SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ नैसर्पः पाण्डुकः पिङ्गलकः सर्वरत्नः महापद्मः कालः महाकाल: माणवकः महानिधिः शङ्खश्च, एते नव निधयः, एतेषु च निधिषु कल्पपुस्तकानि शाश्वतानि वर्तन्ते तेषु च विश्वस्थितिराख्यायते ॥ १८ ॥ तत्र यस्मिन्निधौ यदाख्यायते तदाह – 'नेसप्पंमी 'त्यादिगाथा एकादश, नैसर्पे - नैसर्पामिधे निधौ प्रामाकरनगरपत्तनानां द्रोणमुखमडम्बानां स्कन्धावाराणां गृहाणां चशब्दादापणानां च निवेशा:स्थापनान्याख्यायन्ते, तत्र ग्रामो - वृत्त्यावृतः आकरो - यत्र सन्निवेशे लवणाद्युत्पद्यते नगरं - राजधानी पत्तनं - जलस्थलनिर्गमप्रवेशं द्रोणमुखं—जलनिर्गमप्रवेशं अर्धतृतीयगव्यूतान्तर्ग्रामान्तररहितं मडम्बं स्कन्धावारः - कटकनिवेशः गृहं भवनं आपणो - हट्ट इति ॥ १९ ॥ गणितस्य - दीनारादिपूगफलादिलक्षणस्य तथा गीतानां - स्वरकरणपाटकरणधूपकागारुकटिकिकाप्रभृतीनां प्रबन्धानां तथा मानं-सेतिकादि तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः तथा उन्मानं - तुलाकर्षादि तद्विषयं यत्तदप्युन्मानं, खण्डगुडादि धरिममित्यर्थः, ततः समाहारद्वन्द्वः ततस्तस्य यत्प्रमाणं, तथा धान्यबीजानां च - शाल्यादीनां देशकालौचित्येनोत्पत्तिः - निष्पत्तिः पाण्डुकनिधौ भणिताव्यावर्णिता ॥ २० ॥ सर्वोऽप्याभरणविधिर्यः पुरुषाणां यश्च महिलानां तथा अश्वानां हस्तिनां च स यथौचित्येन पिङ्गलनामके महानिधौ भणितः || २१ ॥ इह चक्रवर्तिनश्चतुर्दश रत्नानि सर्वोत्तमानि भवन्ति, तद्यथा - चक्रप्रमुखाणि सप्त एकेन्द्रियाणि सेनापतिप्रमुखाणि सप्तपचेन्द्रियाणि तानि चतुर्दशापि सर्वरत्नाख्ये महानिधौ उत्पद्यन्ते, तदुत्पत्तिस्तत्र व्यावर्णितेत्यर्थः, अन्ये त्वेवमाहुः -- उत्पद्यन्ते एतत्प्रभावात् स्फीतिमन्ति च भवन्तीत्यर्थः ॥ २२ ॥ सर्वेषामपि वस्त्राणां या उत्पत्तिः तथा सर्वेषामपि वस्त्रादिगतानां भक्तिविशेषाणां सर्वेषामपि च रङ्गाणां - मजिष्ठाकृमिरागकुसुम्भादीनां धातूनां च-लोहताम्रादीनां 'धोबाण य'त्ति पाठे तु सर्वेषां वस्त्रादिप्रक्षालनविधीनां या निष्पत्तिः सर्वा चैषा महाप निधावभिधीयते ॥ २३ ॥ काले-कालनामनि निधौ कालज्ञानं - समस्त ज्योतिःशास्त्रानुगतं ज्ञानमिति भावः, तथा जगति त्रयो वंशाः वंशः प्रवाह आवलिकेत्यनर्थान्तरं, तद्यथा - तीर्थकरवंशश्चक्रवर्तिवंशो बलदेववासुदेववंशश्च तेषु त्रिष्वपि वंशेषु यद्भव्यं भावि यश्च पुराणं- अतीतं, उपलक्षणमेतत् वर्तमानं च, 'तिसुवि वासेसु' त्तिपाठे तु अनागतवस्तुविषयमतीतवस्तुविषयं च कालज्ञानं क्रमेणानागतातीतवर्षत्रयगोचरमिति, कचिद् 'भवपुराणं च तिसुवि कालेसु'त्ति पाठः, तत्र च त्रिष्वपि कालेषु - वर्तमानातीतानागतेषु भव्यं - शुभं पुराणं च-अशुभं कालज्ञानमिति, तथा यत् शिल्पशतं - घटलोह चित्रवस्त्रनापितशिल्पानां पश्वानामपि प्रत्येकं विंशतिभेदत्वात् यानि च कृषिवाणिज्यादीनि जघन्य मध्यमोत्कृष्टभेदभिन्नानि त्रीणि कर्माणि प्रजाया हितकराणि तदेतत्सर्वममिधीयते ॥ २४ || महाकाले निधौ लोहस्य नानाभेदभिन्नस्योत्पत्तिराख्यायते, रूप्यसुवर्णमणिमुक्ताशिलाप्रवालानां संबन्धिनामाकराणां च तत्र रूप्यसुवर्णे प्रतीते मणयः - चन्द्रकान्तादयः मुक्ता - मौक्तिकानि शिलाः - स्फाटिकादिका प्रवालानि - विद्रुमाणीति ॥ २५ ॥ माणवके निधौ योधानां - शूरपुरुषाणामावरणानां - खेटकादीनां प्रहरणानां खङ्गादीनां च यत्र यथा वा उत्पत्तिर्भवति तथाऽभिधीयते, तथा सर्वाऽपि युद्धनीतिः-व्यूहरचनादिलक्षणा, सर्वाऽपि च दण्डनीतिः - सामादिचतुर्विधाऽऽख्यायते ॥ २६ ॥ शङ्खामिधाने पुनर्महानिधौ सर्वोऽपि नर्तनविधिः- नृत्यकरणप्रकार: सर्वोऽपि च नाटकविधिः - अभिनेयप्रबन्धप्रपञ्चनप्रकारः, तथा धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धस्य यद्वा संस्कृतप्राकृतापभ्रंशसंकीर्ण भाषानिबद्धस्य गद्यपद्यगेयचौर्णपदबद्धस्य वा चतुर्विधस्यापि काव्यस्य तथा सर्वेषां त्रुटिताङ्गानामातोद्यापरपर्यायाणामुत्पत्तिराख्यायते । अन्ये त्वेते पूर्वोक्ताः पदार्थाः सर्वेऽपि नवसु निधिषु साक्षादेव समुत्पद्यन्ते इति व्याख्यानयन्ति ||२७|| अथ नवानामपि निधीनां साधारणं स्वरूपमाह - 'चक्कठ्ठपई' त्यादि, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानं - अवस्थानं येषां ते अष्टचक्रप्रतिष्ठानाः, प्राकृतत्वादृष्टशब्दस्य परनिपातः, अष्टौ योजनानि उत्सेधः - उच्चैस्त्वं येषां ते तथा, नव च योजनानि विष्कम्भेण नवयोजनविस्तारा इत्यर्थः, द्वादशयोजनदीर्घाः, मञ्जूषासंस्थानसंस्थिताः सदैव जाह्नव्या - गंगाया मुखेऽवस्थिताः चक्रवर्त्तिन उत्पत्तिकाले च भरतविजयानन्तरं चक्रवर्तिना सह पातालेन चक्रवर्तिपुरमनुगताः ॥ २८ ॥ वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयट्प्रत्ययस्य वृत्त्या उक्तार्थता, कनकमयाः - सौवर्णाः विविधरत्नपरिपूर्णाः, शशिसूरचक्राकाराणि लक्षणानि - चिह्नानि येषां ते तथा, प्राकृतत्वात्प्रथमाबहुवचनस्य लोपः, 'अणुसमवयणोववत्तीयत्ति अनुरूपा समा-अविषमा वदनोपपत्तिः - द्वारघटना येषां ते तथा, 'अणुवम' त्तिपाठे तु न विद्यते उपमावचनस्योपपत्तिः - घटना येषां स्वरूपव्यावर्णने ते अनुपमवचनोपपत्तिकाः- उपमया प्रतिपादयितुमशक्याः, उपमाया एवाभावादिति भावः, कचित् 'अणुसमयचयणोववत्तीय' त्तिपाठः, तत्र अनुसमयं - प्रतिसमयं पुद्गलानां च्यवनमुपपत्तिश्च येषां ते तथा, यावन्तस्तेभ्यः पुद्गला गलन्ति तावन्त एवानुसमयं लगन्तीत्यर्थः, स्थानाङ्गे तु 'अणुसमजुगबाहुवयणा यत्ति पठ्यते, तत्र चायमर्थः - अनुसमा - अनुरूपा अविषमा जुगत्ति-यूपस्तदाकारा वृत्तत्वाद्दीर्घत्वाच बाहवो -द्वारशाखा वदनेषु-मुखेषु येषां ते तथा ।। २९ ।। तेषु च निधिषु पल्योपमस्थितिका निधिसदृशनामानस्ते देवा भवन्ति येषां देवानां त एव निधय आवासा - आश्रयाः आधिपत्याय - आधिपत्यनिमित्तमक्रेयाः, न तेषामाधिपत्यं क्रयेण लभ्यमिति भावः ॥ ३० ॥ एते ते नव निधयः प्रभूतधनरत्नसंचयसमृद्धाः ये सर्वेषामपि भरतक्षेत्राधिपचक्रवर्तिनां वशमुपयान्तीति २१३ ॥ ३१ ॥ इदानीं 'जीवसंखा उ'त्ति चतुर्दशोत्तरद्विशततमं द्वारं बिभणिषुः स्वकृतमेव जीवसङ्ख्याप्रतिपादकं कुलकमत्र प्रन्थे निक्षिप्तवान् प्रन्थकारः, तत्र चेयमादिगाथा - नमि नेमिं एगा जीवसंखं भणामि समयाओ । चेयणजुत्ता एगे १ भवत्थसिद्धा दुहा जीवा २ ॥ ३२ ॥ तस थावरा य दुविहा २ तिविहा थीपुंनपुंसगविभेया ३ । नारयतिरियनरामरगइभे 235
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy