________________
द्विविधा:-मनोज्ञा अमनोज्ञाश्च, मनोज्ञा-एकसामाचारिकाः अमनोज्ञाश्च-विभिन्नसामाचारिकाः, असंविज्ञा अपि द्विविधाः-संविज्ञपाक्षिका असंविज्ञपाक्षिकाच, संविज्ञपाक्षिका-निजानुष्ठाननिन्दिनो यथोक्तसुसाधुसमाचारप्ररूपकाः असंविज्ञपाक्षिका-निर्धर्माणः सुसाधुजुगुप्सकाः, उक्तं च-तत्थावायं दुविहं सपक्खपरपक्खओ य नायव्वं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥ १॥ संविग्गमसंविग्गा संविग्गमणुन्नएयरा चेव । असंविग्गावि दुविहा तप्पक्खियएयरा चेव ॥ २॥” परपक्षापातवदपि स्थण्डिलं द्विविधं-मनुप्यापातवत् तिर्यगापातवञ्च, एकैकमपि त्रिविधं-पुरुषापातवत् ख्यापातवन्नपुंसकापातवञ्च, तत्र मानुषपुरुषापातवत् त्रिविधं-दण्डिकपुरुषापातवत् कौटुम्बिकपुरुषापातवत् प्राकृतपुरुषापातवच्च, दण्डिका-राजकुलानुगताः कौटुम्बिकाः-शेषा महर्द्धिकाः इतरे-प्राकृताः, ते च त्रयोऽपि प्रत्येक द्विविधाः-शौचवादिनोऽशौचवादिनश्च, एवं व्यापातवन्नपुंसकापातवच्च प्रत्येकं प्रथमतो दण्डिकादिभेदतस्त्रिविधं, ततः शौचवाद्यशौचवादिभेदतः पुनरेकै द्विविधमवसेयं, उक्तं च-"परपक्खेऽवि य दुविहं माणुसतेरिच्छगं च नायव्वं । एकेकपि च तिविहं पुरिसित्थिनपुंसकं चेव ॥ १॥ पुरिसावायं तिविहं दण्डियकोडुबिए य पागइए । ते सोयऽसोयवाई एमेव नपुंसइत्थीसु ॥२॥" अथ तिर्यगापातवत् कथ्यते-तत्र तिर्यञ्चो द्विविधाः-दृप्ता अदृप्ताश्च, दृप्ता-दर्पवन्त: अदृप्ताः-शान्ताः, तेऽपि प्रत्येकं त्रिविधा:-जघन्या उत्कृष्टा मध्यमाश्च, जघन्या मूल्यमङ्गीकृत्य एडकादयः उत्कृष्टा हस्त्यादयः मध्यमा महीपादयः, एते किल पुरुषा उक्ताः, एवमेव स्त्रीनपुंसका अपि वक्तव्याः, नवरं ते दृप्ता अदृप्ताश्च प्रत्येक द्विधा विज्ञेयाः, तद्यथा-जुगुप्सिता अजुगुप्सिताश्च, जुगुप्सिता गर्दभ्यादयः इतरेऽजुगुप्सिताः, उक्तं च-"दित्तमदित्ता तिरिया जहन्नउक्कोसमज्झिमा तिविहा । एमेव थीनपुंसा दुगुंछिअदुगुंछिया नवरं ॥ १॥" उक्तमापातवत्स्थण्डिलं, संलोकवत्पुनर्मनुष्येष्वेव द्रष्टव्यं, तेच मनुष्यात्रिविधाः-तद्यथा-पुरुषाः स्त्रियो नपुंसकाश्च, एकैके प्रत्येकं त्रिविधा:
एमेव पुहुत्तओ नवरं ॥ ६ ॥ अंगुलपुहुत्त रसणं फरिसं तु सरीरवित्थडं भणियं । बारसहिं जोयणेहिं सोयं परिगिण्हए सई ॥७॥ एवं गिण्हइ चक्खू जोयणलक्खाओं साइरेगाओ। गंधं रसं च फासं जोयणनवगाउ सेसाणि ॥८॥ अंगुलअसंखभागा मुणंति विसयं जहन्नओ मोत्तुं।
चक्तं पुण जाणइ अंगुलसंखिवभागाओ॥९॥ इन्दनादिन्द्रः-आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्ग-चिह्नमविनाभावि इन्द्रियं, तद् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च, तत्र द्रव्येन्द्रियं द्विधा-निर्वृत्तिरूपमुपकरणरूपं च, निवृत्तिर्नाम प्रतिविशिष्टसंस्थानविशेषः, साइपि द्विधा-बाह्या आभ्यन्तरा च, तत्र बाह्या कर्णकर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया व्यपदेष्टुं शक्यते, तथाहि-मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतो भाविनी भ्रुवां चोपरितने श्रवणबन्धापेक्षया समे वाजिनो नेत्रयोरुपरि तीक्ष्णे चाप्रभागे इत्यादिजातिभेदान्नानाविधा, आभ्यन्तरा तु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना, तामेव चाधिकृत्य प्रस्तुतसूत्रोक्तं संस्थानमवसेयं, केवलं स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायां तथाऽभिधानात्, उपकरणं-खड्गस्थानीयाया बाह्यनिवृत्तेर्या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निवृत्तिः तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमन्तर्निवृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात् , कथञ्चिद्भेदश्च सत्यामपि तस्यामन्तर्निवृत्ती द्रव्यादिनोपकरणस्य विघातसम्भवात् , तथाहि-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामन्तनिर्वृत्तावतिकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधा-लब्धिरुपयोगश्च, तत्र लब्धिःश्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणकर्मक्षयोपशमः, उपयोगः-स्वस्खविषये लब्धिरूपेन्द्रियानुसारेणात्मनो व्यापारप्रणिधानमिति, तच्च पञ्चधा-श्रोत्रादिभेदात्, तत्र श्रोत्रमाभ्यन्तरी निर्वृत्तिमधिकृत्य कदम्बपुष्पाकारं मांसगोलकरूपं चक्षुः किश्चित्समुन्नतमध्यपरिमण्डलाकारमसूराख्यधान्यविशेषसदृशं घ्राणमतिमुक्तककुसुमदलचन्द्रकवत् किञ्चिद् वृत्ताकारमध्यविततं प्रदीर्घत्र्यनसंस्थितं कर्णाटकायुधं क्षुरप्रस्तत्परिसंस्थितं-तदाकारं रसनेन्द्रियमिति ॥ ५॥ तथा 'नाणे'त्यादि, स्पर्शनेन्द्रियं पुनर्नानाकार-अनेकसंस्थानसंस्थितं, शरीरस्यासङ्ख्येयभेदत्वात् , तथा बाहल्यतः सर्वाण्यपीन्द्रियाण्यङ्गुलस्यासयेयो भागः। ननु यदि स्पर्शनेन्द्रियस्याप्यकुलास यभागो बाहल्यं ततः कथं खगाद्यमिघाते अन्तः शरीरस्य वेदनानुभवः ?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात् , त्वगिन्द्रियस्य हि विषयः शीतादयः स्पर्शाः, यथा चक्षुषो रूपं, न च खड्गाद्यमिघाते अन्तः शरीरस्य शीतादिस्पर्शने वेदनमस्तीति, किन्तु केवलं दुःखवेदनं, तच्चात्मा सकलेनापि शरीरेणानुभवति, न केवलेन त्वगिन्द्रियेण, ज्वरादिवेदनावत् , ततो न कश्चिदोषः, अथ शीतलपानकादिपाने अन्तः शीतस्पर्शवेदनाऽप्यनुभूयते, ततः कथं सा घटते ?, उच्यते, इह त्वगिन्द्रियं सर्वत्रापि प्रदेशपर्यन्तवति विद्यते, तथा पूर्वसूरिमिर्व्याख्यानात् , तथा च प्रज्ञापनामूलटीका-"सर्वप्रदेशपर्यन्तवर्तित्वात्त्वचोऽभ्यन्तरतोऽपि शुषिरस्योपरि त्वगस्त्येवे"ति, ततोऽभ्यन्तरतोऽपि शुषिरस्योपरि त्वगिन्द्रियस्य भावादुपपद्यते अन्तरपि शीतस्पर्शवेदनानुभवः, तथा एवमेव-अङ्गुलासङ्ख्येयभागप्रमाणान्येव पृथुत्वतो-विस्तरतोऽपीन्द्रियाणि भवन्ति ॥ ६॥ नवरं रसनस्पर्शनयोर्विशेषः, तमेवाह-'अंगले'त्यादि गाथापूर्वाध, अङ्गलपृथक्त्वविस्तारं रसनेन्द्रियं, स्पर्शनं पुनः शरीरविस्तृतं भणितं, यस्य जीवस्य यावन्मानं शरीरं स्पर्शनमपि तस्य विस्तरतस्तावत्प्रमाणमित्यर्थः ।। अथेन्द्रियविषयमानमाह-बारेत्यादि साधो गाथा, द्वादशभ्यो योजनेभ्य आगतं घनगर्जितादिशब्दमुत्कृष्टतो गृहाति श्रोत्रं, न परतः, परत आगताः खलु ते शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रविज्ञानं नोत्पादयितुमीशाः,श्रोत्रेन्द्रियस्य च तथाविध
218