्रिचतुःपञ्चेन्द्रिययुक्ता नवविधा जीवा भवन्ति, अथवा नारका नपुंसकत्वेनैकविधाः तिर्यश्वो नराश्च त्रिवेदत्वेन - स्त्रीपुंनपुंसक वेदत्वेन प्रत्येकं त्रिभेदाः सुराश्च स्त्रीपुरुषभेदत्वेन द्विविधाः इत्येवं नवविधा जीवाः ।। ३७ ।। पृथिव्यादयः - पृथिव्य प्तेजोवायुवनस्पति द्वित्रिचतुरिन्द्रियलक्षणा अष्टौ जीवाः असंज्ञिसंज्ञिपश्चेन्द्रियेण सहिता दशविधा भवन्ति, तथा त एव दशविधा जीवाः ससिद्धा: - सिद्धसहिता एकादशविधा भवन्ति, तथा पृथिव्यादयस्त्र सान्ताः, पृथिव्यप्तेजोवायुवनस्पतित्रसा इत्यर्थः, प्रत्येकमपर्याप्तपर्याप्तभेदतो द्वादशविधा भवन्ति ॥ ३८ ॥ ते द्वादशापि अतनुयुक्तास्त्रयोदश भवन्ति, न विद्यते तनुः - शरीरं येषां तेऽतनवः - सिद्धाः, तथा एकेन्द्रियाद्विधा - सूक्ष्मा बादराश्च तथा द्वीन्द्रिया स्त्रीन्द्रियाश्चतुरिन्द्रियाः पचेन्द्रियास्तु द्विविधाः - असंज्ञिनः संज्ञिनश्च, एते सप्तापि प्रत्येकमपर्याप्ताः पर्याप्ताश्चेति चतुर्दशविधा जीवाः ॥ ३९ ॥ एत एव चतुर्दश अमलसहिताः पञ्चदशविधाः, न विद्यते मल इव मलोनिसर्ग निर्मल जीवमालिन्यापादनहेतुत्वादष्टप्रकारं कर्म येषां तेऽमलाः- सिद्धाः, तथा येऽण्डजरसजादयः पूर्वमष्टौ जीवभेदा भणितास्तेऽप
236

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310