Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 238
________________ त्यमाह-रोमे'त्यादि, शरीरपर्याप्त्या पर्याप्ताः मतान्तरेण सर्वस्वयोग्यपर्याप्तिपर्याप्ता एकेन्द्रिया नैरयिकाः सुरगणाश्च सर्वे लोमाहारा एव ज्ञातव्याः, न पुनः प्रक्षेपाहाराः, तत्र एकेन्द्रियाणां प्रक्षेपाहाराभावो मुखाभावात् , नैरयिकदेवानां तु वैक्रियशरीरतया तथास्वभावात् , उक्तं च-"एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो ॥ १॥" [एकेन्द्रियदेवानां नैरयिकाणां च नास्ति प्रक्षेपः । शेषाणां जीवानां संसारस्थानां प्रक्षेपः ॥ १॥] शेषाणां-द्वित्रिचतुरिन्द्रियाणां तिर्यपञ्चेन्द्रियाणां मनुष्याणां चाहारो लोनि-लोमविषयः प्रक्षेपतश्च भवति, उभयरूपस्याप्याहारस्य तेषां सम्भवात् ॥ ८२ ॥ अथ देवानामाहारविषयं विशेषमाह-'ओये'त्यादि, सर्वेऽपि भवनपत्यादयः सुरगणा अपर्याप्तावस्थायामोजआहाराः, पर्याप्तावस्थायां मनोभक्षिणो-मनसा चिन्तितोपनतान् सकलेन्द्रियाहादकमनोज्ञपुद्गलान् भक्षयन्तीव भक्षयन्ति-वैक्रियशरीरेणात्मसात्कुर्वतीत्येवंशीला मनोभक्षिणः, इयमत्र भावना-यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्ते उष्णाः पुद्गला वा उष्णयोनिकस्य तथा देवैरपि मनसाऽभ्यवहियमाणाः पुद्गलास्तेषां तृप्तये परमसन्तोषाय चोपकल्पन्ते, तत आहारविषयाभिलापनिवृत्तिर्भवतीति, शेषाः-सुरव्यतिरिक्ता जीवा नैरयिकादयोऽपर्याप्तावस्थायामोजआहाराः, पर्याप्तास्तु लोमाहारा ज्ञातव्याः, न पुनर्मनोभक्षिणः, मनोभक्षणलक्षणो ह्याहारः स उच्यते ये तथाविधशक्तिवशान्मनसा स्वशरीरपुष्टिजनकाः पुद्गला अभ्यवह्रियन्ते यदभ्यवहरणानन्तरं च तृप्तिपूर्वः परमसन्तोष उपजायते, न चैतन्नैरयिकादीनामस्ति प्रतिकूलकर्मोदयवशतस्तेषां तथारूपशक्त्यभावात् ।। ८३ ॥ पुनरत्रैव विशेषमाह-'अपजेत्यादि, आभोगनमाभोगः-आलोचनमभिसन्धिरित्यर्थः आभोगेन निर्वर्तितः-उत्पादित आभोगनिर्वर्तितः आहारयामीतीच्छापूर्व निर्मापित इतियावत् , तद्विपरीतोऽनाभोगनिर्वर्तितः, आहारयामीति विशिष्टेच्छामन्तरेण निष्पाद्यते यः प्रावृट्काले प्रचुरतरमूत्राद्यभिव्यङ्ग्यशीतपुद्गलाद्याहारवत् सोऽनाभोगनिर्वर्तित इति भावः, अत्रापर्याप्तकानां सुराणामोजआहारोऽनाभोगनिर्वर्तितः-अनाभोगसम्पादितो भवति, मनःपर्याप्तेरभावात् आभोगासम्भवात् , पर्याप्तानां पुनर्यो मनोभक्षणेन-मनसा सञ्चिन्य विशिष्टपुद्गलाभ्यवहरणेनाहारः स भाभोगनिर्मितः-आभोगसम्पादितो भवति ॥ ८४॥ सम्प्रति सागरोपमसङ्ख्यया आहारोच्छासयोः कालमानमाह-'जस्से'त्यादि, देवानां मध्ये यस्य देवस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावद्भिः पक्षैरुच्छोसः-शरीरान्तर्गतप्राणपवनोत्सर्पणं प्रवर्तते, तावद्भिश्च वर्षसहस्रैराहारः-आहारामिलापः, यथा-यस्य देवस्यैकं सागरोपमं स्थितिस्तस्यैकस्मिन् पक्षेऽतिक्रान्ते उच्छ्रासः एकस्मिन् वर्षसहस्रे आहारः, यस्य द्वे सागरोपमे तस्य पक्षद्वये उच्छासो वर्षसहस्रद्वये आहारः, यावत् त्रयस्त्रिंशत्सागरोपमाणि यस्य स्थितिस्तस्य त्रयस्त्रिंशत्पक्षातिक्रमे उच्छासः त्रयस्त्रिंशद्वर्षसहस्रातिक्रमे आहारः, देवेषु हि यो यथा महायुः स तथा सुखी, सुखितानां च यथोत्तरं महानुच्छासनिःश्वासक्रियाविरहकालः, दुःखरूपत्वादुच्छासनिःश्वास क्रियायाः, ततो यथा यथाऽऽयुषः सागरोपमवृद्धिस्तथा तथोच्छासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः, आहारक्रियायास्तु ततोऽप्यतिदुःखरूपत्वाद्वर्षसहस्रवृद्धिः ।। ८५ ।। अथ जघन्यायुषामाहारोच्छासयोः कालमानमाह-दसे'त्यादि, ये देवा-भवनपतयो व्यन्तराश्च जघन्यं दशवर्षसहस्राण्यायुर्धरन्ति तेषामाहारः-आहाराभिलाषश्चतुर्थाद्-अहोरात्रादुत्पद्यते, सति चाहारामिलाषे मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेनाहारतया परिणमन्ति, तथा तेषामेव-दशवर्षसहस्रधारिणां देवानां सप्तमिः स्तोकैःआधिव्याधिरहितमनुष्यसत्कोच्छासनिःश्वाससप्तकप्रमाणैः कालविशेषैरुच्छासः, सप्तसप्तस्तोकातिक्रमे एवोच्छ्रसन्ति, शेषकालं च तदाबाधया रहिताः स्तिमिता एव तिष्ठन्तीत्यर्थः ।। ८६ ॥ अथ वर्षसहस्रदशकस्थितेरूद्ध यावत्सागरोपमं पूर्णमेतावत्यन्तराले आहारोच्छासकालमानमाह-दसवे'त्यादि येषामुक्तेभ्यः शेषाणां देवानां दशवर्षसहस्राणि समयादीनि-समयावलिकामुहूर्तदिवसमाससंवत्सरयुगाद्यधिकानि यावकिश्चिदूनं सागरोपममायुःस्थितिः तेषां दिवसपृथक्त्वादाहारो मुहूर्तपृथक्त्वादुच्छासश्च, सूत्रे च-'पुहत्ते ति एकवचननिर्देशो जात्यपेक्षः, ततोऽयं भावार्थ:-दशवर्षसहस्रेभ्य ऊर्द्ध समयादिवृद्धौ यथाक्रममाहारोच्छ्रासयोर्दिवसमुहूर्तपृथक्त्वानि तावद्वर्धनीयानि यावत्परिपूर्णसागरोपमायुष पक्षादुच्छासो वर्षसहस्रादाहार इति, तथा एकेन्द्रियाणामाहाराभिलाषः सततं, विकलेन्द्रियनारकाणामुत्कर्षतोऽन्तर्मुहूर्तात् पञ्चेन्द्रियतिरश्चामहोरात्रद्वयातिक्रमात् मनुष्याणां चाहोरात्रत्रयातिक्रमादिति, उच्छासोऽपि नारकाणां निरन्तरं एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यङनराणां पुनरनियतमात्रः २०५ ॥ ८७ ॥ सम्प्रति 'तिन्नि सया तेवद्रा पासंडीणं'ति षडुत्तरद्विशततमं द्वारमाह असीइसयं किरियाणं १८० अकिरियवाईण होइ चुलसीई ८४ । अन्नाणिय सत्तट्ठी ६७ वेणइयाणं च बत्तीसं ३२॥ ८८ ॥ जीवाइनवपयाणं अहो ठविनंति सयपरयसदा । तेसिंपि अहो निच्चानिच्चा सद्दा ठविजन्ति ।। ८९ ।। काल १ स्सहाव २ नियई ३ ईसर ४ अप्पत्ति ५ पंचवि पयाइं । निच्चानिचाणमहो अणुक्कमेणं ठविनंति ॥९०॥ जीवो इह अत्थि सओ निच्चो कालाउ इय पढमभंगो । बीओ य अत्थि जीवो सओ अनिचो य कालाओ॥९१ ॥ एवं परओऽवि हु दोन्नि भंगया पुच्चदुगजुया चउरो । लद्धा कालेणेवं सहावपमुहावि पावंति ॥ ९२ ॥ पंचहिवि चउक्केहिं पत्ता जीवेण वीसई भंगा । एवमजीवाईहिवि य किरियावाई असिइसयं ॥ ९३ ॥ इह जीवाइपयाइं पुन्नं पावं विणा ठविवन्ति । तेसिमहोभायम्मि ठविजए सपरसद्ददुगं ॥ ९४ ।। 229

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310