SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ र्याप्तपर्याप्तभेदतः षोडश भवन्ति ॥ ४०॥ एत एव षोडश अकायेन-सिद्धेन युक्ताः सप्तदशविधाः । तथा पूर्वोक्ता नपुंसकादिभेदा -नारकनपुंसकत्रीपुंनपुंसकतिर्यक्खीपुंनपुंसकमानवस्त्रीपुंवेददेवलक्षणा नवविधा अपि जीवाः प्रत्येकमपर्याप्ताः पर्याप्ताश्च सन्तोऽष्टादशभेदाः । तथा ते एव चाष्टादश अकर्मभिः-सिद्धैर्युक्ता एकोनविंशतिः॥४१॥ पूर्व ये पृथिव्यादयो दशविधा जीवा भणिताः त एवापर्याप्तपर्याप्तभेदाभ्यां विंशतिसङ्ख्या भवन्ति, तथा तैरेव पृथिव्यादिभिर्विशतिसयैर्भेदैरशरीरयुतैः-सिद्धसहितैः सद्भिरेकविंशति वभेदा भवन्ति ॥४२॥ पृथिव्यप्तेजोवाय्वनन्तवनस्पतयः पञ्च प्रत्येकं सूक्ष्मबादरभेदतो दश भवन्ति, ते च सप्रत्येकाः-प्रत्येकवनस्पतिसहिता एकादश, द्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियाश्च पञ्च मिलिताः षोडश, एते च प्रत्येकमपर्याप्तपर्याप्तभेदभिन्ना द्वात्रिंशद्भवन्ति, इयमत्र भावना-पृथिवीकायो द्विधा-सूक्ष्मो बादरश्च, पुनरेकैको द्विधा-अपर्याप्तः पर्याप्तश्चेति चतुर्विधः पृथ्वीकायः, एवं जलानलवायवोऽपि, वनस्पतिर्द्विधा -साधारणः प्रत्येकश्च, तत्र साधारणो द्विधा-सूक्ष्मो वादरश्च, पुनरेकैको द्विधा-अपर्याप्तः पर्याप्तश्च, प्रत्येकस्तु बादर एव, स चापर्याप्तपप्तिभेदेन द्विविध इति षोढा वनस्पतिकायः, द्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियाः पुनः प्रत्येकमपर्याप्तपर्याप्तभेदतो द्विधा, मिलिताश्च द्वात्रिंशदिति ॥ ४३ ॥ नारकभवनपतिवनचरज्योतिष्ककल्पप्रैवेयकानुत्तरविमानोत्पन्ना जीवा यथाक्रमं सप्तदशअष्टपञ्चद्वादशनवपञ्चभेदा भवन्ति, एवं च वैक्रियशरीरिणः षट्पञ्चाशद्भेदाः, एतदुक्तं भवति-रत्नप्रभादिपृथिवीसप्तकनिवासित्वेन नारकाः सप्तविधाः भवनपतयोऽसुरकुमारादिभेदतो दशविधाः व्यन्तराः पिशाचादिभेदादष्टविधाः ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः कल्पोपपन्नाः सौधर्मादिद्वादशदेवलोकोत्पन्नत्वेन द्वादशविधाः प्रैवेयकोत्पन्ना अधस्तनाधस्तनादिप्रैवेयकनवकनिवासित्वेन नवविधाः अनुत्तरविमानोत्पन्नास्तु विजयादिविमानपञ्चकोत्पन्नत्वेन पञ्चविधाः, सर्वमीलने च षट्पञ्चाशदिति ॥४४॥ ते सर्वेऽपि वैक्रियशरीरिणो नरतिर्यक्संगताः सन्तोऽष्टपञ्चाशत्सङ्ख्या भवन्ति, तथा तैरेवाष्टपञ्चाशत्सयैः प्रत्येकमपर्याप्तपर्याप्तभेदभिन्नैः षोडशोत्तरशतं भवन्ति ॥ ४५ ॥ संज्ञिद्विकं-पर्याप्तापप्तिसंज्ञिरूपं तेन हीना-रहिता पूर्वोक्ता या द्वात्रिंशत् तया संगतं-मिलितमेतदेव षोडशोत्तरं शतं षट्चत्वारिंशं शतं भवति, संझिद्विकस्य तु षोडशोत्तरशतग्रहणेनैव ग्रहणाद्वर्जनमिति । तच्च षट्चत्वारिंशं शतं भव्याभव्यदूरभव्यासन्नभव्यलक्षणैश्चतुर्भिर्भेदैः संगृह्यते, इदमत्र तात्पर्य-पूर्वोक्तस्य षट्चत्वारिंशदुत्तरशतस्य मध्ये केचिज्जीवा भव्याः केचिदभव्याः केचिद् दूरभव्याः केचिदासन्नभव्या इति, तत्र मुक्तिपर्यायेण भविष्यन्तीति भव्याः-सिद्धिगमनयोग्याः, न पुनरवश्यं सिद्धिगामिन एव, भव्यानामपि केषाश्चित्सिद्धिगमनासंभवात् , उक्तं च-"भव्वावि न सिज्झिस्संति केई" इत्यादि, भव्यविपरीता अभव्याः, तथा च ते न कदाचिदपि संसाराकूपारस्य पारं प्राप्नुवन्तः प्राप्नुवन्ति प्राप्स्यन्ति चेति, इदं च भव्यानां भव्यत्वमनादिकालसिद्धं शाश्वतमेव, न पुनः सामग्यन्तरेण पश्चाद्भवत्यपगच्छति वा, अभव्यत्वमप्यभव्यानामित्थमेव द्रष्टव्यं, यद्यपि च भव्यत्वाभव्यत्वाभ्यामेव सर्वेऽप्यमी जीवभेदाः संगृहीतास्तथापि भव्यविशेषत्वादेतो दूरभव्यासन्नभव्यलक्षणौ भेदी पृथगुपात्तौ, तत्र दूरेण-दीर्घतरेण कालेन भव्या-मुक्तिगामिनो दूरभव्याः-ये गोशालकवच्चिरान्मोक्षं यास्यन्ति, ये पुनस्तेनैव भवेन द्विव्यादिभिर्वा भवैमोक्षं यास्यन्ति ते आसन्नभव्याः। इह च भव्यत्वाभव्यत्वलक्षणमेवमाचक्षते वृद्धाःयः संसारविपक्षभूतं मोक्षं मन्यते तदवाप्त्यभिलाषं च सस्पृहं वहति किमहं भव्योऽभव्यो वा ? यदि भव्यस्तदा शोभनं अथाभव्यस्तदा धिमामित्यादिचिन्तां च कदाचिदपि करोति स इत्यादिप्रकारेण चिह्वेन ज्ञायते भव्य इति, यस्य तु जातुचिदपि नेयं चिन्ता समुत्पन्ना समुत्पद्यते समुत्पत्स्यते वा स ज्ञायतेऽभव्य इति, उक्तं चाचाराङ्गटीकायां-"अभव्यस्य हि भव्याभव्यशंकाया अभावादि"त्यादि ॥४६॥ संसारनिवासिनां-भववर्तिनां जीवानां-प्राणिनामेतत् षटचत्वारिंशदुत्तरं शतमात्मवत् पालनीयं-रक्षणीयं शिवसुखकाङ्किमिःमोक्षसुखामिलाषुकै वैरिति ॥४७॥ श्रीआवदेवसूरिशिष्यैः श्रीनेमिचंद्रसरिमिः स्वपरहिताय, आत्मनोऽविस्मृतये परेषां चावबोधाय इत्यर्थः, जीवसङ्ख्यायाः प्रतिपादकमिदं कुलकं-गाथासमुदायात्मकं रचितं-कृतमिति २१४ ।। ४८ ॥ इदानीं 'कम्माइं अट्ठ'त्ति पञ्चदशोत्तरद्विशततमं द्वारमाह- . पढमं नाणावरणं १ बीयं पुण दसणस्स आवरणं २। तइयं च वेयणीयं ३ तहा चउत्थं च मोहणीयं ४॥४९॥ पंचममा ५ गोयं ६ छटुं सत्तमगमंतरायमिह ७। बहुतमपयडित्तेणं भणामि अट्ठमपए नामं८॥५०॥ प्रथम-आद्यं ज्ञानावरणं द्वितीयं पुनर्दर्शनावरणं तृतीयं च वेदनीयं तथा चतुर्थ च मोहनीयं पञ्चममायुः गोत्रं षष्ठं सप्तमं चान्तरायं इह च बहुतमोत्तरप्रकृतित्वेन बहुवक्तव्यत्वात् भणामि अष्टमपदे अष्टमपदस्थाने वा नामकर्मेति, ग्रन्थान्तरे हि आयुर्नाम गोत्रमन्तरायं चेत्यनेन क्रमेण पठ्यते, इह तु बहूत्तरप्रकृतितया पर्यन्ते नामकर्मेति । तत्र ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानं सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः आत्रियते-आच्छाद्यतेऽनेनेत्यावरणं-मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणान्तःपाती विशिष्टपुद्गलसमूहः ज्ञानस्य-मत्यादेरावरणं ज्ञानावरणं १ तथा दृश्यतेऽनेनेति दर्शनं-सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः तस्यावरणं दर्शनावरणं २ तथा वेद्यते-आहादादिरूपेणानुभूयते यत्तद्वेदनीयं, यद्यपि सर्व कर्म वेद्यते तथापि पङ्कजादिशब्दवद्वेदनीयशब्दस्य रूढिविषयत्वात् सातासातमेव कर्म वेदनीयमित्युच्यते, न शेषं ३ तथा मोहयति-सदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयं ४ तथा एति-आगच्छति प्रतिबन्धकता स्वकृतकर्मावाप्तनरकादिकुगतेनिष्क्रमितुमनसो जन्तोरित्यायुः अथवा आ-समन्तादेति-गच्छति 237
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy