________________
मत्यद्भुतं बलं न विद्यते येन परतोऽप्यागतं शब्दं शृणुयादिति, तथा चक्षुरिन्द्रियमुत्कर्षतः सातिरेकाद्योजनलक्षादारभ्य कटकुट्यादिमिरव्यवहितं रूपं गृहाति-परिच्छिनत्ति, परतोऽव्यवहितस्यापि परिच्छेदे चक्षुषः शक्त्यभावात् , एतचाभासुरद्रव्यमधिकृत्योच्यते, भासुरं तु द्रव्यमधिकृत्य प्रमाणाङ्गुलनिष्पन्नेभ्य एकविंशतियोजनलक्षेभ्योऽपि परतः पश्यन्ति, यथा पुष्करवरद्वीपार्धे मानुषोत्तरनगनिकटवतिनो नराः कर्कसंक्रान्तौ सूर्यबिम्ब, उक्तं च-"इगवीसं खलु लक्खा चउतीसं चेव तह सहस्साई। तह पंच सया भणिया सत्ततीसाएँ अइरित्ता ॥ १॥ इइ नयणविसयमाणं पुक्खरदीवड़वासिमणुयाणं । पुव्वेण य अवरेण य पिहं पिहं होइ नायव्वं ॥ २॥" तथा शेषाणि-घाणरसनस्पर्शनेन्द्रियाणि क्रमेण गन्धं रसं स्पर्श च प्रत्येकमुत्कर्षतो नवभ्यो योजनेभ्य आगतं गृहन्ति, न परतः, परत आगतानां मन्दपरिणामत्वभावात् घ्राणादीन्द्रियाणां च तथारूपाणामपि तेषां परिच्छेदं कर्तुमशक्तत्वात् ॥ ७॥ ८॥ अथ जघन्यं विषयमानमाह-'अंगुले'त्यादि, चक्षुरिन्द्रियं मुक्त्वा शेषाणि चत्वारि श्रोत्रादीनि जघन्यतोऽङ्गलासययभागादागतं स्वस्वविषयं शब्दादिकं जानन्ति, प्राप्तार्थपरिच्छेदकत्वात् , चक्षुः पुनरप्राप्तकारित्वाजघन्यतोऽङ्गलसद्धयेयभागमात्रव्यवस्थितं पश्यति, न तु ततोऽप्यक्तिरमिति, प्रतिप्राणि प्रतीतश्चायमर्थः, तथा च नातिसन्निकृष्टमजनरजोमलादिकं चक्षुः पश्यतीति, इह चे पृथुत्वपरिमाणं स्पर्शनेन्द्रियव्यतिरेकेण शेषाणां चतुर्णामिन्द्रियाणामात्माङ्गुलेन प्रतिपत्तव्यं, स्पर्शनेन्द्रियस्य तूत्सेधाङ्गुलेन, विषयपरिमाणं पुनः सर्वेषामप्यात्माङ्गुलेनैव, अत्र चोभयत्राप्युपपत्तिः सविस्तरतरा भाष्यादवसातव्या १८८ ॥ ९॥ इदानीं 'लेसाउ'त्ति एकोननवत्यधिकशततमं द्वारमाह
पुढवीआउवणस्सइबायरपत्तेसु लेस चत्तारि । गन्भे तिरियनरेसुं छल्लेसा तिन्नि सेसाणं ॥१०॥ बादरशब्दः प्रत्येकममिसम्बध्यते, प्रत्येकवनस्पतीनां च स्वरूपोपदर्शनार्थमेव व्यभिचाराभावात्, पर्याप्त इति विशेषणं च सामर्थ्याद् द्रष्टव्यं, अन्यथा तेजोलेश्याया अयोगात् , ततो बादरपर्याप्तेषु पृथिवीकायिकेष्वप्कायिकेषु प्रत्येकवनस्पतिषु चाद्याश्चतस्रः कृष्णनीलकापोततेजोरूपा लेश्या भवन्ति, तेजोलेश्या कथमवाप्यते इति चेद्, उच्यते, ईशानान्तदेवानामेतेषूत्पादात्कियन्तमपि कालं तेजोलेश्यापि सम्भव ति, यल्लेश्या हि जन्तवो नियन्ते परभवेऽपि तल्लेश्या एवोत्पद्यन्ते,न पुनः पाश्चात्यभवान्त्यसमयेऽन्यो लेश्यापरिणामोऽन्यश्चागामिकभवाद्यसमये, यदागमः-"जल्लेसाई दव्वाई आइत्ता कालं करेइ तल्लेसेसु उववजइ'त्ति, [ यल्लेश्यानि द्रव्याणि आदाय कालं करोति तल्ले. श्येषूत्पद्यते] केवलं तिर्यजनरा आगामिभवसम्बन्धिलेश्याया अन्तर्मुहूर्तेऽतिक्रान्ते सुरनारकास्तु स्वस्वभवसम्बन्धिलेश्याया अन्तर्मुहूर्ते शेषे सति परभवमासादयन्ति, गर्भजतिर्यानुष्येषु षडपि लेश्याः तेषामनवस्थितलेश्याकत्वात्, तथाहि-तिरश्चां पृथिवीकायिकादीनां नराणां सम्मूर्छिमगर्भजानां शुक्ललेश्यावर्जा याः काश्चिल्लेश्याः सम्भवन्ति ताः प्रत्येकं जघन्यत उत्कर्षतश्चान्तर्मुहूर्तस्थितयः, शुक्नुलेश्या तु जघन्यतोऽन्तर्मुहूर्तावस्थाना उत्कर्षतः किञ्चिन्यूननववर्षोनपूवकोटिप्रमाणेति, इयं चोत्कृष्टा स्थितिः पूर्वकोटेरुर्द्ध संयमावाप्तेरभावात् पूर्वकोट्यायुषः किश्चित्समधिकवर्षाष्टकादूर्द्धमुत्पादितकेवलज्ञानस्य केवलिनोऽवसेया, अन्येषां तूत्कर्षतोऽप्यन्तर्मुहूर्तावस्थानैवेति, शेषाणांतेजोवायूनां सूक्ष्मपृथिव्यम्बूवनस्पतीनां साधारणानामपर्याप्तबादरपृथिव्यम्बुप्रत्येकवनस्पतीनां द्वित्रिचतुरिन्द्रियाणां सम्मूर्छिमपञ्चेन्द्रियतिर्यङ्नराणां च तिस्रः-कृष्णनीलकापोतनामानो लेश्या भवन्तीति १८९॥१०॥ इदानीं 'एयाण जत्थ गइ'त्ति नवत्यधिकशततमं द्वारमाह
एगेंदियजीवा जंति नरतिरिच्छेमु जुयलवजेसुं। अमणतिरियावि एवं नरयंमिवि जंति ते पढमे ॥ ११॥ तह संमुच्छिमतिरिया भवणाहिववंतरेसु गच्छंति । ज तेसिं उववाओ पलियासंखेजआऊसुं॥१२॥ पंचिंदियतिरियाणं उववाउकोसओ सहस्सारे । नरएसु समग्गेसुवि वियला अजुयलतिरिनरेसु ॥१३॥ नरतिरिअसंखजीवी जोइसवज्जेसु जंति देवेसु । नियआउयसमहीणाउएसु ईसाणअंतेसु ॥ १४ ॥ उववाओ तावसाणं उक्कोसेणं तु जाव जोइसिया । जावंति वंभलोगो चरगपरिवायउववाओ॥ १५ ॥ जिणवयउक्किट्ठतवकिरियाहिं अभधभवजीवाणं । गेविजेसुक्कोसा गई जहन्ना भवणवईसु ॥ १६॥ छउमत्थसंजयाणं उववाउकोसओ अ सबढे। उववाओ सावयाणं उक्कोसेणऽचुओ जाव ॥ १७॥ उववाओ लंतगंमि चउदसपुचिस्स होइ उ जहन्नो । उकोसो सवढे सिद्धिगमो वा अकम्मरस ॥ १८॥ अविराहियसामन्नस्स साहुणो सावयस्सऽवि जहन्नो । सोहम्मे उववाओ वयभंगे वणयराईसुं ॥ १९॥ सेसाण तावसाईण जहन्नओ वंतरेसु उववाओ। भणिओ जिणेहिं सो पुण नियकिरियठियाण विन्नेओ ॥ २०॥ इह 'एगेंदियजीवत्ति सामान्योक्तावपि न तेजोवायवो गृह्यन्ते, तेषां मनुष्येष्वेवानुत्पादात् , उक्तं च-'सत्तममहिनेरइया तेऊ वाऊ अणंतरुव्वट्टा । नवि पावे माणुस्सं तहा असंखाउया सव्वे ॥१॥' [सप्तममहीनैरयिकास्तेजोवायू अनन्तरोद्वत्ताः। नैव प्राप्नुवन्ति मानुष्यं तथाऽसंख्यायुषः सर्वे ॥१॥] तत एकेन्द्रियजीवा:-पृथिव्यम्बुवनस्पतयो युगलवर्जेषु-युगलधार्मिकवर्जितेषु सङ्ख्यातायुष्केष्वित्यर्थः नरेषु तिर्यक्षु च यान्ति-उत्पद्यन्ते, न देवनारकासङ्ख्येयवर्षायुस्तिर्यग्नरेष्विति भावः, तथाऽमनस्कतिर्यञ्चोऽपि-असंक्षिपञ्चेन्द्रियतिर्यञ्चोऽप्येवं-पूर्ववत् , सङ्ख्येयायुष्केषु नरतिर्यक्षु समुत्पद्यन्त इति भावः, नरकेऽपि च प्रथमे ते गच्छन्ति, इदमुक्तं भवति-असंज्ञिपञ्चेन्द्रियतिर्यचश्व चतसृष्वपि गतिषूत्पद्यन्ते, केवलं नरकदेवगत्योरुत्पद्यमानानाममीषां विशेषः, तत्र नरकगतौ प्रथमपृथिव्यामेव, न शेषासु, तत्रा
219