________________
चर्मरत्नं छत्रस्याधस्ताञ्चक्रवर्तिहस्तस्पर्शप्रभाव संजातद्वादशयोजनायामविस्तारं प्रातरुप्तापराह्न संपन्नोपभोग्यशाल्यादिसम्पत्तिकरं १० मणिरत्नं वैडूर्यमयं त्र्यत्रं षडंशं यथाक्रममूर्द्धाधः स्थितयोश्छत्रचर्मरत्नयोरपान्तराले छत्र तुम्बे न्यस्तं सद् द्वादशयोजनविस्तारिणः समस्तस्यापि चक्रवर्तिकटकस्य निरुपमप्रकाशकारि तमिस्रगुहायां खण्डप्रपातगुहायां च प्रविशतश्चक्रवर्तिनो हस्तिरत्नदक्षिणशिरसि निबद्धं च द्वादश योज -- नानि यावत्पूर्वापरपुरतोरूपासु तिसृषु दिक्षु निबिडतममपि तमः स्तोममपहरति यस्य च हस्ते शिरसि वा बद्ध्यते तस्य दिव्यतिर्यग्मनुष्यकृतसमस्तोपद्रवसमस्तरोगापहारं करोति, एतच्च मूर्त्यन्यत्र वाऽङ्गे व्यवस्थाप्य संग्रामे प्रविष्टः सन् शस्त्रैरवध्यो भवति सर्वभयविमुक्तश्वोपजायते, अन्यच्च - तस्मिन् मणिरत्ने सदा मणिबन्धादौ व्यवस्थितेऽवस्थितयौवनोऽवस्थितकेशनखश्चोपजायते पुमान् ११ काकिणीरत्नमष्टसौवर्णिकं समचतुरस्रसंस्थानसंस्थितं विषापहारसमर्थ यत्र चन्द्रप्रभा सूर्यप्रभा वह्निदीप्तिर्वा न तमःस्तोममपहर्तुमलं भवति तत्र तमिस्रगुहायामतिनिबिडतिमिरतिरस्करणदक्षं, यस्य दिव्यप्रभावकलिततया द्वादश योजनानि यावत्तमिस्र विसरविनाशिका गभस्तयो विवर्धन्ते, यच्च सर्वकालं चक्रवर्ती निजस्कन्धावारे रात्रौ स्थापयति, तद्धि दिवसालोकभूतं प्रकाशं रजन्यामादधाति यस्य च प्रभावेण चक्रवर्ती द्वितीयमर्धभरतममिजेतुं सकलसैन्यसमेतस्तमिस्रगुहायां प्रविशति, तथा च तत्र प्रविष्टः सन् स पूर्वभित्तितटे पश्चिममिचितटे च प्रत्येकं योजनान्तरितानि पञ्चधनुःशतायामविष्कम्भान्युभयपार्श्वयोर्योजनोद्योतकराणि चक्रनेमिसंस्थानानि चन्द्रमण्डलप्रतिनिभानि वृत्तहिरण्यरेखारूपाणि गोमूत्रिकान्यानेनैकस्यां भित्तौ पञ्चविंशतिरपरस्यां तु चतुर्विंशतिरित्ये कोनप भ्वाशतं मण्डलान्यालिखन् व्रजति, तानि च मण्डलानि यावश्चक्रवर्ती चक्रवर्तिपदं परिपालयति तावदवतिष्ठन्ते, गुहाऽपि तथैवोद्घाटिता तिष्ठति, उपरते तु चक्रिणि तत्सर्वमुपरमते १२ खड्गरत्नं - संग्रामभूमावप्रतिहतशक्तिः १३ दण्डरनं रत्नमयपश्चलताकं वज्रसारमयं सर्वशत्रुसैन्यविनाशकारकं, चक्रवर्तिनः स्कन्धावारे विषमोन्नतविभागेषु समत्वकारि शान्तिकरं चक्रवर्तिनो हितेप्सितमनोरथपूरकं दिव्यमप्रतिहतं प्रयत्नविशेषतश्च व्यापार्यमाणं योजनसहस्रमप्यधः प्रविशति १४ । एतानि चतुर्दश रत्नानि प्रत्येकं यक्षसहस्राधिष्ठितानि भवन्ति तथैतानि सेनापत्यादीनि सप्त प न्द्रियाणि चक्रादीनि सप्त एकेन्द्रियाणि पृथिवीपरिणामरूपाणि प्रत्येकं जम्बूद्वीपे जघन्यपदेऽष्टाविंशतिरेककालं प्राप्यन्ते, जघन्यतोSपि चक्रवर्तिचतुष्टयसद्भावात्, उत्कृष्टतस्तु दशोत्तरद्विशतसङ्ख्यानि, चक्रवर्तिनो ह्येककालं त्रिंशद्भवन्ति, यथा अष्टाविंशतिर्विदेहे एकैको भरतेरखतयोः, सप्तानां च त्रिंशता गुणने द्वे शते दशोत्तरे भवत इति ॥ १४ ॥ अथ रत्नप्रस्तावाद्वासुदेवस्यापि रत्नान्याह – 'चक्क ' मित्यादि, 'चक्रखङ्गधनुर्मणयः प्रतीताः माला सदैव चाम्लाना देवार्पिता गदा-कौमोदकी नाम प्रहरणविशेषः शङ्खः - पाश्वजन्यो द्वादशयोजनविस्तारिध्वानः, एतानि सप्त रत्नानि सर्वेषामपि वासुदेवानां भवन्ति ॥ १५ ॥ अथ सप्तानामप्येकेन्द्रियरत्नानां प्रमाणमाह - 'चक्क ' मित्यादि गाथाद्वयं, चक्रं छत्रं दण्डमित्येतानि त्रीण्यपि रत्नानि व्यामप्रमाणानि, व्यामो नाम प्रसारितोभयबाहोः पुंसस्तिर्यग्हस्तद्वयाङ्गुलयोरन्तरालं, चर्मरत्नं द्विहस्तदैर्घ्य, द्वात्रिंशदङ्गुलदीर्घोऽसि:-खड्गरत्नं, तथा दैर्घ्यमधिकृत्य मणिः पुनञ्चतुरङ्गुलप्रमाणः, तस्य – दैर्घ्यस्यार्ध द्वे अङ्गुले इत्यर्थः विस्तीर्णो–विस्तृतः, तथा चतुरङ्गुलप्रमाणा सुवर्णवरकाकिनी - जात्यसुवर्णमयी काकिनीनाम रत्नं ज्ञेया, एतानि सप्ताकेन्द्रियरत्नानि सर्वचक्रवर्तिनामात्माङ्गलेन ज्ञेयानि शेषाणि तु सप्त पञ्चेन्द्रियरत्नानि तत्तत्कालीनपुरुषोचितमानानीति २१२ ॥ १६ ॥ ॥ १७ ॥ सम्प्रति ‘नव निहिओ'ति त्रयोदशोत्तरद्विशततमं द्वारमाह
नेसप्पे १ पंडयए २ पिंगलए ३ सबरयण ४ महपउमे ५ । काले य ६ महाकाले ७ माणवग ८ महानिही संखे ॥ १८ ॥ नेसप्पंमि निवेसा गामागरनगरपट्टणाणं च । दोणमुहमडंबाणं खंधाराणं गाणं च ॥ १९ ॥ गणियस्स य गीयाणं माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाणं उपत्ती पंडुए भणिया ॥ २० ॥ सङ्घा आहरणविही पुरिसाणं जा य जा य महिलाणं । आसाण य हत्थीण य पिंगलगनिहिम्मि सा भणिया ॥ २१ ॥ रयणाई सवरयणे चउदस पवराई चक्कवट्टीणं । उप्पज्जंति एगिंदियाई पंचिंदियाई च ॥ २२ ॥ वत्थाण य उत्पत्ती निष्फसी चेव सङ्घभतीणं । रंगाण य घाऊण य सङ्घा एसा महापउमे ॥ २३ ॥ काले कालन्नाणं भव पुराणं च तिसुवि वंसेसु । सिप्पसयं कम्माणि य तिन्नि पयाए हियकराई ॥ २४ ॥ लोहस्स य उप्पत्ती होइ महाकाल आगराणं च । रूप्पस्स सुवण्णस्स य मणिमोत्तियसिलपवालाणं ॥ २५ ॥ जोहाण य उक्ती आवरणाणं च पहरणाणं च । सङ्घा य जुद्धनीई माणवगे दंडनीई य ॥ २६ ॥ नट्टविही नावही वस्स चविहस्स निष्पत्ती । संखे महानिहिम्मि उ तुडियंगाणं च सवेसिं ॥ २७॥ चक्कपट्ठाणा अडस्सेहा य नव य विक्खंभे । बारस दीहा मंजूस संठिया जण्हवीऍ मुहे ॥ २८ ॥ deforमणिकवाडा कणयमया विविहरयणपडिपुन्ना । ससिसूरचक्कलक्खण अणुसमवयणोववतीया ॥ २९ ॥ पलिओवमट्टिईया निहिसरिनामा य तत्थ खलु देवा । जेसिं ते आवासा अक्जा आहिवच्चाय ॥ ३० ॥ एए ते नव निहिणो पभूयधणरयणसंचयसमिद्धा । जे वसमुवगच्छंति सधेसिं चक्कवहीणं ॥ ३१ ॥
234