Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 228
________________ मत्यद्भुतं बलं न विद्यते येन परतोऽप्यागतं शब्दं शृणुयादिति, तथा चक्षुरिन्द्रियमुत्कर्षतः सातिरेकाद्योजनलक्षादारभ्य कटकुट्यादिमिरव्यवहितं रूपं गृहाति-परिच्छिनत्ति, परतोऽव्यवहितस्यापि परिच्छेदे चक्षुषः शक्त्यभावात् , एतचाभासुरद्रव्यमधिकृत्योच्यते, भासुरं तु द्रव्यमधिकृत्य प्रमाणाङ्गुलनिष्पन्नेभ्य एकविंशतियोजनलक्षेभ्योऽपि परतः पश्यन्ति, यथा पुष्करवरद्वीपार्धे मानुषोत्तरनगनिकटवतिनो नराः कर्कसंक्रान्तौ सूर्यबिम्ब, उक्तं च-"इगवीसं खलु लक्खा चउतीसं चेव तह सहस्साई। तह पंच सया भणिया सत्ततीसाएँ अइरित्ता ॥ १॥ इइ नयणविसयमाणं पुक्खरदीवड़वासिमणुयाणं । पुव्वेण य अवरेण य पिहं पिहं होइ नायव्वं ॥ २॥" तथा शेषाणि-घाणरसनस्पर्शनेन्द्रियाणि क्रमेण गन्धं रसं स्पर्श च प्रत्येकमुत्कर्षतो नवभ्यो योजनेभ्य आगतं गृहन्ति, न परतः, परत आगतानां मन्दपरिणामत्वभावात् घ्राणादीन्द्रियाणां च तथारूपाणामपि तेषां परिच्छेदं कर्तुमशक्तत्वात् ॥ ७॥ ८॥ अथ जघन्यं विषयमानमाह-'अंगुले'त्यादि, चक्षुरिन्द्रियं मुक्त्वा शेषाणि चत्वारि श्रोत्रादीनि जघन्यतोऽङ्गलासययभागादागतं स्वस्वविषयं शब्दादिकं जानन्ति, प्राप्तार्थपरिच्छेदकत्वात् , चक्षुः पुनरप्राप्तकारित्वाजघन्यतोऽङ्गलसद्धयेयभागमात्रव्यवस्थितं पश्यति, न तु ततोऽप्यक्तिरमिति, प्रतिप्राणि प्रतीतश्चायमर्थः, तथा च नातिसन्निकृष्टमजनरजोमलादिकं चक्षुः पश्यतीति, इह चे पृथुत्वपरिमाणं स्पर्शनेन्द्रियव्यतिरेकेण शेषाणां चतुर्णामिन्द्रियाणामात्माङ्गुलेन प्रतिपत्तव्यं, स्पर्शनेन्द्रियस्य तूत्सेधाङ्गुलेन, विषयपरिमाणं पुनः सर्वेषामप्यात्माङ्गुलेनैव, अत्र चोभयत्राप्युपपत्तिः सविस्तरतरा भाष्यादवसातव्या १८८ ॥ ९॥ इदानीं 'लेसाउ'त्ति एकोननवत्यधिकशततमं द्वारमाह पुढवीआउवणस्सइबायरपत्तेसु लेस चत्तारि । गन्भे तिरियनरेसुं छल्लेसा तिन्नि सेसाणं ॥१०॥ बादरशब्दः प्रत्येकममिसम्बध्यते, प्रत्येकवनस्पतीनां च स्वरूपोपदर्शनार्थमेव व्यभिचाराभावात्, पर्याप्त इति विशेषणं च सामर्थ्याद् द्रष्टव्यं, अन्यथा तेजोलेश्याया अयोगात् , ततो बादरपर्याप्तेषु पृथिवीकायिकेष्वप्कायिकेषु प्रत्येकवनस्पतिषु चाद्याश्चतस्रः कृष्णनीलकापोततेजोरूपा लेश्या भवन्ति, तेजोलेश्या कथमवाप्यते इति चेद्, उच्यते, ईशानान्तदेवानामेतेषूत्पादात्कियन्तमपि कालं तेजोलेश्यापि सम्भव ति, यल्लेश्या हि जन्तवो नियन्ते परभवेऽपि तल्लेश्या एवोत्पद्यन्ते,न पुनः पाश्चात्यभवान्त्यसमयेऽन्यो लेश्यापरिणामोऽन्यश्चागामिकभवाद्यसमये, यदागमः-"जल्लेसाई दव्वाई आइत्ता कालं करेइ तल्लेसेसु उववजइ'त्ति, [ यल्लेश्यानि द्रव्याणि आदाय कालं करोति तल्ले. श्येषूत्पद्यते] केवलं तिर्यजनरा आगामिभवसम्बन्धिलेश्याया अन्तर्मुहूर्तेऽतिक्रान्ते सुरनारकास्तु स्वस्वभवसम्बन्धिलेश्याया अन्तर्मुहूर्ते शेषे सति परभवमासादयन्ति, गर्भजतिर्यानुष्येषु षडपि लेश्याः तेषामनवस्थितलेश्याकत्वात्, तथाहि-तिरश्चां पृथिवीकायिकादीनां नराणां सम्मूर्छिमगर्भजानां शुक्ललेश्यावर्जा याः काश्चिल्लेश्याः सम्भवन्ति ताः प्रत्येकं जघन्यत उत्कर्षतश्चान्तर्मुहूर्तस्थितयः, शुक्नुलेश्या तु जघन्यतोऽन्तर्मुहूर्तावस्थाना उत्कर्षतः किञ्चिन्यूननववर्षोनपूवकोटिप्रमाणेति, इयं चोत्कृष्टा स्थितिः पूर्वकोटेरुर्द्ध संयमावाप्तेरभावात् पूर्वकोट्यायुषः किश्चित्समधिकवर्षाष्टकादूर्द्धमुत्पादितकेवलज्ञानस्य केवलिनोऽवसेया, अन्येषां तूत्कर्षतोऽप्यन्तर्मुहूर्तावस्थानैवेति, शेषाणांतेजोवायूनां सूक्ष्मपृथिव्यम्बूवनस्पतीनां साधारणानामपर्याप्तबादरपृथिव्यम्बुप्रत्येकवनस्पतीनां द्वित्रिचतुरिन्द्रियाणां सम्मूर्छिमपञ्चेन्द्रियतिर्यङ्नराणां च तिस्रः-कृष्णनीलकापोतनामानो लेश्या भवन्तीति १८९॥१०॥ इदानीं 'एयाण जत्थ गइ'त्ति नवत्यधिकशततमं द्वारमाह एगेंदियजीवा जंति नरतिरिच्छेमु जुयलवजेसुं। अमणतिरियावि एवं नरयंमिवि जंति ते पढमे ॥ ११॥ तह संमुच्छिमतिरिया भवणाहिववंतरेसु गच्छंति । ज तेसिं उववाओ पलियासंखेजआऊसुं॥१२॥ पंचिंदियतिरियाणं उववाउकोसओ सहस्सारे । नरएसु समग्गेसुवि वियला अजुयलतिरिनरेसु ॥१३॥ नरतिरिअसंखजीवी जोइसवज्जेसु जंति देवेसु । नियआउयसमहीणाउएसु ईसाणअंतेसु ॥ १४ ॥ उववाओ तावसाणं उक्कोसेणं तु जाव जोइसिया । जावंति वंभलोगो चरगपरिवायउववाओ॥ १५ ॥ जिणवयउक्किट्ठतवकिरियाहिं अभधभवजीवाणं । गेविजेसुक्कोसा गई जहन्ना भवणवईसु ॥ १६॥ छउमत्थसंजयाणं उववाउकोसओ अ सबढे। उववाओ सावयाणं उक्कोसेणऽचुओ जाव ॥ १७॥ उववाओ लंतगंमि चउदसपुचिस्स होइ उ जहन्नो । उकोसो सवढे सिद्धिगमो वा अकम्मरस ॥ १८॥ अविराहियसामन्नस्स साहुणो सावयस्सऽवि जहन्नो । सोहम्मे उववाओ वयभंगे वणयराईसुं ॥ १९॥ सेसाण तावसाईण जहन्नओ वंतरेसु उववाओ। भणिओ जिणेहिं सो पुण नियकिरियठियाण विन्नेओ ॥ २०॥ इह 'एगेंदियजीवत्ति सामान्योक्तावपि न तेजोवायवो गृह्यन्ते, तेषां मनुष्येष्वेवानुत्पादात् , उक्तं च-'सत्तममहिनेरइया तेऊ वाऊ अणंतरुव्वट्टा । नवि पावे माणुस्सं तहा असंखाउया सव्वे ॥१॥' [सप्तममहीनैरयिकास्तेजोवायू अनन्तरोद्वत्ताः। नैव प्राप्नुवन्ति मानुष्यं तथाऽसंख्यायुषः सर्वे ॥१॥] तत एकेन्द्रियजीवा:-पृथिव्यम्बुवनस्पतयो युगलवर्जेषु-युगलधार्मिकवर्जितेषु सङ्ख्यातायुष्केष्वित्यर्थः नरेषु तिर्यक्षु च यान्ति-उत्पद्यन्ते, न देवनारकासङ्ख्येयवर्षायुस्तिर्यग्नरेष्विति भावः, तथाऽमनस्कतिर्यञ्चोऽपि-असंक्षिपञ्चेन्द्रियतिर्यञ्चोऽप्येवं-पूर्ववत् , सङ्ख्येयायुष्केषु नरतिर्यक्षु समुत्पद्यन्त इति भावः, नरकेऽपि च प्रथमे ते गच्छन्ति, इदमुक्तं भवति-असंज्ञिपञ्चेन्द्रियतिर्यचश्व चतसृष्वपि गतिषूत्पद्यन्ते, केवलं नरकदेवगत्योरुत्पद्यमानानाममीषां विशेषः, तत्र नरकगतौ प्रथमपृथिव्यामेव, न शेषासु, तत्रा 219

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310