Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 237
________________ परिणामविसुद्धीए देवाउयकम्मबंधजोगाए । पंचिंदियाउ गच्छे नरतिरिया सेसपडिसेहो ॥७७॥ आईसाणा कप्पा उववाओ होइ देवदेवीणं । तत्तो परं तु नियमा देवीणं नत्थि उववाओ ॥७८॥ परिणमनं परिणामो-मानसिको व्यापारविशेषः, स च द्विधा-विशुद्धोऽविशुद्धश्च, तत्र यो विशुद्धः स देवगतिकारणमिति तत्प्रतिपादनार्थ विशुद्धिग्रहणं, परिणामस्य विशुद्धिः परिणामविशुद्धिः तया, प्रशस्तेन मानसव्यापारणेत्यर्थः, एतेन शुभाशुभगत्यवाप्तौ मनोव्यापारस्यैव प्राधान्यमाह, सापि च परिणामविशुद्धिः काऽप्युत्कर्ष प्राप्ता मुक्तिपदस्यैव प्रापिका, अतस्तन्निवृत्त्यर्थमाह-देवायुःकर्मबन्धनयोग्यया हेतुभूतया पञ्चेन्द्रियाः, तुशब्द एवकारार्थः पञ्चेन्द्रिया एव नैकेन्द्रियद्वीन्द्रियादय इत्यर्थः, नरा-मनुष्यास्तिर्यश्चश्च देवेषु मध्ये गच्छन्ति, शेषाणां तु सुरनारकाणां देवगतिगमने प्रतिषेधो ज्ञातव्यः, न खलु देवा नारका वा स्वायुःक्षयेऽनन्तरं देवत्वेनोत्पद्यन्त इति ॥ ७७ ॥ सम्प्रति प्रसंगतो देवदेवीनामुत्पत्तिस्थानमाह-'आईसाणे'त्यादि, आ ईशानात्-ईशानकल्पभभिव्याप्य, किमुक्तं भवति ?-भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवेषु देवानां देवीनां चोपपातो-जन्म भवति, ततः-ईशानात्परमूर्द्ध सनत्कुमारादिषु देवीनामुपपातो नास्ति, किन्तु देवानामेव केवलानां, केवलं सनत्कुमारादिदेवानां रताभिलाषे सति देव्यः खल्वपरिगृहीताः सौधर्मादीशानाच सहस्रारं यावद्गच्छन्ति न परत इति, तथा अच्युतात्परतः सुराणामपि गमागमौ न स्तः, तत्राधस्तनानामूर्द्ध शक्त्यभावात् , उपरितनानां विहागमने प्रयोजनाभावात् , अवेयकानुत्तरसुरा हि जिनजन्ममहिमादिष्वपि नात्रागच्छन्ति, किन्तु स्वस्थानस्था एव भक्तिमातन्वते, संशयप्रश्ने चावधिज्ञानतो भगवत्प्रयुक्तानि मनोद्रव्याणि साक्षादवेत्य तदाकारान्यथानुपपत्त्या जिज्ञासितमर्थ निश्चिन्वन्ति, न चान्यत्प्रयोजनं, तन्न तेषामिहागम इति २०३ ॥ ७८ ॥ सम्प्रति 'विरहो सिद्धिगईए'त्ति चतुरुत्तरद्विशततमं द्वारमाह- . ___ एकसमओ जहन्नो उक्कोसेणं तु जाव छम्मासा । विरहो सिद्धिगईए उबट्टणवजिया नियमा॥७९॥ एकः समयो जघन्यतः सिद्धिगतौ विरहः-अन्तरं भवति, उत्कर्षतस्तु यावत् षण्मासाः, सा च सिद्धिगतिर्नियमात्-निश्चयेनोद्वर्तनवर्जिता, न खलु सिद्धास्ततः कदाचनाप्युद्वर्तन्ते, तद्धेतूनां कर्मणां निर्मूलमुन्मूलितत्वात् , उक्तं च-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥२०४ ॥ ७९ ॥ सम्प्रति 'जीवाणाहारगहणऊसास'त्ति पञ्चोत्तरद्विशततमं द्वारमाह सरिरेणोयाहारो तयाय फासेण रोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायवो ॥८॥ ओयाहारा जीवा सबे अपजत्तगा मुणेयवा। पज्जत्तगा य लोमे पक्खेवे हुंति भइयत्वा ॥ ८१ ॥ रोमाहारा एगिदिया य नेरइयसुरगणा चेव । सेसाणं आहारो रोमे पक्खेवओ चेव ।। ८२॥ ओयाहारा मणभक्खिणो य सवेऽवि सुरगणा होति । सेसा हवंति जीवा लोमाहारा मुणेयवा ॥८३॥ अपज्जत्ताण सुराणऽणाभोगनिवत्तिओ य आहारो । पजत्ताणं मणभक्खणेण आभोगनिम्माओ ॥ ८४ ॥ जस्स जइ सागराइं ठिइ तस्स य तेत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो॥ ८५॥ दसवाससहस्साई जहन्नमाऊ धरति जे देवा । तेसि चउत्थाहारो सत्तहिं थोवेहिं ऊसासो ॥८६॥ दसवाससहस्साई समयाई जाव सागरं ऊणं । दिवसमुहत्तपुहुत्ता आहारूसास सेसाणं ॥ ८७॥ 'सरीरे'त्यादिगाथाष्टकं, शरीरेणैव केवलेन य आहारः स ओजाहारः, एतदुक्तं भवति-यद्यप्यौदारिकवैक्रियाहारकतैजसकार्मणभेदतः शरीरं पञ्चधा तथाऽपीह तैजसेन तत्सहचारिणा कार्मणेन च शरीरेण पूर्वशरीरत्यागे विग्रहेणाविग्रहेण चोत्पत्तिदेशं प्राप्तः सन् जन्तुर्यत्प्रथममौदारिकादिशरीरयोग्यान् पुद्गलानाहारयति यञ्च द्वितीयादिसमयेष्वप्यौदारिकादिमिश्रेणाहारयति यावच्छरीरनिपत्तिः एष सर्वोऽप्योजआहारः, ओजसा-तैजसशरीरेणाहार ओजआहारः, सकारवर्णलोपादोजाहारो वा, यद्वा ओजः-स्वजन्मस्थानोचितः शुक्रानुविद्धशोणितादिपुद्गलसङ्घातस्तस्याहार ओजाहारः, तथा त्वचा-त्वगिन्द्रियेण यः स्पर्शस्तेन य आहारः शरीरोपष्टम्भकानां शिशिरप्रावृट्कालादिभाविनां शीतजलादिपुद्गलानां ग्रहणं स लोमभिः-लोमरन्धेराहारः प्रचुरतरमूत्राद्यमिव्यङ्ग्यो लोमाहारः, यः पुनराहारः कावलिक:-कवलैर्निष्पन्नो भवति स प्रक्षेपाहारो ज्ञातव्यः, प्रक्षेपणं-मुखे प्रवेशनं प्रक्षेपः तेनौदनादेराहारः प्रक्षेपाहारः, अथवा प्रक्षिप्यत इति प्रक्षेपः-ओदनकवलादिस्तस्याहारः प्रक्षेपाहारः॥ ८०॥ अथ यस्यामवस्थायां जीवानां य आहारस्तदाह-ओयाहारे'त्यादि, ओजः-उत्पत्तिदेशे स्वशरीरयोग्यः पुद्गलसमूहस्तदाहारयन्तीत्योजआहाराः यद्वा ओजः-तैजसशरीरं तेनाहारो येषां ते ओजआहारा जीवाः सर्वेऽप्येकेन्द्रियादयः पञ्चेन्द्रियान्ता अपर्याप्ता मन्तव्याः, अपर्याप्तत्वं च शरीरपर्याप्तिमपेक्ष्य नाहारपर्याप्ति, तदपर्याप्तानामनाहारकत्वात् , सर्वाभिः स्वयोग्यपर्याप्तिभिरपर्याप्ता ओजआहारा इत्यन्ये, तथा पर्याप्ताः-शरीरपर्याप्त्या पर्याप्ताः मतान्तरेण सर्वामिः खयोग्यपर्याप्तिभिः पर्याप्ताः सर्वे जीवा लोनि-लोमाहारे नियमतो भवन्ति, पर्याप्तानां सर्वेषामपि जीवानां सर्वदापि लोमाहारो भवत्येवेति भावः, तथा च धर्माद्यमितप्ताश्छायया शीतलानिलसलिलस्पर्शनेन वा प्रीयन्ते प्राणिनः, प्रक्षेपे-प्रक्षेपाहारे भवन्ति भजनीया:-यदेव कवलप्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारो नान्यदा, लोमाहारता तु पवनादिस्पर्शनात् सदैवेति ॥ ८१॥ अवैकेन्द्रियादीनां पृवगाहारनैय 228

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310