SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पृथिव्यादीनां मनुष्यपर्यन्तानां स्थितिः-आयुःप्रमाणरूपा एषा उत्कृष्टा, यथा-पृथिवीकायिकानां द्वाविंशतिवर्षसहस्राणि अप्कायिकानां सप्त वर्षसहस्राणि तेजस्कायिकानां त्रीणि रात्रिन्दिवानि वाते-वातकाये त्रीणि वर्षसहस्राणि वृक्षा-वनस्पतयो दशवर्षसाहस्रिकाः, किमुक्तं भवति ?-वनस्पतिकायिकानामुत्कर्षतः स्थितिर्दश वर्षसहस्राणीति, तथा द्वीन्द्रियाणामुत्कर्षत आयुःस्थिति दश वर्षाणि त्रीन्द्रियाणामेकोनपञ्चाशद्रात्रिन्दिवानि चतुरिन्द्रियाणां षण्मासाः पञ्चेन्द्रियाणां तिर्यग्मनुष्याणां त्रीणि पल्योपमानि, एषा चोत्कृष्टा स्थितिः प्रायो निरुपद्रवस्थाने द्रष्टव्या, एवमग्रेऽपि शेयं ॥ ९६ ॥९७॥ एवं सामान्येन पृथिव्यादीनामुत्कृष्टां स्थितिमभिधाय पृथिवीभेदेषु विशेषेणाह'सण्हे'त्यादि, इह पूर्वार्धपदानामुत्तरार्धपदानां च यथाक्रम योजना, सा चैव-श्लक्ष्णा-मरुस्थल्यादिगता पृथिवी तस्या एक वर्षसहस्रमुत्कृष्टमायुः शुद्धा-कुमारमृत्तिका तस्या द्वादश वर्षसहस्राणि वालुका-सिकता तस्याश्चतुर्दश वर्षसहस्राणि मनःशिला प्रतीता तस्याः षोडश शर्करा-दृषत्कर्करिका तस्या अष्टादश खरपृथिवी-शिलापाषाणरूपा तस्या द्वाविंशतिवर्षसहस्राण्युत्कृष्टमायुः, जघन्यं तु सर्वत्राप्यन्तर्मुहूर्तमिति १८६ ।। ९८ ॥ सम्प्रति 'एएसिं तणुमाणं'ति सप्ताशीत्यधिकशततमं द्वारमाह जोयणसहस्समहियं ओहपएगिदिए तरुगणेसु । मच्छजुयले सहस्सं उरगेसु य गन्भजाईसु ॥१०९९ ॥ उस्सेहंगुलगुणियं जलासयं जमिह जोयणसहस्सं । तत्थुप्पन्नं नलिणं विन्नेयं भणियमाणंति॥११००॥ जं पुण जलहिदहेसुं पमाणजोयणसहस्समाणेसुं। उप्पज वरपउमं तं जाणसु भूवियारंति ॥ ११०१ ॥ वणऽणंतसरीराणं एगमनिलसरीरगं पमाणेणं । अनलोदगपुढवीणं असं. खगुणिया भवे बुड्डी ॥२॥ विगलिंदियाण पारस जोयणा तिनि चउर कोसा य । सेसाणोगाहणया अंगुलभागो असंखिजो ॥३॥ गन्भचउप्पय छग्गाउयाइंभुयगेसु गाउयपुहुसं। पक्खीसु धणुपुहुत्तं मणुएसु य गाउया तिनि ॥४॥ ओघपदे-सामान्यचिन्तायामेकेन्द्रिये पृथिव्यादिविशेषानाकाजितानामेकेन्द्रियाणामित्यर्थः, विशेषचिन्तायां तरुगणेषु-प्रत्येकवनस्पतीनामित्यर्थः उत्कर्षतः सातिरेकं योजनसहस्रं शरीरप्रमाणमवसेयं, एतञ्च समुद्रे गोतीर्थादिगतलतानलिननालाद्यधिकृत्य वेदितव्यं, अन्यत्रैतावदौदारिकशरीरस्यासम्भवात् , तथा पञ्चेन्द्रियतिर्यञ्चत्रिविधाः-जलचराः स्थलचराः खेचराश्च, जलचराः सम्मूर्छजा गर्भजाश्च पुनः प्रत्येकमपर्याप्ताः पर्याप्ताश्चेत्येवं चतुर्विधाः, स्थलचरास्तु द्विविधाः-चतुष्पदाः परिसश्च, चतुष्पदाः पुनरपि सम्मूर्छज कमपर्याप्ताः पर्याप्ताश्चेत्येवं चतुर्विधाः, परिसास्तु द्विविधाः-उरःपरिसर्पा भुजपरिसाश्च, उभये अपि प्रत्येकं चतुष्पदवञ्चतुर्विधाः, इत्येवं स्थलचराः सर्वेऽपि द्वादशविधाः, खेचरास्तु जलचरवञ्चतुर्विधाः, तदेवं विंशतिभेदानां तिरश्चां तनुमानचिन्तायां मत्स्यानां-जलचराणां युगले-सम्मूर्छजगर्भजलक्षणे उरगेषु च-उरःपरिसपेंषु सर्पादिषु गर्भजेषु प्रत्येक परिपूर्ण योजनसहस्रमिति ॥ ९९॥ ननु तनुप्रमाणमुत्सेधाडलेन 'उस्सेहपमाणओ मिणसु देह' इति वचनात् , समुद्रपइदादीमांशु प्रमाणं प्रमाणाङ्कलेन, ततः समुद्रादीनां योजनसहस्रावगाहनत्वात्तद्गतपद्मनालादीनामुत्सेधाङ्गुलापेक्षयाऽत्यंतदैर्घ्य प्राप्नोतीत्यत ग्रह-उस्सेह'मित्यादि, 'ज'मित्यादि, उत्सेधाङ्गुलेन 'परमाणू रहरेणू' इत्यादिक्रमनिष्पन्नेन गुणितः-प्रमितः सन् योऽसौ जलाशयः-समुद्रगोतीर्थादिरिह-मनुष्यलोके योजनसहस्रप्रमाणो भवति, तत्र समुत्पन्न नलिनं-पगं भणितमानं-पूर्वोक्तकिश्चित्समधिकयोजनसहस्रप्रमाणं विज्ञेयं, यत् पुनः प्रमाणाङ्गलानां योजनसहस्रमानेषु जलघिइदादिषु वरं-प्रधानं पनामुत्पद्यते तज्जानीहि भूविकारं-पृथिवीविकारमिति । इदमुक्तं भवति-इह समुद्रमध्ये प्रमाणाकुलतो योजनसहस्रावगाहे यानि पानि तानि पृथिवीपरिणामरूपाण्येव, यथा श्रीदेवतायाः पाइदे पचं, यानि पुनः शेषेषु गोतीर्थादिषु स्थानेषु पानि तानि वनस्पतिपरिणामरूपाण्यपि भवन्ति, तानि च शेषेषु जलाशयेषु, वल्ल्यादयश्चोत्कर्षतो यथोक्तमाना भवन्ति, तथा चोक्तं विशेषणवत्याम्"पुढवीपरिणामाई ताई किर सिरिनिवासपउमं व । गोतित्थेसु वणस्सइपरिणामाई तु होजाहि ॥१॥जत्थुस्सेहंगुलओ सहस्समवसेसएसु यजलेसुं।वल्लीलयादओऽवि य सहस्समायामओ होति ॥२॥"[तानि किल पृथ्वीपरिणामानि श्रीनिवासपद्ममिव । गोतीर्थेषु वनस्पतिपरिणामानि तु भवेयुः॥१॥ यत्रोत्सेधांगुलतःसहस्रं अवशेषेषु च जलेषु । वल्लीलतादयोऽपि च सहस्रमायामतो भवन्ति ॥२॥॥११००-११०१॥ तथा प्रत्येकवनस्पतिवर्जितानां पंचानामपि पृथिव्यादीनामबुलासययभागमानाऽवगाहना वक्ष्यते, ततस्तत्र विशेषमाह-वणे'त्यादि, 'विगले'त्यादि, 'गब्भे'त्यादि, 'वण'त्ति वनस्पतीनां 'अणंत'त्ति अनन्तकायिकानां सूक्ष्माणां यान्यसोयानि शरीराणि तेषां प्रमाणेन-मानेनैकमनिलशरीरकं-वायुशरीरं, किमुक्तं भवति -सूक्ष्मसाधारणवनस्पतीनामसङ्ख्यातैः शरीरैस्तुल्यमेकं सूक्ष्मं वायुशरीरमिति, उक्तं च प्रज्ञप्ती-'अणंताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे"त्ति, अनन्तकायिकानां यावन्ति शरीराणि तदेकं सूक्ष्म वायुशरीर, तावतशरीरप्रमाणमित्यर्थः, यावग्रहणाचासङ्ग्यातानि शरीराणि प्राह्माणि, अनन्तानामपि वनस्पतीनामेकाद्यसङ्ग्येयान्तशरीरत्वेनानन्तानां शरीराणामभावात् , ततो वायुकायिकशरीरादनलोदकपृथिवीना-अग्निजलपृथिवीकायिकशरीराणां सूक्ष्माणां बादराणां च यथाक्रममसङ्ख्यगुणा भवति वृद्धिः, इयमत्र भावना-यावत्प्रमाणमेकं सूक्ष्मवायुकायिकशरीरं ततोऽप्यसङ्ख्यातगुणमेकं सूक्ष्मतेजस्कायिकशरीरं ततोऽसङ्ख्यातगुणमेकं सूक्ष्माप्कायिकशरीरं ततोऽप्यसक्यातगुणमेकं सूक्ष्मपृथिवीकायिकशरीरं ततोऽप्यसङ्ख्यातगुणमेकं बादरवायुशरीरं ततोऽसयातगुणमेकं बादरानिशरीरं ततोऽप्यसल्यातगुणमेकं बादराप्कायिकशरीरं ततोऽप्यसयातगुणमेकं 217
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy