________________
प्रमाद्यति - मोक्षमार्ग प्रति शिथिलोद्यमो भवत्यनेन प्राणीति प्रमादः, स च मुनीन्द्रैः - तीर्थकृद्भिर्भणितः - प्रतिपादितो भवति, अष्टभेद:अष्टप्रकारः, तद्यथा-अज्ञानं मूढता संशयः - किमेतदेवं स्यादुतान्यथेति संदेह: मिथ्याज्ञानं - विपर्यस्ता प्रतिपत्तिः रागः-अभिष्वङ्गः द्वेषः - अप्रीतिः स्मृतिभ्रंशो - विस्मरणशीलता धर्मे चात्प्रणीतेऽनादरः - अनुद्यमः योगानां - मनोवाक्कायानां दुष्प्रणिधानं-दुष्टताकरणं, अयं चाष्टविधोऽपि प्रमादः कर्मबन्धहेतुत्वाद्वर्जयितव्यः - परिहर्तव्य इति २०७ ॥ ७ ॥ ८ ॥ सम्प्रति 'भरहाहिव' त्ति अष्टोत्तरद्विशततमं द्वारमाह
भरहो १ सगरो २ मघवं ३ सणकुमारो य रायसद्दूलो ४ । संती ५ कुंथू ६ य अरो ७ हवह सुभूमो ८ य कोरो ॥ ९ ॥ नवमो य महापउमो ९ हरिसेणो १० चेव रायसद्दूलो । जयनामो ११ य नरवई बारसमो बंभदत्तो य १२ ॥ १० ॥
भरतः प्रथमश्चक्रवर्ती द्वितीयः सगरः - सगरनामा तृतीयो मघवान् चतुर्थः सनत्कुमारो राजशार्दूलः, शार्दूलशब्दः सिंहपर्यायः, राज्ञां शार्दूल इव राजसु वा शार्दूलश्चक्रवर्तीत्यर्थः, पञ्चमः शान्तिनाथः षष्ठः कुन्धुनाथः सप्तमोऽरस्वामी अष्टमः सुभूमो भवति कौरव्यः -कौरव्यगोत्रः नवमो महापद्मः दशमो हरिषेणो राजशार्दूल :- चक्रवर्ती एकादशो जयनामा नरपति: द्वादशो ब्रह्मदत्तः २०८ ॥ ९ ॥ १० ॥ इदानीं 'हलधर'त्ति नवोत्तरद्विशततमं द्वारमाह
अपले १ विजये २ भद्दे ३, सुप्पभे य ४ सुदंसणे ५ । आनंदे ६ नंदणे ७ पउमे ८, रामे यावि ९ अपच्छिमे ॥ ११ ॥
प्रथमो बलदेवोऽचलः द्वितीयो विजयः तृतीयो भद्रः चतुर्थः सुप्रभः पञ्चमः सुदर्शनः षष्ठ आनन्दः सप्तमो नन्दनः अष्टमः पद्मः सीताभर्ता राम इत्यर्थः नवमो रामः - कृष्णसहचरः अपश्चिमः - सर्वान्तिमो, न विद्यते पश्चिमो यस्मादिति व्युत्पत्तेः, २०९ ॥ ११ ॥ सम्प्रति 'हरिणो 'ति दशोत्तरद्विशततमं द्वारमाह
तिविद्दू य १ दुविद्दू य २ सयंभु ३ पुरिमुत्तमे ४ पुरिससीहे ५ । तह पुरिसपुंडरीए ६ दत्ते ७ नारायणे ८ कण्हे ९ ॥ १२ ॥
त्रिपृष्ठः प्रथमो वासुदेवः प्राकृतत्वादार्षत्वाच्च सूत्रे 'तिविद्दू'त्ति निर्देशः, द्वितीयो द्विपृष्ठः तृतीयः स्वयम्भूः चतुर्थः पुरुषोत्तमः पञ्चमः पुरुषसिंहः षष्ठः पुरुषपुण्डरीकः सप्तमो दत्तः अष्टमो नारायणो रामभ्राता लक्ष्मण इत्यर्थः, नवमः कृष्णः २१० ॥ १२ ॥ इदानीं 'पडिवासुदेव' स्येकादशोत्तरद्विशततमं द्वारमाह
आसग्गीवे १ तारय २ मेरए ३ मधुकेढवे ४ निसुंभे ५ य । बलि ६ पहराए ७ तह रावणे य ८ नवमे जरासिंधू ९ ॥ १३ ॥
अश्वमीवः प्रथमः प्रतिवासुदेवः तारको द्वितीयः मेरकस्तृतीयः मधुकैटभश्चतुर्थः, अस्य च मधुरित्येव नाम केवलं कैटभामिधभ्रातृसंबन्धान्मधुकैटभ इत्युच्यते, निशुम्भः पञ्चमः बलिः षष्ठः प्रभाराजः प्रह्लादो वा सप्तमः रावणोऽष्टमः जरासन्धो नवमः, एते सर्वेऽपि त्रिपृष्ठादीनां नवानामपि वासुदेवानां यथाक्रमं प्रतिशत्रवः, तथा सर्वेऽपि चक्रयोधिनः सर्वेऽपि च हताः स्वचत्रैः, यतस्तान्येव प्रतिवासुदेवचक्राणि प्रतिवासुदेवैर्वासुदेवव्यापत्तये क्षिप्तानि पुण्योदयवशाद्वासुदेवान् प्रणम्य वासुदेवहस्ते चटितानि तैः क्षिप्तानि तान्येव प्रतिवासुदेवान् व्यापादयन्ति २११ ॥ १३ ॥ सम्प्रति ' रयणाई चउदस'त्ति द्वादशोत्तरद्विशततमं द्वारमाह—
i
सेणावर १ गाहावर २ पुरोहिय ३ तुरय ४ गय ५ वहुई ६ इत्थी ७ । चकं ८ छतं ९ चम्मं १० मणि ११ कागणि १२ खग्ग १३ दंडो १४ य ॥ १४ ॥ चक्कं १ खग्गं २ च धणू ३ मणी ४ य माला ५ तहा गया ६ संखो ७ । एए सत्त उ रयणा सधेसिं वासुदेवाणं ॥ १५ ॥ चकं छत्तं दंड तन्निवियाई वाममित्तानं । चम्मं दुहत्थदीहं बत्तीसं अंगुलाई असी ॥ १६ ॥ चउरंगुलो मणी पुण तस्सद्धं चैव होइ विच्छिन्नो । चउरंगुलप्पमाणा सुवन्नवरकागिणी नेया ॥ १७ ॥
सेनापतिः १ गृहपतिः २ पुरोहितः ३ तुरगः ४ गजः ५ वर्धकिः ६ स्त्री ७ चक्रं ८ छत्रं ९ चर्म १० मणिः ११ काकिनी १२ खड्गो १३ दण्ड १४ श्वेत्येतानि चतुर्दशापि रत्नानि निगन्द्यते, 'रत्नं निगद्यते तज्जातौ जातौ यदुत्कुष्ट' मिति वचनात् सेनापत्यादिजातिषु वीर्यत उत्कृष्टत्वेन रत्नानीत्युच्यन्ते, तत्र सेनापतिः - दलनायको गङ्गासिन्धुपरपारविजये बलिष्टः १ गृहपतिः - चक्रवर्तिगृहसमुचितेतिकर्तव्यतापरः शाल्यादिसर्वधान्यानां समस्तस्वादुसहकारादिफलानां सकलशाकविशेषाणां निष्पादकश्च २ पुरोहितः - शांन्तिकर्मादिकृत् ३ तुरङ्गमगजौ प्रकृष्टवेगमहापराक्रमादिगुणसमन्वितौ ४-५ वर्धकिः - गृहनिवेशादिसूत्रणाकारी, यस्तमिस्रगुहायां खण्डप्रपातगुहायां चोन्मनजलानिमग्नजलयोर्नद्योश्चक्रवर्त्तिसैन्योत्तरणाय काष्ठमयं सेतुबन्धं करोति ६ स्त्रीरत्नमत्यद्भुतकामसुखनिधानं ७ चक्रं समस्तायुधातिशायि दुर्दमरिपुजयकरं ८ छत्रं चक्रवर्तिहस्तसंस्पर्श प्रभाव संजातद्वादृशयोजनायामविस्तारं सत् वैताढ्य नगोत्तरविभागवर्तिम्लेच्छानुरोधिमेघकुमारवृष्टाम्बुभरनिरसनसमर्थं नवनवतिसहस्रकाच्वनशलाकापरिमण्डितं निर्व्रणसुप्रशस्तकाश्चनमयोद्दण्डदण्ड बस्तिप्रदेशे पञ्जरविराजितं राजलक्ष्मीचिह्नमर्जुनामिधानपाण्डुरस्वर्णप्रत्यवस्तृतपृष्ठदेशं शारदसंपूर्ण पूर्णिमामृगाङ्कमण्डलमनोहरं तपनातपवातवृष्टिप्रभृतिदोषक्षयकारकं ९
233