Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 240
________________ त्वात् , अन्यथा सर्वमव्यवस्थया भवेत् , न चैतद् दृष्टमिष्टं वा, अपिच-मुदादिपक्तिरपि न कालमन्तरेण लोके भवन्ती दृश्यते, किन्तु कालक्रमेण, अन्यथा स्थालीन्धनादिसामग्रीसम्पर्कसम्भवे प्रथमसमयेऽपि मुद्गादिपक्तेर्भावप्रसङ्गः, न च तद्भवति, तस्माद्यत्कृतकं तत्सर्व कालकृतमिति, यदाहुः–'न कालव्यतिरेकेण, गर्भबालशुभादिकम् । यत्किचिजायते लोके, तदसौ कारणं किल ॥ १॥ किंच कालाहते नैव, मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि, ततः कालादसो मता ॥ २॥" द्वितीयश्व भङ्गोऽयं-अस्ति कालतः, एवमुक्तप्रकारेण परतोऽपि द्वौ भङ्गो कर्तव्यो, यथा-अस्ति जीवः परतो नित्यः कालतः, अस्ति जीवः परतोऽनित्यः कालतः, सर्वेषामपि हि पदार्थानां परपदार्थस्वरूपापेक्षया स्वस्वरूपपरिच्छेदः, यथा दीर्घत्वापेक्षया इस्वत्वस्य इखत्वापेक्षया च दीर्घत्वस्य, इत्येवमेवात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वतः, पूर्वेण च स्वत एव इति पदलब्धेन भङ्गद्विकेन युक्तावेतौ भङ्गौ चत्वारो भवन्ति, ते च कालपदेन लब्धाः, एवमनेन प्रकारेण स्वभावप्रमुखा अपि-स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुरश्चतुरो विकल्पान प्राप्नुवन्ति, तथाहि-अस्ति जीवः स्वतो नित्यः स्वभावतः १ अस्ति जीव: स्वतोऽनित्यः स्वभावतः २ अस्ति जीवः परतो नित्यः स्वभावतः ३ अस्ति जीवः परतोऽनित्यः स्वभावतः ४, ते हि स्वभाववादिन एवमाहुः-इह सर्वे भावाः स्वभाववशादुपजायन्ते, तथाहि-मृदः कुम्भो भवति न पटादिः तन्तुभ्योऽपि पट उत्पद्यते न कुम्भादिः, एतच्च प्रतिनियतं भवनं तथास्वभावतामन्तरेण न घटते, तस्मात्सकलमिदं स्वभावकृतमवसेयं, अन्यच्च-आस्तामन्यत्कार्यजातं, इह मुद्गादिपक्तिरपि न स्वभावमन्तरेण भवितुमर्हति, तथाहि-स्थालीन्धनकालादिसमप्रसामग्रीसम्भवेऽपि न काटुकमुगाना पाक्तरुपलभ्यते, तसााद्यद्यद्भावे भवति यदभावे च न भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति स्वभावकृता मुद्पक्तिरप्येष्टव्या, ततः सकलभेवेदं वस्तुजातं स्वभावहेतुकमवसेयमिति । तथा अस्ति जीवः स्वतो नित्यो नियतितः १ तथाऽस्ति जीवः स्वतोऽनित्यो नियतितः २ अस्ति जीवः परतो नित्यो नियतितः ३ अस्ति जीवः परतोऽनित्यो नियतितः ४, नियतिवादिनो ह्येवमाहुः-नियति म तत्त्वान्तरमस्ति यदशादेते भावाः सर्वेऽपि नियतेनैव रूपेण प्रादुर्भवन्ति, नान्यथा, तथाहि-यद्यदा यतो भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते, अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत् , नियामकाभावात् , तत एवं कार्यनयत्यतः प्रतीयमानामेनां नियति को नाम निराकर्तुमलं ?, तथा चोक्तम्-"नियतेनैव रूपेण, सर्वे भावा भवन्ति यत् । ततो नियतिजा ह्येते, तत्स्वरूपानुभेदतः ॥ १॥ यद्यदैव यतो यावत् , तत्तदैव ततस्तथा । नियतं जायते न्यायात्, क एनां बाधितुं क्षमः ? ॥ २ ॥” तथा अस्ति जीवः स्वतो नित्य ईश्वरतः १ अस्ति जीवः स्वतोऽनित्य ईश्वरतः २ अस्ति जीवः परतो नित्य ईश्वरतः ३ अस्ति जीवः परतोऽनित्य ईश्वरतः ४, ईश्वरवादिनो हि सर्व जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहजसिद्धज्ञानवैराग्यधर्मेंश्वर्यरूपचतुष्टयं प्राणिनां च स्वर्गापवर्गयोः प्रेरकमिति, तदुक्तम्-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ १॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् , स्वर्ग वा श्वभ्रमेव वा ॥ २॥” इत्यादि । तथा अस्ति जीवः स्वतो नित्य आत्मनः १ अस्ति जीवः स्वतोऽनित्य आत्मनः २ अस्ति जीवः परतो नित्य आत्मनः ३ अस्ति जीवः परतोऽनित्य आत्मनः ४, आत्मवेदिनो हि विश्वपरिणतिरूपमात्मानमेवैकं प्रतिपन्नाः, यत उक्तम्-'एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥ तथा "पुरुष एवेदं सर्व यद् भूतं यच्च भाव्य"मित्यादि, तदेवं पञ्चमिरपि चतुष्ककैमिलितैर्विशतिर्भङ्गा जाताः, एते च जीवपदेन प्राप्ताः, एवमजीवादिमिरप्यष्टभिः पदैः प्रत्येकं विंशतिर्विकल्पाः प्राप्यन्ते, यथा अस्त्यजीवः स्वतो नित्यः कालत इत्यादि सर्व भावनीयं, इत्यतो विंशतिर्नवमिर्गुणिता शतमशीत्युत्तरं क्रियावादिनां भवति ॥ ९१ ॥ ॥ ९२ ।। ९३ ॥ इदानीमक्रियावादिनां चतुरशीतिसङ्ख्यभङ्गानयनोपायमाह-'इहे'त्यादिगाथाद्वयं, इह अक्रियावादिभेदानयनप्रक्रमे जीवादीनि पूर्वोक्तानि पुण्यपापवर्जितानि सप्त पदानि परिपाट्या पट्टिकादौ स्थाप्यन्ते, तेषां च जीवादिपदानामधोभागे प्रत्येकं स्वपरशब्दद्विकं स्थाप्यते, स्वतः परत इति द्वे पदे न्यस्येते इत्यर्थः, असत्त्वादात्मनो नित्यानित्यविकल्पो न स्तः, तद्धर्मिसिद्ध्यापत्तेः, तस्यापि च-खपरशब्दद्विकस्याधस्तात्कालयदृच्छारूपपदद्वयसमेतमेतन्नियतिस्वभावेश्वरात्मलक्षणं पदचतुष्कं लिख्यते, कालयदृच्छानियतिखभावेश्वरात्मस्वरूपाणि षट् पदानि स्थाप्यन्त इत्यर्थः, इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिन एव, न केचिदपि क्रियावादिनः, ततः प्राग्यदृच्छा नोपन्यस्ता ॥ ९४ ॥ ९५ ॥ अथ विकल्पामिलापमाह-'पढमे'त्यादिगाथात्रयं, नास्ति जीवः स्वतः कालत इति प्रथमो भङ्गः, तदनु नास्ति जीवः परतः कालत इति द्वितीयो भङ्गः, एतौ द्वौ च भङ्गो कालेन लब्धौ, एवं यदृच्छादिभिरपि पञ्चमिः पदैः प्रत्येकं द्वौ द्वौ विकल्पो प्राप्यते, सर्वेऽपि मिलिता द्वादश, अमीषां च विकल्पानामर्थः प्राग्वद्भावनीयः, नवरं यदृच्छात इति-यदृच्छावादिनां मते, अथ के ते यदृच्छावादिनः?, उच्यते, इह ये भावानां संतानापेक्ष्या न प्रतिनियतं कार्यकारणभावमिच्छन्ति किंतु यदृच्छया ते यहच्छावादिनः, तथा च एत एवमाहुः-न खलु प्रतिनियतो वस्तूनां कार्यकारणभावः, तथाप्रमाणेनाग्रहणात्, तथाहि-शालकादपि शालूको जायते गोमयादपि, अग्नेरप्यग्निर्जायते अरणिकाष्ठादपि, जायते धूमादपि धूमोऽग्नीन्धनसंपर्कादपि, कन्दादपि जायते कदली बीजादपि, वटादयोऽपि बीजादुपजायन्ते शाखैकदेशादपि, ततो न प्रतिनियतः कचिदपि कार्यकारणभाव इति यदृच्छातः क्वचिदपि किंचिद्भवतीति प्रतिपत्तव्यं, न खल्वन्यथा वस्तुसद्धावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिक्लेशयन्ति, एते च द्वादश विकल्पा जीव 231

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310