SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ याओ चउन्भेया ४ ॥ ३३ ॥ अहव तिवेयअवेयगसरूवओ वा हवंति चत्तारि ४ । एगबितिचउपणिदियरूवा पंचप्पयारा ते ॥ ३४ ॥ एए चिय छ अनिंदियजुत्ता ६ अहवा छ भूजलग्गिनिला । वणतससहिया ६ छप्पिय ते सत्त अकायसंवलिया ॥ ३५ ॥ अंडय १ रसय २ जराउय ३ संसेयय ४ पोयया ५ समुच्छिमया ६ । उब्भिय ७ तहोववाइय ८ भेएणं अट्ठहा जीवा ॥ ३६ ॥ पुढवाह पंच बितिचउपणिदि ४ जुत्ता य नवविहा ९ हुंति । नारयनपुंस तिरिनरतिवेय सुरथीपुमेवं वा ॥ ९ ॥ ३७ ॥ पुढवाइ अट्ठ असन्नि सन्नि दस ते ससिद्ध इगदसउ ११ । पुढवाइया तसंता अपज्जपज्जन्त्त बारसहा ॥ ३८ ॥ बारसवि अतणुजुत्ता तेरस मुहुमियरेगिंदिबेदी । तिय च असन्नि सन्नी अपज्जपज्जत्त चउदसहा ॥ ३९ ॥ चउदसवि अमलकलिया पनरस तह अंडगाइ जे अट्ठ । ते अपज्जन्तगपजत्तभेयओ सोलस हवंति ॥ ४० ॥ सोलसवि अकायजुया सतरस नपुमाइ नव अपजत्ता । पज्जन्त्ता अट्ठारसं अकम्मजुअ ते इगुणवीसं ॥ ४१ ॥ पुढवाइ दस अपज्जा पज्जत्ता हुंति वीस संखाए । असरीरजुएहिं तेहिं वीसई होइ एगहिया ॥ ४२ ॥ सुहृमियर भूजलानलवाडवणाणतं दस सपत्तेआ । बितिच असन्निसन्नी अपज्जपज्जन्त बत्तीसं ॥ ४३ ॥ तह नरयभवणवणजोइ कप्प गेवेज्जऽणुत्तरुप्पन्ना । सन्तदसऽडपणबारस नवपणछप्पन्नवेउवा ॥ ४४ ॥ हुति अडवन्नसंखा ते नरतेरिच्छसंगया सधे । अपजत्तपजत्तेहिं सोलसुत्तरसयं तेहिं ॥ ४५ ॥ सन्निदुगहीण बत्तीससंगयं तं सयं छयत्तालं । तं भवाभवगदूरभव आसन्नभवं च ॥ ४६ ॥ संसारनिवासीर्ण जीवाण सयं इमं छयत्तालं । अप्पं व पालियां सिवसुहकंखीहिं जीवेहिं ॥ ४७ ॥ सिरिअम्मएवमुणिवइविणेयसिरिनेमिचंदसूरीहिं । सपरहियत्थं रइयं कुलयमिणं जीवसंखाए ॥ ४८ ॥ नत्वा- प्रणम्य नेमिं - द्वाविंशतीर्थकरं एकादिकां - एकद्वित्र्यादिकां जीवसङ्ख्यां भणामि - कथयामि समयात् - सिद्धान्तात् न पुनः स्वमनीषिकयेति । तत्र चेतनायुक्ताः - चैतन्योपेता जीवा एके-एकविधाः, उपयोगलक्षणत्वाज्जीवानां, सिद्धसंसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्, सततावबोधाभावे च जीवत्वप्रसङ्गात्, तथा भवस्थसिद्धभेदेन द्विधा जीवाः, तत्र भवस्थाः - संसारवर्तिनः सिद्धा - मुक्तिपदप्राप्ताः ॥ ३२ ॥ अथवा त्रसस्थावरभेदेन द्विधा जीवाः, तत्र त्रसा - द्वीन्द्रियादयः स्थावराः - पृथिव्यादय एकेन्द्रियाः, तथा त्रिविधाः स्त्रीपुंनपुंसकभेदतः, इह रूयादयः ख्यादिवेदोदयात् योन्यादिसंगता गृह्यन्ते, तथा चोक्तम्- “यो निर्मृदुत्वमस्थैर्य, मुग्धताऽबलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते || १ || मेहनं खरता दाढ, शौण्डीर्य श्मश्रु धृष्टता । स्त्रीका मितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३ ॥” तथा नारकतिर्यरामरगतिभेदतश्चतुर्भेदा जीवाः ॥ ३३ ॥ अथवा त्रिवेदावेदस्वरूपतो भवन्ति चतुर्विधा जीवाः, वाशब्दः समुच्चये, तत्र त्रिवेदास्त्रयः - पुरुषाः स्त्रियो नपुंसकाश्च, न विद्यते वेद उपशमितत्वात् क्षपितत्वाद्वा येषां ते अवेदा:- अनिवृत्तिबादरादयो भवस्थाः सिद्धाश्च । तथा एकद्वित्रिचतुःपञ्चेन्द्रियभेदतः पञ्चप्रकारास्ते जीवाः ॥ ३४ ॥ एत एव एकेन्द्रियादयः पञ्चप्रकारा जीवा अनिन्द्रिययुक्ताः षड्विधा भवन्ति, न विद्यन्ते इन्द्रियाणि - रपर्शनादीनि येषां तेऽनिन्द्रियाः- सिद्धाः, अथवा पृथिव्यप्तेजोवायुवनस्पतित्रसभेदतः षड्विधा जीवाः, तथा पूर्वोक्ता एव पृथिव्यादयः षडिधा जीवा अकायसहिताः सप्तविधा भवन्ति, न विद्यते कायः - पश्चप्रकारमपि शरीरं येषां तेऽकायाः –सिद्धाः ।। ३५ ।। अण्डजादिभेदतोऽष्टविधा जीवा भवन्ति, तत्र अण्डाज्जाता अण्डजाः - पक्षिगृहको किलामत्स्य सर्पादयः रसाज्जाता रसजाः - तक्रारनालदधितीमनादिपु पायुकृम्याकृतयोऽतिसूक्ष्मा जीवविशेषाः, जरायो:-गर्भवेष्टनाज्जातास्तद्वेष्टिता इत्यर्थः जरायुजा - मनुयगोमहिष्यादयः, संस्वेदाज्जाताः संस्वेदजा - मत्कुणयूकाशतपदिकादयः, पोतं वस्त्रं तद्वज्जाताः पोतादिव बोहिस्थाज्जाता अजरायुवेष्टिता इत्यर्थ: पोतजा - हस्तिवल्गुली चर्म जलूकाप्रभृतयः, संमूर्च्छन निर्वृत्ताः संमूर्छिमाः - कृमिपिपीलिकामक्षिकाशालिकादयः, उद्भेदाद्-भूमिभेदाज्जाता उद्भेदजाः - पतङ्गखञ्जनकादयः, उपपाते - देवशयनीयादौ भवा औपपातिकाः- देवा नारकाश्चेति ॥ ३६ ॥ पृथिव्यादयः - पृथिव्यतेजोवायुवनस्पतयः पञ्च द्वित्रिचतुःपञ्चेन्द्रिययुक्ता नवविधा जीवा भवन्ति, अथवा नारका नपुंसकत्वेनैकविधाः तिर्यश्वो नराश्च त्रिवेदत्वेन - स्त्रीपुंनपुंसक वेदत्वेन प्रत्येकं त्रिभेदाः सुराश्च स्त्रीपुरुषभेदत्वेन द्विविधाः इत्येवं नवविधा जीवाः ।। ३७ ।। पृथिव्यादयः - पृथिव्य प्तेजोवायुवनस्पति द्वित्रिचतुरिन्द्रियलक्षणा अष्टौ जीवाः असंज्ञिसंज्ञिपश्चेन्द्रियेण सहिता दशविधा भवन्ति, तथा त एव दशविधा जीवाः ससिद्धा: - सिद्धसहिता एकादशविधा भवन्ति, तथा पृथिव्यादयस्त्र सान्ताः, पृथिव्यप्तेजोवायुवनस्पतित्रसा इत्यर्थः, प्रत्येकमपर्याप्तपर्याप्तभेदतो द्वादशविधा भवन्ति ॥ ३८ ॥ ते द्वादशापि अतनुयुक्तास्त्रयोदश भवन्ति, न विद्यते तनुः - शरीरं येषां तेऽतनवः - सिद्धाः, तथा एकेन्द्रियाद्विधा - सूक्ष्मा बादराश्च तथा द्वीन्द्रिया स्त्रीन्द्रियाश्चतुरिन्द्रियाः पचेन्द्रियास्तु द्विविधाः - असंज्ञिनः संज्ञिनश्च, एते सप्तापि प्रत्येकमपर्याप्ताः पर्याप्ताश्चेति चतुर्दशविधा जीवाः ॥ ३९ ॥ एत एव चतुर्दश अमलसहिताः पञ्चदशविधाः, न विद्यते मल इव मलोनिसर्ग निर्मल जीवमालिन्यापादनहेतुत्वादष्टप्रकारं कर्म येषां तेऽमलाः- सिद्धाः, तथा येऽण्डजरसजादयः पूर्वमष्टौ जीवभेदा भणितास्तेऽप 236
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy