SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ कृत्वा भ्राष्ट्र्पाकयोग्यान् करोतीत्य सावम्बरीषस्य-भ्राष्ट्रस्य सम्बन्धादम्बरीष इति २ यस्तु रज्जुपाणिप्रहारादिना शातनपातनादिकं करोति वर्णतश्च श्यामः स श्याम इति ३ यश्चाश्रवसाहृदयकालेज्यकादीन्युत्पाटयति वर्णतश्च शबल: - कर्बुरः स शबल इति ४ यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्रः ५ यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्रः ६ यः पुनः कण्डादिषु पचति वर्णतश्च कालः स कालः ७ महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल इति ८ असि: - खगस्तदाकारपत्रवद्वनं विकुर्व्य यस्तत्समाश्रितान्नार कानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः ९ यो धनुर्विमुक्तार्धचन्द्रादिभिर्बाणैः कर्णादीनां छेदनभेदनानि करोति स धनुः १० भगवत्यां तु महाकालानन्तरमसिस्ततोऽसिपत्रस्ततः कुम्भ इति पठ्यते, तत्र योऽसिना नारकांश्छिनत्ति सोऽसिः शेषं तथैव, यः कुम्भ्यादिषु तान् पचति स कुम्भः ११ यः कदम्बपुष्पाकारा कारासु वा वैक्रियासु वालुकासु तप्तासु चनकानिव तान् पचति स वालुकः १२ विरूपं तरणं प्रयोजनमस्या इति वैतरणी ति यथार्थां पूयरुधिरत्रपुताम्रादिभिरतितापात्कलकलायमानैर्भृतां नदीं विकुर्वित्वा तत्तारणेन नारकान् यः कदर्थयति स वैतरणीति १३ यो वज्रकण्टकाकुलशाल्मलीवृक्षे नारकमारोप्य खरं खरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वरः १४ यस्तु भीतान् प्रपलायमानान्नारकान् पशूनिव वाटकेषु महाघोषं कुर्वतो निरुणद्धि स महाघोष इति १५ । एवमेते पञ्चदश परमाधार्मिकाः प्रारजन्मनि सङ्किष्टक्रूरक्रियाः पापाभिरताः पञ्चाम्यादिरूपं मिध्याकष्टतपः कृत्वा रौद्रीमासुरीं गतिमनुप्राप्ताः सन्तस्ताच्छील्यान्नारकाणामाद्यासु तिसृषु पृथिवीषु विविघवेदनाः समुदीरयन्ति तथा कदुर्थ्यमानांश्च नारकान् दृष्ट्वा इहत्यमेषमहिषकुर्कुटादियुद्धप्रेक्षकनरा इव हृष्यन्ति, हृष्टाञ्चाट्टाट्टहासं चेलोत्क्षेपं त्रिपद्यास्फालनादि च कुर्वन्ति, किं बहुना ?, यथैषामित्थं प्रीतिर्न तथा नितान्तकान्ते प्रेक्षणकादाविति १८७ ।। ८५ ।। ८६ ।। सम्प्रति 'नरयुबट्टाण लद्धिसंभवो' स्येकाशीत्यधिकशततमं द्वारमाह तिसु तित् चत्थीए केवलं पंचमीइ सामन्नं । छट्ठीऍ विरइऽविरई सत्तमपुढवीइ सम्मतं ॥ ८७ ॥ पढमाओ चक्कवही बीयाओ रामकेसवा हुंति । तचाओ अरहंता तहतकिरिया चउत्थीओ॥ ८८ ॥ उहिया संता नेरइया तमतमाओ पुढवीओं । न लहंति माणुसतं तिरिक्खजोणिं उवणमंति ॥ ८९ ॥ छट्ठीओ पुढवीओ उच्चहा इह अणंतरभवंमि । भज्जा मणुस्सजम्मे संजमलंभेण उ विहीणा ॥ ९० ॥ इह 'तिसु'त्ति सप्तम्याः प्राकृतत्वेन पञ्चम्यर्थत्वादाद्याभ्यस्तिसृभ्य एव पृथिवीभ्य उद्वृत्ता अनन्तरभवे तीर्थकृतो भवन्ति, न शेषपृथिवीभ्यः, सम्भवमात्रं चेदं, न नियम:, तेन ये पूर्वनिबद्धनरकायुषः सन्तः स्वहेतूपात्ततीर्थकृन्नामगोत्राः श्रेणिकादय इव नरकेषु गच्छन्ति त एव तत उद्वृत्ता अनन्तरभवे तीर्थकृतो, न शेषाः, चतुर्थ्याः पृथव्या उद्वृत्ताः केचित् केवलं - केवलज्ञानं सामान्येन प्राप्नुवन्ति, तीर्थकृतस्तु नियमेन न भवन्ति, पञ्चम्या उद्वृत्ताः श्रामण्यं - सर्वविरतिरूपं लभन्ते न तु केवलज्ञानं, षष्ठया उद्वृत्ता विरत्यविरतिं - देशविरतिं लभन्ते न तु श्रामण्यं, सप्तम्या उद्वृत्ताः सम्यक्त्वं सम्यग्दर्शनरूपं, न देशविरत्यादिकमिति, अयमत्र भावार्थ:- आद्याभ्यस्तिसृभ्य उद्वृत्तास्तीर्थकृतो भवन्ति चतसृभ्य उद्वृत्ताः केवलज्ञानिनः पञ्चम्या उद्वृत्ताः संयमिनः षष्ठया उद्वृत्ता देशविरताः सप्तम्या उद्वृत्ताः सम्यग्दृष्टय इति ॥ ८७॥ पुनरपि लब्धिविशेषसम्भवं दर्शयन्नाह - ' पढ में 'त्यादि, प्रथमायाः - रत्नप्रभाया एवोद्धृताश्चक्रवर्तिनो भवन्ति न शेषपृथिवीभ्यः, द्विती'यायाः - द्वितीयां मर्यादीकृत्य नरकेभ्य उद्धृता रामकेशवा - बलदेववासुदेवा भवन्ति, एवं सर्वत्र मर्यादा भावनीया, तृतीयाया उद्धृता अर्हन्तो भवन्ति, चतुर्ध्या उद्धृता 'अंतकिरिय'त्ति पदैकदेशे पदसमुदायोपचाराद् अन्तक्रियासाधकाः, मुक्तिगामिनो भवन्तीत्यर्थः, तथा तमस्तमामिधानायाः सप्तम्याः पृथिव्या उद्धृताः सन्तो नारका नियमान्मानुषत्वं न लभन्ते, किन्तु तिर्यग्योनिमुपनमन्ति - धातूनामनेकार्थत्वेन प्राप्नुवन्ति, तथा षष्ठया:--तमःप्रभाभिधानायाः पृथिव्या उद्धृताः सन्तो नारका इहानन्तरभवे मनुष्यजन्मनि भाज्या:-- केचि न्मनुष्या भवन्ति केचित्तु नेति भावः, येऽपि च मनुष्या भवन्ति तेऽपि नियमतः संयमलाभेन - सर्वविरतिलाभेन विहीना भवन्ति, न तु कदाचनापि तद्युक्ताः १८१ ।। ८८ ।। ८९ ।। ९० ।। इदानीं 'तेसु जेसिमुववाओ' इति द्व्यशीत्यधिकशततमं द्वारमाह अस्सन्नी खलु पढमं दोघं च सरिसिवा तइय पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमिं पुढविं ॥ ९१ ॥ छद्धिं च इत्थियाओ मच्छा मणुया य सत्तमिं पुढविं । एसो परमुववाओ बोद्धवो नरयपुढवीसु ॥ ९२ ॥ वालेसु य दाढीसु य पक्खीसु य जलयरेसु उववन्ना । संखिज्जाउठिईया पुणोऽवि नरयाउया हुंति ॥ ९३ ॥ असंज्ञिन:-सम्मूर्च्छिमाः पञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तचावधारणमेवं - असंज्ञिनः प्रथमामेव पृथिवीं यावद्गच्छन्ति, न परत इति, न तु त एव प्रथमां गच्छन्ति, गर्भजसरीसृपादीनामपि उत्तरपृथिवीषट्कगामिनां तत्र गमनभावात्, एवमुत्तरत्राप्यवधारणं भावनीयं, असंज्ञिनश्चात्र तिर्यथ्यो ज्ञेयाः, संमूच्छिममनुष्याणामपर्याप्तानामेव कालकरणतो नरकगतेरभावात्, तत्रापि पल्योपमासङ्ख्येयभागायुष्केष्वेव, उक्तं च - " असन्नी णं नेरइयाउ पकरेमाणा जहन्नेणं दस वाससहस्साइं उक्कोसेणं पलि 215
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy