Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
एकैके च द्विधा मेरोदक्षिणदिग्भागवर्तिनो मेरोरेवोत्तरदिग्भागवर्तिनश्च, तत्रासुरकुमाराणां दक्षिण दिग्भाविनामिन्द्रश्चमरः उत्तरदिग्भाविनां च बलिः, तत्र 'चमरबलि सारमहियंति पदैकदेशेऽपि पदसमुदायोपचारात् 'सार'मिति सागरोपमं द्रष्टव्यं, प्राकृतत्वाचमरबलिशब्दाभ्यां परतः षष्ठीविभक्तेर्लोपः, ततोऽयमर्थः-चमरबल्योः क्रमेण सागरोपममधिकं चोत्कृष्टमायुः, किमुक्तं भवति ?-चमरस्यासुरेन्द्रस्य दक्षिणदिग्वर्तिन उत्कृष्टमायुरेक परिपूर्ण सागरोपमं, बलेरसुरेन्द्रस्य उत्तरविग्वर्तिनः सागरोपमं किञ्चित्समधिकमिति, सम्प्रति शेषाणां चमरबलिव्यतिरिक्तानां सुराणां-देवानां नागकुमाराद्यधिपतीनामित्यर्थः आयुर्वक्ष्ये, तदेव कथयति-'दाहिणदिवडपलियं दो देसूणुत्तरिल्लाणं' इत्यादि, दाक्षिणात्यानां नागकुमाराधधिपतीनां-धरणप्रमुखानां नवानामिन्द्राणामुत्कृष्टमायुः द्वितीयमधं यस्य तद् व्यर्ध पस्योपमं, साध पल्योपममित्यर्थः, 'उत्तरिल्लाण'ति उत्तराहाणां-उत्तरदिग्भाविनां नागकुमारादीन्द्राणां भूतानन्दप्रभृतीनां नवानां देशोने-किश्चिदूने द्वे पल्योपमे, उत्तरदिग्वर्तिनो ह्येते स्वभावादेव शुभाश्चिरायुषश्च भवन्ति, दक्षिणदिग्वर्तिनस्तु तद्विपरीता इति ॥३८॥ इत्युक्तं भवनवासिनां देवानां उत्कृष्टमायुः, सम्प्रति भवनवासिव्यन्तरदेवीनामाह-'अद्धट्टे'त्यादि, असुरयो:-असुरेन्द्रयोश्चमरबलिनानोयुगलं असुरयुगलं तस्य देवीनां यथाक्रममुत्कृष्टमायुरर्धचतुर्थानि अर्धपञ्चमानि च पल्योपमानि, चमरेन्द्रदेवीनां सार्धानि त्रीणि बलीन्द्रदेवीनां तु सार्धानि चत्वारि पल्योपमानीत्यर्थः, शेषाणां नागकुमाराद्यधिपतीनां तूत्तरदिग्वर्तिनां तथा 'वण'त्ति वनचराणां-व्यन्तराणामुत्तरदक्षिणदिग्वर्तिनां चशब्दात् दक्षिणदिग्भाविनागकुमाराधधिपतीनां च सम्बन्धिनीनां देवीनां यथाक्रममुत्कृष्टमायुर्देशोनं पल्योपममर्धपल्योपमं च, इयमत्र भावना-उत्तरदिग्भाविनागकुमाराद्यधिपतिदेवीनामुत्कृष्टमायुर्देशोनं पल्योपमं, दक्षिणदिग्भाविनागकुमाराघधिपतिदेवीनां दक्षिणोत्तरदिग्भाविव्यन्तराधिपतिदेवीनां चोत्कृष्टमायुरध पल्योपममिति, केचिद्व्यन्तरीणां पल्योपममुत्कृष्टमायुराहुः "श्रीह्नीधृतिकीर्तिबुद्धिलक्ष्म्यः पस्योपमस्थितय” इति वचनश्रवणात् , तच तेषामागमानवगमविजृम्भितं, यदुक्तं प्रज्ञापनायाम्"वाणमंतरीणं भंते ! केवइकालं ठिई पनत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं अद्धपलिओवम"मिति, श्रीप्रभृतयस्तु भवनपतिदेव्यः, तथा च सङ्ग्रहणीटीकायां हरिभद्रसूरि:-"तासां भवनपतिनिकायान्तर्गतत्वादि"ति ॥ ३९ ॥ अथ भवनपतिव्यन्तरदेवदेवीनां जघन्यां व्यन्तरदेवानामुत्कृष्टां च स्थितिमाह-दसे'त्यादि, सूचकत्वात्सूत्रस्य 'भवण'त्ति भवनपतिदेवानां, उपलक्षणत्वात्तदेवीनां च वनचराणां-व्यन्तरदेवानां तदेवीनां च जघन्येन स्थितिर्दश वर्षसहस्राणि, जघनं-अधस्तानिकृष्टो भागः तत्र भवं जघन्यंरोममलादि तच किल स्तोकं ततोऽन्यदपि स्तोकं लक्षणया जघन्यमित्युच्यते, केवलं भावप्रधानत्वानिर्देशस्य जघन्येन-जघन्यतया सर्वस्तोकतयेत्यर्थः, तथा व्यन्तराणां-ज्यन्तरदेवानामुत्कृष्टां स्थिति विजानीयात् पल्योपमप्रमाणां, तदेवीनां तु पस्योपमार्धमुत्कृष्टा स्थितिः प्रागेवोकेति ॥४०॥ सम्प्रति ज्योतिष्कदेवदेवीनामुत्कृष्टां जघन्यां च स्थितिमाह-'पलिये'त्यादिगाथाद्वयं, ज्योतिष्कदेवास्तावश्चन्द्रादित्यग्रहनक्षत्रतारकभेदात्पञ्चविधाः तदेव्योऽपि पचविधा इति सर्वेऽपि दशविधाः, तत्र शशिनां-असोयद्वीपसमुद्रवर्तिचन्द्रविमानवासिदेवानां सवर्षलक्षं-वर्षणां लक्षेणाधिकं पल्योपममुत्कृष्टमायुः, एवं रवीणां-आदित्यानामशेषाणां ससहस्र-वर्षाणां सहस्रणाधिकं पल्योपममुत्कृष्टमायुः, तथा प्रहनक्षत्रताराणां पल्योपमं पल्योपमा पल्योपमचतुर्भागश्च यथाक्रममुत्कृष्टमायुः, इयमत्र भावना-पहाणां-भीमबु-. धादीनां परिपूर्ण पल्योपमं नक्षत्राणां-अश्विन्यादीनां पल्योपमाई तारकदेवानां च पल्योपमस्य चतुर्थो भाग उत्कृष्टमायुरिति, तथा तेषां -चन्द्रादित्यग्रहनक्षत्रतारकदेवानां सम्बन्धिन्याः स्थितेर-समप्रतिभागरूपं तेषामेव सम्बन्धिनीनां देवीनां क्रमेणोत्कृष्टमायुः, केवलमन्यदेवीद्विके-नक्षत्रतारकदेवीद्वये तदेवार्धमधिकं-विशेषाधिकमवसेयं, इदमुक्तं भवति-चन्द्रविमानवासिनीनां देवीनां पस्योपमा पश्चाशद्वर्षसहस्राधिकं सूर्यदेवीनां पल्योपमा पचवर्षशताधि प्रहदेवीनां च पूर्ण पस्योरमार्धमुत्कृष्टमायुः, तथा नक्षत्रदेवीनां पल्योपमस्य चतुर्थो भागो विशेषाधिकमुत्कृष्टमायुः, तारकदेवीनां पल्योपमस्याष्टमो भागः किश्चिदधिकमुत्कृष्टमायुरिति , तथा तारकदेवदेव्योः पृथगमिधानात् शेषेष्वष्टसु-चन्द्रादित्यग्रहनक्षत्रदेवतदेवीरूपेषु भेदेषु पादः-पल्योरमस्य चतुर्यों भागो जवन्यमायुः, तथा तारकदेवानां तारकदेवीनां च पल्योपमस्याष्टांश:-अष्टमो भाग इति ॥४१॥ ४२ ॥ अथ वैमानिकदेवानामुत्कृष्टां स्थितिमाह-दो साहीत्यादि, सौधर्मात्सौधर्मकल्पाचावत् शुक्रो-महाशुक्रकल्पस्तावदनने क्रमेणोत्कृष्टा स्थितिः प्रतिपत्तव्या, तथाहि-सौधर्मे कल्पे देवानामुत्कृष्टा स्थिति अतरे, तरीतुमशक्यं प्रभूतकालतरणीयत्वादतरं सागरोपमं, वे सागरोपमे इत्यर्थः, ईशाने ते एव द्वे सागरोपमे साधिकेकिञ्चित्समधिके, सनत्कुमारे सप्त सागरोपमाणि, माहेन्द्रे तान्येव सप्त सागरोपमाणि साधिकानि, ब्रह्मलोके दश सागरोपमाणि लान्तके चतुर्दश महाशुक्रे सप्तदश, 'तदुवरि एककमारोवे' इति तस्य-महाशुक्रस्य कल्पस्योपरि सहस्रारादिषु प्रतिकल्पं प्रतिप्रैवेयकं च पूर्वस्मात् पूर्वस्मादधिकमेकैकं सागरोपमं उत्कृष्टायुश्चिन्तायामारोपयेत् , तद्यथा-सहस्रारेऽष्टादश सागरोपमाण्युत्कृष्टा स्थितिः आनते एकोनविंशतिः प्राणते विंशतिः आरणे एकविंशतिः अच्युते द्वाविंशतिः अधस्तनाधस्तनप्रैवेयके त्रयोविंशतिः अघस्तनमध्यमे चतुविंशतिः अधस्तनोपरितने पञ्चविंशतिः मध्यमाघस्तने षडिंशतिः मध्यममध्यमे सप्तविंशतिः मध्यमोपरितनेऽष्टाविंशतिः उपरितनाधस्तने एकोनत्रिंशत् उपरितनमध्यमे त्रिंशत् उपरितनोपरितनप्रैवेयके एकत्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः ॥ ४३ ॥ एकैकवृद्ध्या च एकत्रिंशतोऽनन्तरमनुत्तरेषु द्वात्रिंशदेव स्यात् अतस्तेषु पृथगाह-'तेत्तीसे'त्यादि, विजयादिषु-विजयवैजयन्तजयन्तापराजितेषु चतुषु अनुत्तरविमानेषु त्रयविंशदतराणि-सागरोपमाण्युत्कृष्टा स्थितिः, जघन्या पुनरेतेषु विजयादिषु चतुर्यु एक
223

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310