________________
ओवमस्स असंखेज्जइभागं पकरिंति "त्ति [असंज्ञिनो नैरयिकायुः प्रकुर्वन्तो जघन्येन दश वर्षसहस्राणि उत्कृष्टतः पल्योपमस्यासंख्येयभागं प्रकुर्वन्ति ] तथा द्वितीयामेव पृथिवीं यावद्गच्छन्ति सरीसृपा - भुजपरिसर्पा गोधानकुलादयो गर्भव्युत्क्रान्ता न ततः परतः, एवं तृतीयामेव गर्भजाः पक्षिणो-गृध्रादयः, चतुर्थीमेव सिंह्यः - सिंहोपलक्षिताश्चतुष्पदा गर्भजाः, पञ्चमीमेव गर्भजा उरगा:- उरः परिसर्पाः सर्पादयः, षष्ठीमेव स्त्रियः - स्त्रीरत्नाद्या महारम्भादियुक्ताः, सप्तमीं यावद्गर्भजा मत्स्या - जलचरा मनुजाश्च अतिक्रूराध्यवसायिनो महापापकारिणः, एष जीवविशेषभेदेन परम:- उत्कृष्ट उपपातो बोद्धव्यो नरकपृथिवीषु, जघन्यतस्तु सर्वेषामपि रत्नप्रभायाः प्रथमे प्रस्तटे मध्यमतः पुनर्जघन्यात्परतः स्वस्वोत्कृष्टोपपातादर्वागिति ॥ ९१ ॥ ९२ ॥ सम्प्रति केषाञ्चित्तिर्यग्योनिजानां बाहुल्यकृतं विशेषमाह - ' वालेसु' इत्यादि, नरकेभ्य उद्धृता व्यालेषु-सर्पादिषु दंष्ट्रिषु - व्याघ्रसिंहादिषु पक्षिषु - गृद्धादिषु जलचरेषु - मत्स्यजातिषु सङ्ख्यातायुः स्थितय उत्पन्नाः सन्तो भूयः क्रूराध्यवसायवशगाः पश्वेन्द्रियवधादीन् विधाय नरकायुषो भवन्ति, एतच्च बाहुल्येनोच्यते न तु नियमः, यतो नारभ्योऽपि केचिदुद्धृत्य सम्यक्त्वादिप्राप्तिवशाच्छुभां गतिमासादयन्तीति ९३ ।। १८२ ॥ सम्प्रति 'संखा उप्पजंताण' त्ति त्र्यशीत्यधिकशततमद्वारस्य 'तह य उवट्टमाणाणं' ति चतुरशीत्यधिकशततमद्वारस्य चावसरो विवरणाय, परमुत्पत्तिनाशविरहकालद्वारे 'संखा पुण सुरवरतुल्ल'त्ति गाथादलेन तद्द्द्वारद्वयमपि व्यक्तं प्राग्व्याख्यातमिति नेदानीं तद्विवृतमिति १८३ - १८४ ॥ सम्प्रति 'एगिंदियविगलिंदिय सन्नीजीवाण काय ठइओ'ति पञ्चाशीत्यधिकशततमं द्वारमाह
अस्संखोसप्पिणिसप्पिणीउ एगिंदियाण ( उ ) चउण्हं । ता चेव ऊ अणंता वणस्सइए उ बोद्धवा
॥ ९४ ॥ वाससहस्सासंखा विगलाणं ठिइड होइ बोद्धवा । सत्तट्ठभवा उ भवे पणिदितिरिमणुय उक्कोसा ॥ ९५ ॥
एकेन्द्रियाणां चतुर्णा - पृथिव्यप्तेजोवायुरूपाणां प्रत्येकमुत्कृष्टा कायस्थिति:- मृत्वा मृत्वा तत्रैव कायेऽवस्थानमसङ्ख्या उत्सर्पिण्यवसर्पिण्यः, एतच कायस्थितिमानं कालतः, क्षेत्रतस्वसङ्ख्येया लोकाः, इदमुक्तं भवति - असङ्ख्येयेषु लोकाकाशेषु प्रतिसमय मे कैकप्रदेशापहारे सर्वप्रदेशापहारेण यावत्योऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति, ता एव - उत्सर्पिण्यवसर्पिण्योऽनन्ता वनस्पतिकायिकस्योत्कृष्टा कायस्थितिः बोद्धव्या, इयमपि कालतः, क्षेत्रतस्तु पूर्वोक्तप्रकारेण अनन्ता लोकाः, असङ्ख्येयाः पुद्गलपरावर्त्ताः, वे च आवलिकाया असत्येयतमे भागे यावन्तः समयाः तत्तुल्या, इयं च कायस्थितिः सांव्यवहारिकानाश्रित्य द्रष्टव्या, असांव्यवहारिकजीवानां त्वनादिवसेया, ततो न मरुदेव्यादिभिर्व्यभिचारः, तथा च क्षमाश्रमणाः - ' तह कायठिइकालादओ विसेसे पडुच किर जीवे । नाणाइबणस्सइणो जे संववहारबाहिरिया ॥ १ ॥” [ तथा कायस्थितिकालादयो विशेषान् जीवान् किल प्रतीत्य । नानादिवनस्पतीन् ये संव्यवहारबाह्याः ॥ १ ॥ ] यापि चासांव्यवहारिकजीवानामनादिः कायस्थितिः साऽपि केषाञ्चिदनादिरपर्यवसाना, ये जातुचिदप्यसांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ न निपतिष्यन्ति, केषाञ्चिदनादिः सपर्यवसाना, येऽसांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ निपतन्ति । अथ किमसांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति ?, उच्यते, आगच्छन्ति, तथा चोक्तं विशेषणवत्यां - "सिज्यंति जत्तिया किर इह संववहारजीवरासीओ । इन्ति अणाइवणस्सइरासीओ तत्तिया तंमि ॥ १ ॥” [ सिध्यन्ति यावन्तः किलेह संव्यवहारजीवराशेः । आयान्ति अनादिवनस्पतिराशेस्ता वन्तस्तस्मिन् ॥ १ ॥ ] तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेपूत्पद्यन्ते ते पृथिव्यादिविविधव्यवहारयोगात् सांव्यवहारिकाः, ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते ते तु तथाविधव्यवहारातीतत्वादसांव्यवहारिकाः, तत्र सांव्यवहारिकाः सूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेषूत्पद्यन्ते, तेभ्योऽप्युद्धृत्य केचिद् भूयोऽपि तेष्वेव निगोदेषु गच्छन्ति परं तत्रापि सांव्यवहारिका एव ते व्यवहारे पतितत्वात्, तत्र च सूत्रोक्तमुत्कर्षतोऽवस्थानकालमानं, असांव्यवहा रिकास्तु सदा निगोदेष्वेवोत्पत्तिमरणभाजो, न कदाचनापि त्रसादिभावं लब्धवन्त इति । तथा विकलानां द्वित्रिचतुरिन्द्रियाणां प्रत्येकं कायस्थितिस्तु सङ्ख्याता वर्षसहस्राः 'विगलाण य वाससहस्सं संखेज्ज'त्ति पश्वसङ्ग्रहवचनात् पञ्चेन्द्रियतिरश्चां मनुष्याणां च संज्ञिपर्याप्तानामुत्कृष्टा कायस्थितिः सप्ताष्टौ वा भवा भवेत्, तत्र सप्त भवाः सङ्ख्येयवर्षायुषः अष्टमस्त्वस पेयवर्षायुष एव, तथाहि - पर्याप्तमनुष्याः पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यश्वो वा निरन्तरं यथासङ्ख्यं सप्त नरभवांस्तिर्यग्भवान् वाऽनुभूय यद्यष्टमे भवे भूयस्तेष्वेवोत्पद्यन्ते तदा नियमादसङ्ख्यायुष्केष्वेव नेतरेषु, असङ्ख्यायुश्च मृत्वा सुरेष्वेवोत्पद्यन्ते ततो नवमोऽपि नरभवस्तिर्यग्भवो वा निरन्तरं न लभ्यते, अष्टसु च भवेषूत्कर्षतः कालमानं त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाधिकानि, जघन्या तु सर्वत्रापि कायस्थितिरन्तर्मुहूर्तमिति १८५ ॥ ९४ ॥ ॥ ९५ ॥ सम्प्रति 'एगिंदियविगलसन्निजीवाणं भवद्विइति षडशीत्यधिकशततमं द्वारमाह
बावीसई सहस्सा सत्तेव सहस्स तिन्निऽहोरन्ता । वाए तिन्नि सहस्सा दसवास सहस्सिया रुक्खा ॥ ९६ ॥ संवच्छराई बारस राईदिय हुंति अउणपन्नासं । छम्मास तिनि पलिया पुढवाईणं ठिङकोसा ॥ ९७ ॥ सहा य १ सुद्ध २ वालुय ३ मणोसिला ४ सकरा य ५ खरपुढवी ६ । एकं १ बारस २ चउदस ३ सोलस ४ अट्ठार ५ बावीसा ६ ॥ ९८ ॥
216