Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
नैसर्पः पाण्डुकः पिङ्गलकः सर्वरत्नः महापद्मः कालः महाकाल: माणवकः महानिधिः शङ्खश्च, एते नव निधयः, एतेषु च निधिषु कल्पपुस्तकानि शाश्वतानि वर्तन्ते तेषु च विश्वस्थितिराख्यायते ॥ १८ ॥ तत्र यस्मिन्निधौ यदाख्यायते तदाह – 'नेसप्पंमी 'त्यादिगाथा एकादश, नैसर्पे - नैसर्पामिधे निधौ प्रामाकरनगरपत्तनानां द्रोणमुखमडम्बानां स्कन्धावाराणां गृहाणां चशब्दादापणानां च निवेशा:स्थापनान्याख्यायन्ते, तत्र ग्रामो - वृत्त्यावृतः आकरो - यत्र सन्निवेशे लवणाद्युत्पद्यते नगरं - राजधानी पत्तनं - जलस्थलनिर्गमप्रवेशं द्रोणमुखं—जलनिर्गमप्रवेशं अर्धतृतीयगव्यूतान्तर्ग्रामान्तररहितं मडम्बं स्कन्धावारः - कटकनिवेशः गृहं भवनं आपणो - हट्ट इति ॥ १९ ॥ गणितस्य - दीनारादिपूगफलादिलक्षणस्य तथा गीतानां - स्वरकरणपाटकरणधूपकागारुकटिकिकाप्रभृतीनां प्रबन्धानां तथा मानं-सेतिकादि तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः तथा उन्मानं - तुलाकर्षादि तद्विषयं यत्तदप्युन्मानं, खण्डगुडादि धरिममित्यर्थः, ततः समाहारद्वन्द्वः ततस्तस्य यत्प्रमाणं, तथा धान्यबीजानां च - शाल्यादीनां देशकालौचित्येनोत्पत्तिः - निष्पत्तिः पाण्डुकनिधौ भणिताव्यावर्णिता ॥ २० ॥ सर्वोऽप्याभरणविधिर्यः पुरुषाणां यश्च महिलानां तथा अश्वानां हस्तिनां च स यथौचित्येन पिङ्गलनामके महानिधौ भणितः || २१ ॥ इह चक्रवर्तिनश्चतुर्दश रत्नानि सर्वोत्तमानि भवन्ति, तद्यथा - चक्रप्रमुखाणि सप्त एकेन्द्रियाणि सेनापतिप्रमुखाणि सप्तपचेन्द्रियाणि तानि चतुर्दशापि सर्वरत्नाख्ये महानिधौ उत्पद्यन्ते, तदुत्पत्तिस्तत्र व्यावर्णितेत्यर्थः, अन्ये त्वेवमाहुः -- उत्पद्यन्ते एतत्प्रभावात् स्फीतिमन्ति च भवन्तीत्यर्थः ॥ २२ ॥ सर्वेषामपि वस्त्राणां या उत्पत्तिः तथा सर्वेषामपि वस्त्रादिगतानां भक्तिविशेषाणां सर्वेषामपि च रङ्गाणां - मजिष्ठाकृमिरागकुसुम्भादीनां धातूनां च-लोहताम्रादीनां 'धोबाण य'त्ति पाठे तु सर्वेषां वस्त्रादिप्रक्षालनविधीनां या निष्पत्तिः सर्वा चैषा महाप निधावभिधीयते ॥ २३ ॥ काले-कालनामनि निधौ कालज्ञानं - समस्त ज्योतिःशास्त्रानुगतं ज्ञानमिति भावः, तथा जगति त्रयो वंशाः वंशः प्रवाह आवलिकेत्यनर्थान्तरं, तद्यथा - तीर्थकरवंशश्चक्रवर्तिवंशो बलदेववासुदेववंशश्च तेषु त्रिष्वपि वंशेषु यद्भव्यं भावि यश्च पुराणं- अतीतं, उपलक्षणमेतत् वर्तमानं च, 'तिसुवि वासेसु' त्तिपाठे तु अनागतवस्तुविषयमतीतवस्तुविषयं च कालज्ञानं क्रमेणानागतातीतवर्षत्रयगोचरमिति, कचिद् 'भवपुराणं च तिसुवि कालेसु'त्ति पाठः, तत्र च त्रिष्वपि कालेषु - वर्तमानातीतानागतेषु भव्यं - शुभं पुराणं च-अशुभं कालज्ञानमिति, तथा यत् शिल्पशतं - घटलोह चित्रवस्त्रनापितशिल्पानां पश्वानामपि प्रत्येकं विंशतिभेदत्वात् यानि च कृषिवाणिज्यादीनि जघन्य मध्यमोत्कृष्टभेदभिन्नानि त्रीणि कर्माणि प्रजाया हितकराणि तदेतत्सर्वममिधीयते ॥ २४ || महाकाले निधौ लोहस्य नानाभेदभिन्नस्योत्पत्तिराख्यायते, रूप्यसुवर्णमणिमुक्ताशिलाप्रवालानां संबन्धिनामाकराणां च तत्र रूप्यसुवर्णे प्रतीते मणयः - चन्द्रकान्तादयः मुक्ता - मौक्तिकानि शिलाः - स्फाटिकादिका प्रवालानि - विद्रुमाणीति ॥ २५ ॥ माणवके निधौ योधानां - शूरपुरुषाणामावरणानां - खेटकादीनां प्रहरणानां खङ्गादीनां च यत्र यथा वा उत्पत्तिर्भवति तथाऽभिधीयते, तथा सर्वाऽपि युद्धनीतिः-व्यूहरचनादिलक्षणा, सर्वाऽपि च दण्डनीतिः - सामादिचतुर्विधाऽऽख्यायते ॥ २६ ॥ शङ्खामिधाने पुनर्महानिधौ सर्वोऽपि नर्तनविधिः- नृत्यकरणप्रकार: सर्वोऽपि च नाटकविधिः - अभिनेयप्रबन्धप्रपञ्चनप्रकारः, तथा धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धस्य यद्वा संस्कृतप्राकृतापभ्रंशसंकीर्ण भाषानिबद्धस्य गद्यपद्यगेयचौर्णपदबद्धस्य वा चतुर्विधस्यापि काव्यस्य तथा सर्वेषां त्रुटिताङ्गानामातोद्यापरपर्यायाणामुत्पत्तिराख्यायते । अन्ये त्वेते पूर्वोक्ताः पदार्थाः सर्वेऽपि नवसु निधिषु साक्षादेव समुत्पद्यन्ते इति व्याख्यानयन्ति ||२७|| अथ नवानामपि निधीनां साधारणं स्वरूपमाह - 'चक्कठ्ठपई' त्यादि, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानं - अवस्थानं येषां ते अष्टचक्रप्रतिष्ठानाः, प्राकृतत्वादृष्टशब्दस्य परनिपातः, अष्टौ योजनानि उत्सेधः - उच्चैस्त्वं येषां ते तथा, नव च योजनानि विष्कम्भेण नवयोजनविस्तारा इत्यर्थः, द्वादशयोजनदीर्घाः, मञ्जूषासंस्थानसंस्थिताः सदैव जाह्नव्या - गंगाया मुखेऽवस्थिताः चक्रवर्त्तिन उत्पत्तिकाले च भरतविजयानन्तरं चक्रवर्तिना सह पातालेन चक्रवर्तिपुरमनुगताः ॥ २८ ॥ वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयट्प्रत्ययस्य वृत्त्या उक्तार्थता, कनकमयाः - सौवर्णाः विविधरत्नपरिपूर्णाः, शशिसूरचक्राकाराणि लक्षणानि - चिह्नानि येषां ते तथा, प्राकृतत्वात्प्रथमाबहुवचनस्य लोपः, 'अणुसमवयणोववत्तीयत्ति अनुरूपा समा-अविषमा वदनोपपत्तिः - द्वारघटना येषां ते तथा, 'अणुवम' त्तिपाठे तु न विद्यते उपमावचनस्योपपत्तिः - घटना येषां स्वरूपव्यावर्णने ते अनुपमवचनोपपत्तिकाः- उपमया प्रतिपादयितुमशक्याः, उपमाया एवाभावादिति भावः, कचित् 'अणुसमयचयणोववत्तीय' त्तिपाठः, तत्र अनुसमयं - प्रतिसमयं पुद्गलानां च्यवनमुपपत्तिश्च येषां ते तथा, यावन्तस्तेभ्यः पुद्गला गलन्ति तावन्त एवानुसमयं लगन्तीत्यर्थः, स्थानाङ्गे तु 'अणुसमजुगबाहुवयणा यत्ति पठ्यते, तत्र चायमर्थः - अनुसमा - अनुरूपा अविषमा जुगत्ति-यूपस्तदाकारा वृत्तत्वाद्दीर्घत्वाच बाहवो -द्वारशाखा वदनेषु-मुखेषु येषां ते तथा ।। २९ ।। तेषु च निधिषु पल्योपमस्थितिका निधिसदृशनामानस्ते देवा भवन्ति येषां देवानां त एव निधय आवासा - आश्रयाः आधिपत्याय - आधिपत्यनिमित्तमक्रेयाः, न तेषामाधिपत्यं क्रयेण लभ्यमिति भावः ॥ ३० ॥ एते ते नव निधयः प्रभूतधनरत्नसंचयसमृद्धाः ये सर्वेषामपि भरतक्षेत्राधिपचक्रवर्तिनां वशमुपयान्तीति २१३ ॥ ३१ ॥ इदानीं 'जीवसंखा उ'त्ति चतुर्दशोत्तरद्विशततमं द्वारं बिभणिषुः स्वकृतमेव जीवसङ्ख्याप्रतिपादकं कुलकमत्र प्रन्थे निक्षिप्तवान् प्रन्थकारः, तत्र चेयमादिगाथा -
नमि नेमिं एगा जीवसंखं भणामि समयाओ । चेयणजुत्ता एगे १ भवत्थसिद्धा दुहा जीवा २ ॥ ३२ ॥ तस थावरा य दुविहा २ तिविहा थीपुंनपुंसगविभेया ३ । नारयतिरियनरामरगइभे
235

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310