Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
तत्त्वेन - जीवपदेन संप्राप्ता - लब्धाः, एवमजीवादिभिरपि षङ्गिः पदैः प्रत्येकं द्वादश द्वादश विकल्पाः प्राप्ताः, ततो द्वादशभिः सप्त गुणिता जाताश्चतुरशीतिः, सर्वसङ्ख्यया चाक्रियावादिनामेते भेदा भवतीति ।। ९६ ।। ९७ ।। ९८ ४ इदानीमज्ञानिकानां सप्तषष्टिसभेदानयनोपायमाह – 'संते' त्यादिगाथाद्वयं, सत्त्वं १ असत्त्वं २ सदसत्वं ३ अवक्तव्यत्वं ४ सदवक्तव्यत्वं ५ असदवक्तव्यत्वं ६ सदसद्वक्तव्यत्वं ७ चेति सप्त पदानि - सप्त भङ्गाः, तत्र सत्त्वं-स्वरूपेण विद्यमानत्वं, असत्त्वं- पररूपेणाविद्यमानत्वं सदसत्त्वं - स्वपररूपाभ्यां विद्यमानत्वाविद्यमानत्वं, तत्र यद्यपि सर्वं वस्तु स्वपररूपाभ्यां सर्वदैव स्वभावत एव सदसत् तथापि कचित् किञ्चित्कदाचिदुद्भूतं प्रमात्रा विवक्ष्यते तत एवं त्रयो विकल्पा भवन्ति, तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकेन शब्देन वक्तुमिष्यते तदा तद्वाचकः शब्दः कोऽपि न विद्यते इति अवक्तव्यत्वं यदा त्वेको भागः सन्नपरश्वावक्तव्यो युगपद्विवक्ष्यते तदा सदवक्तव्यत्वं यदा त्वेको भागोऽसन्नपरश्वावक्तव्यो युगपद्विवक्ष्यते तदाऽसदवक्तव्यत्वं, यदा त्वेको भागः सन्नपरश्चासन् अपरश्चावक्तव्यस्तदा सद्सदवक्तव्यत्वमिति । न चैतेभ्यः सप्तविकल्पेभ्योऽन्यो विकल्पः संभवति, सर्वस्यैतेष्वेव मध्येऽन्तर्भावात् इह च घटमाश्रित्य किश्चिद्भावना प्रदर्श्यते, तथाहि - ओष्ठप्रीवाकपालकुक्षिबुघ्नादिभिः स्वपर्यायैः सद्भावेन विशेषितः कुम्भः कुम्भो भण्यते, सन् घट इति प्रथमो भङ्गो भवतीत्यर्थः १ तथा पटादिगतैस्त्वकाणादिभिः परपर्यायैरसद्भावेन विशेषितोऽकुम्भो भवति, सर्वस्यापि घटस्य परपर्यायैर सत्त्वविवक्षायामसन घट इति द्वितीयो भङ्गो भवतीत्यर्थः २ तथा एकस्मिन् देशे स्वपर्यायसत्त्वेन अन्यत्र तु देशे परपर्यायासन्त्वेन विवक्षितो घटः संवासंश्च भवति, घटोऽघटश्च भवतीत्यर्थः ३ तथा सर्वोऽपि घटः स्वपरोभयपर्यायैः सद्भावासद्भावाभ्यां विशेषितो युगपद्वक्तुमिष्टोऽवक्तव्यो भवति, खपरपर्याय सत्त्वासत्त्वाभ्यामेकेन केनाप्यसांकेतिकेन शब्देन सर्वस्यापि तस्य युगपद्वक्तुमशक्यत्वात् ४ तथा एकस्मिन् देशे स्वपर्यायैः सत्त्वेन विशेषितोऽन्यत्र तु देशे स्वपरोभयपर्यायैः सत्त्वासत्त्वाभ्यां युगपदसांकेतिकेनैकेन शब्देन वक्तुं विवक्षितः कुम्भः संश्चावक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वादेशे चावक्तव्यत्वादिति ५ तथा एकदेशे परपर्यायैरसत्त्वेन विशेषितोऽन्यस्मिंस्तु देशे स्वपरपर्यायैः सत्त्वासत्त्वाभ्यां युगपदसांकेतिकेनैकेन शब्देन वक्तुं विवक्षितः कुम्भोऽसन्नवक्तव्यश्च भवति, अकुम्भोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्याकुम्भत्वात् देशे चावक्तव्यत्वादिति ६ तथा एकदेशे स्वपर्यायैः सत्त्वेन विशेषितः एकस्मिंस्तु देशे परपर्यायैरसत्त्वेन विशेषितोऽन्यस्मिंस्तु देशे स्वपरोभयपर्यायैः सत्त्वासत्त्वाभ्यां युगपदेकेन शब्देन वक्तुं विवक्षितः कुम्भः संश्वासंश्चावक्तव्यश्च भवति, घटोऽघटोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वाद्देशेऽघटत्वादेशेऽवक्तव्यत्वादिति ७, एवं सप्तभेदो घटः, एवं पटादिरपि द्रष्टव्य एवेति एतानि च सप्त पदानि जीवादीनां नवानां पदानां परिपाट्या पट्टिकादौ विन्यस्तानामधस्तात्क्रमेण प्रत्येकं स्थापयित्वा यथा-येन प्रकारेण क्रियतेऽमिलापस्तथा साहिष्यत इति-कथ्यते निशमयत-शृणुत, एतच शिष्याणामवहितत्वोत्पादनार्थमुक्तमिति ॥ ९९ ॥ १२०० ॥ तमेवाभिलापमाह - 'संतो' इत्यादिगाथाद्वयं, सन् जीव इति को वेत्ति ? किं वा तेन ज्ञातेनेति प्रथमो भङ्गः, अस्य चायमर्थः - न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियमात्मानमवभोत्स्यते, न च तेन ज्ञातेनापि किश्चित्फलमस्ति, तथाहि--यदि नित्यः सर्वगतोऽमूर्ती ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वाऽऽत्मा ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेयः, एवं शेषैरप्यसदादिभिः षङ्गिः पदैर्जीवभङ्गा भवन्ति, असन् जीवः को बेत्ति ? किं वा तेन ज्ञातेनेत्यादि, इति जाता जीवपदस्य सप्त भङ्गाः, एवमजीवादीनामप्यष्टानां पदानां प्रत्येकं सप्त सप्त भङ्गा भवन्ति, सर्वेऽपि मिलितास्त्रिषष्टिः, तथाऽन्येऽपि - अमी वक्ष्यमाणाः हुशब्दस्यावधारणार्थत्वाच्चत्वार एव भङ्गा इह - अज्ञानिकप्ररूपणप्रक्रमे भवन्ति ॥ १ ॥ ॥ २ ॥ तानेवाह - 'संती' त्यादिगाथाद्वयं, सती भावोत्पत्तिः को जानाति ? किं वाऽनया ज्ञातया ? १ एवमसती भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया ? २ सदसती भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया ? ३ अवक्तव्या भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया ? ४ एतेषां च भङ्गानामयं तात्पर्यार्थः - इह पदार्थस्योत्पत्तिः किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानाति ? ज्ञातेन वा न किञ्चिदपि प्रयोजनमिति, शेषविकल्पत्रयं तु उत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम्, एतैश्चतुर्भिङ्गैर्मिलितैः त्रिषष्टिमध्ये प्रक्षिप्तैर्जाता एषा भङ्गकानां सप्तषष्टिरज्ञानिकानामिति ॥ ३ ॥ ४ ॥ इदानीं वैनयिकानां द्वात्रिंशद्भेदानाह'सुरे’त्यादिगाथाद्वयं, सुरा - देवाः नृपतयो - राजानः यतयो - मुनयः ज्ञातयः - स्वजनाः स्थविरा - वृद्धाः अवमा-अनुकम्पनीयाः कार्पकादयः मातापितरौ प्रतीतौ एतेषामष्टानां प्रत्येकं मनोवचनकायदानैश्चतुर्विधो विनयः क्रियते, तद्यथा - सुराणां विनयं करोति मनसा तथा वाचा तथा कायेन तथा देशकालोपपन्नदानेन इत्यादि, एते च विनयांदेव केवलात्स्वर्गापवर्गमार्गमभ्युपगच्छन्ति, विनयश्च नीचैर्वृत्त्यनुत्सेकलक्षणः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठन् स्वर्गापवर्गभाग्भवतीति, तदेवमेतेऽष्टावपि भङ्गा चतुष्केण गुणिता द्वात्रिंशद्वैनयिकभेदा भवन्तीति । सर्वैरप्येतैः पूर्वोक्तैः क्रियाऽक्रियाऽज्ञानवैनयिकवादिभेदैः पिंडितैः - एकीकृतैस्त्रीणि त्रिषष्ट्यधिकानि पाखण्डिनां शतानि भवन्तीति । एतेषां च प्रतिक्षेपः सूत्रकृताङ्गादिभ्यः समवसेयः २०६ || ५ || ६ || सम्प्रति 'अट्ठहा पमाय'त्ति सप्तोत्तरद्विशततमं द्वारमाह
माओ य मुणिंदेहिं, भणिओ अट्टभेयओ । अन्नाणं १ संसओ २ चेव, मिच्छानाणं ३ तहेव य ॥ ७ ॥ रागो ४ दोसो ५ मइन्भंसो ६, धम्मंमि य अणायरो ७ । जोगाणं दुप्पणिहाणं ८, अट्ठहा वज्जियओ ॥ ८ ॥
232

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310