Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
भवाद्भवान्तरसंक्रान्तौ जन्तूनां विपाकोदयमित्यायुः ५ तथा गूयते-शब्द्यते उच्चावचैः शब्दैर्यत्तद्ोत्रं-उच्चनीचकुलोत्पत्तिलक्षणः पर्यायविशेषः तद्विपाकवेद्यं कर्मापि गोत्रं, कारणे कार्योपचारात् ६ तथा अन्तरा-दातृप्रतिप्राहकयोरन्तर्विघ्नहेतुतया अयते-च्छतीत्यन्तरायं, यजीवस्य दानादिकं कर्तुं न ददातीत्यर्थः ७ तथा नामयति-त्यादिविविधभावानुभवनं प्रति प्रवणयति जीवमिति नाम ८ । एता अष्टौ मूलप्रकृतयः २१५ ॥ ५० ॥ साम्प्रतं 'तेसिं उत्तरपयडीण अट्ठवन्नसयंति षोडशोत्तरद्विशततमं द्वारमाह
पंचविहनाणवरणं नव भेया सणस्स दो वेए । अट्ठावीसं मोहे चत्तारि य आउए हुंति ॥५१॥ गोयम्मि दोन्नि पंचंतराइए तिगहियं सयं नामे । उत्तरपयडीणेवं अट्ठावन्नं सयं होई ॥५२॥ मइ १सुय २ ओही ३ मण४ केवलाणि जीवस्स आवरिवति । जस्स प्पभावओतं न भवे कम्मं ॥५३॥ नयणेश्यरोहिश्केवल४दसणआवरणयं भवे चउहा । निद्दा ५ पयलाहि छहा ६ निद्दाइदुरुत्त ७-८ थीणद्धी ९॥ ५४ ॥ एवमिह दंसणावरणमेयमावरह दरिसणं जीवे । सायमसायं च दुहा वेयणियं सुहदुहनिमित्तं ॥ ५५ ॥ कोहो माणो माया लोभोऽणताणुबंधिणो चउरो । एवमपञ्चक्खाणा पञ्चक्खाणा य संजलणा ॥ ५६ ॥ सोलस इमे कसाया एसो नवनोकसायसंदोहो । इत्थीपुरिसनपुंसकरूवं वेयत्तयं तंमि ॥५७ ॥ हासरईअरईभयसोगदुगुंछत्ति हासछक्कमिमं । दरिसणतिगं तु मिच्छत्तमीससम्मत्तजोएणं ॥ ५८॥ इय मोह अट्ठवीसा नारयतिरिनरसुराज्य चउक्कं । गोयं नीयं उच्चं च अंतरायं तु पंचविहं ॥ ५९॥ दाउं न लहइ लाहो न होइ पावइ न भोगपरिभोगं । निरुओऽवि असत्तो होइ अंतरायप्पभावेणं ॥ ६०॥ नामे बायालीसा भेयाणं अहव होइ सत्तट्ठी । अहवावि हु तेणउई तिग अहियसयं हवइ अहवा ॥११॥ पढमा बायालीसा ४२ गइ १ जाइ २ सरीर ३ अंगुवंगे ४ य । बंधण ५ संघायण ६ संघयण ७ संठाण ८ नामं च ।। ६२ ।। तह वन्न ९ गंध १० रस ११ फास १२ नाम अगुरुलहुयं च १३ बोद्धन्वं । उवघाय १४ पराघाया १५ णुपुचि १६ ऊसासनामं च १७॥ ६३॥ आया १८ जोय १९ विहायगई २० तस २१ थावराभिहाणं च २२। बायर २३ मुहमं २४ पज्जत्ता २५ पज्जत्तं च २६ नायचं ॥ ६४ ॥ पत्तेयं २७ साहारण २८ थिर २९ मथिर ३० सुभा ३१ सुभं ३२ च नायचं । सूभग ३३ दूभग ३४ नामं सूसर ३५ तह दूसरं ३६ चेव ॥६५॥ आएज्न ३७ मणाएजं ३८ जसकित्तीनाम ३९ अजसकित्ती ४० य । निम्माणं ४१ तित्थयरं ४२ भेयाणवि हुँतिमे भेया ॥६६॥ गइ होइ चउप्पयारा जाईवि य पंचहा मुणेयवा । पंच य हुंति सरीरा अंगोवंगाई तिन्नेव ॥६७॥ छरसंघयणा ६ जाणसु संठाणावि य हवंति छच्चेव ६ । वन्नाईण चउकं ४ अगुरुलहु १ वघाय १ परघायं १ ॥ ६८ ॥ अणुपुची चउभेया ४ उस्सासं १ आयवं १ च उज्जोयं १। सुहअसुहा विहयगई २ तसाइवीसं च २० निम्माणं ॥ ६९॥ तित्थयरेणं सहिया १ सत्तट्ठी एव हुंति पयडीओ ६७ । संमामीसेहि विणा तेवन्ना सेसकम्माणं ॥७० ॥ एवं वीसुत्तरसयं १२० बंधे पयडीण होइ नायत्वं । बंधणसंघायावि य सरीरगहणेण इह गहिया ॥ ७१॥ बंधणभेया पंच उ संघायावि य हवंति पंचेव । पण वन्ना दो गंधा पंच रसा अट्ट फासा य ॥ ७२ ॥ दस सोलस छब्बीसा एया मेलिवि सत्तसठ्ठीए । तेणउई होइ तओ बंधणभेया उ पन्नरस ॥ ७३ ॥ वेउवाहारोरालियाण सगतेयकम्मजुत्ताणं । नव बंधणाणि इयरदुसहियाणं तिन्नि तेसिंपि ॥७४॥ सबेहिवि छूढेहिं तिग
अहिय सय तु होइनामस्स । इय उत्तरपयडाण कम्मट्ठग अहवन्नसय ।। ७५ ।। पञ्चविधं ज्ञानावरणं नव भेदा दर्शनस्य-दर्शनावरणस्य द्वौ वेदनीये अष्टाविंशतिर्मोहनीये चत्वारश्च आयुषि भवन्ति गोत्रे द्वौ पञ्च अन्तरायके त्रिभिरधिकं शतं नामकर्मणि, उत्तरप्रकृतीनामेवं सर्वमीलनेऽष्टपञ्चाशदधिकं शतं भवतीति ।। ५१ ॥ ५२ ।। तत्र यथावं तानेव भेदान् क्रमेण नामग्राहमाह-'मईत्यादिगाथास्त्रयोविंशतिः, तत्र मतिश्रुतावधिमनःपर्यवकेवलानि जीवस्यात्रियन्ते-आच्छाद्यन्ते यत्प्रभावतस्तद् ज्ञानावरणं भवेत्कर्म, किमुक्तं भवति?-ज्ञानावरणं पञ्चप्रकार, तद्यथा-मतिज्ञानावरणं श्रुतज्ञानावरणं अवधिज्ञानावरण मनःपर्यवज्ञानावरणं केवलज्ञानावरणं चेति । तथा दर्शनावरणं बन्धे उदये सत्तायां च त्रिधा प्राप्यते, तद्यथा-कदाचिच्चतुर्धा कदाचित् षोढा कदाचिच्च नवधा, तत्र कथं चतुर्धा ? कथं षोढा ? कथं वा नवधेति त्रीनपि प्रकारान् दर्शयन् प्रथमतश्चतुर्धा दर्शयति-दर्शनावरणं चतुर्धा-चतुष्प्रकारं भवति, कथमित्याह-नयनेतरावधिकेवलेपु-नयनेतरावधिकेवलविषयं तत्, सूत्रे तु सप्तम्या अदर्शनं लोपात्, लोपश्च प्राकृतत्वात् , एष चात्र भावार्थ:-दर्शनावरणं यदा चतुर्धा बन्धे उदये सत्तायां वा विवक्ष्यते तदेवंरूपं तदवगन्तव्यं, यथा नयनदर्शनावरणमितरदर्शनावरणमचक्षुर्दर्शनावरणमित्यर्थः अवधिदर्शनावरणं केवलदर्शनावरणं चेति, तदेव दर्शनावरणचतुष्टयं निद्राप्रचलाभ्यां
238

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310